संस्कृत सूची|संस्कृत साहित्य|उपनिषद|वराहोपनिषत्| द्वितीयोऽध्यायः वराहोपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽद्यायः पञ्चमोऽध्यायः वराहोपनिषत् - द्वितीयोऽध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद द्वितीयोऽध्यायः Translation - भाषांतर ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् ।वरिष्ठां ब्रह्मविद्यां त्वमधीहि भगवन्मम ।एवं स स्पृष्टो भगवान्प्राह भक्तार्तिभञ्जनः ॥१॥स्ववर्णाश्रमधर्मेण तपसा गुरुतोषणात् ।साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् ॥२॥नित्यानित्यविवेकश्च इहामुत्र विरागता ।शमादिषट्कसंपत्तिर्मुमुक्षा तां समभ्यसेत् ॥३॥एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् ।विहाय साक्षिचैतन्ये मयि कुर्यादहंमतिम् ॥४॥दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम् ।ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना ॥५॥अतिवर्णाश्रमं रूपं सच्चिदानन्दलक्षणम् ।यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति ॥६॥अहमेव सुखं नान्यदन्यच्चेन्नैव तत्सुखम् ।अमदर्थं न हि प्रेयो मदर्थं न स्वतःप्रियम् ॥७॥परप्रेमास्पदतया मा न भूवमहं सदा ।भूयासमिति यो द्रष्टा सोऽहं विष्णुर्मुनीश्वर ॥८॥न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना ।स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् ॥९॥स्वयं भातं निराधारं ये जानन्ति सुनिश्चितम् ।ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः ॥१०॥स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः ।न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः ॥११॥अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् ।स्वयंप्रकाशमात्मानं नैव मां स्प्रष्टुमार्हति ॥१२॥सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम् ।ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् ॥१३॥भासमानमिदं सर्वं मानरूपं परं पदम् ।पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥१४॥देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ।आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥१५॥सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् ।ब्रह्मानन्दं सदा पश्यन्कथं बध्येत कर्मणा ॥१६॥त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् ।त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः ॥१७॥सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥१८॥प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञालक्षणम् ।एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् ॥१९॥तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।विदित्वा स्वात्मनो रूपं न बिभेति कुतश्चन ॥२०॥चिन्मात्रं सर्वगं नित्यं संपूर्णं सुखमद्वयम् ।साक्षाद्ब्रह्मैव नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः ॥२१॥अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् ।अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषाम् ॥२२॥अनन्ते सच्चिदानन्दे मयि वाराहरूपिणी ।स्थितेऽद्वितीयभावः स्यात्को बन्धः कश्च मुच्यते ॥२३॥स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् ।नैव देहादिसङ्घातो घटवद्दृशिगोचरः ॥२४॥स्वात्मनोऽन्यदिवाभातं चराचरमिदं जगत् ।स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय ॥२५॥स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः ।अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् ॥२६॥ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् ।पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् ॥२७॥मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते ॥२८॥यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् ।परमार्थैकविज्ञानं सुखात्मानं स्वयंप्रभम् ॥२९॥स्वस्वरूपतया सर्वं वेद स्वानुभवेन यः ।स धीरः स तु विज्ञेयः सोऽहं तत्त्वं ऋभो भव ॥३०॥अतः प्रपञ्चानुभवः सदा न हिस्वरूपबोधानुभवः सदा खलु ।इति प्रपश्यन्परिपूर्णवेदनोन बन्धमुक्तो न च बद्ध एव तु ॥३१॥स्वस्वरूपानुसन्धानान्नृत्यन्तं सर्वसाक्षिणम् ।मुहूर्तं चिन्तयेन्मां यः सर्वबन्धैः प्रमुच्यते ॥३२॥सर्वभूतान्तरस्थाय नित्यमुक्तचिदात्मने ।प्रत्यक्चैतन्यरूपाय मह्यमेव नमोनमः ॥३३॥त्वं वहमस्मि भगवो देवतेऽहं वै त्वमसि ।तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने ॥३४॥नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च ।किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ॥३५॥यन्मया पूरितं विश्वं महाकल्पांबुना यथा ।अन्तःसङ्गं बहिःसङ्गमात्मसङ्गं च यस्त्यजेत् ।सर्वसङ्गनिवृत्तात्मा स मामेति न संशयः ॥३६॥अहिरिव जनयोगं सर्वदा वर्जयेद्यःकुणपमिव सुनारीं त्यक्तुकामो विरागी ।विषमिव विषयादीन्मन्यमानो दुरन्ताञ्जगति परमहंसो वासुदेवोऽहमेव ॥३७॥इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ।अहं सत्यं परं ब्रह्म मत्तः किंचिन्न विद्यते ॥३८॥उप समीपे यो वासो जीवात्मपरमात्मनोः ।उपवासः स विज्ञेयो न तु कायस्य शोषणम् ॥३९॥कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् ।वल्मीकताडनादेव मृतः किं नु महोरगः ॥४०॥अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् ।अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते ॥४१॥यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् ।तस्मात्कालात्समारभ्य जीवन्मुक्तो भयेदसौ ॥४२॥अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ॥४३॥ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ।बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका ।सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो ॥४४॥संकल्पमात्रकलनेन जगत्समग्रंसंकल्पमात्रकलने हि जगद्विलासः ।संकल्पमात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व ॥४५॥मच्चिन्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् ।मदेकपरमो भूत्वा कालं नय महामते ॥४६॥चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ।चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥४७॥रागं नीरागतां नीत्वा निर्लेपो भव सर्वदा ।अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा ॥४८॥श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते कथम् ।अनात्मनां परित्यज्य निर्विकारो जगत्स्थितौ ॥४९॥एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव ।घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ ॥५०॥एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ।या च प्रागात्मनो माया तथान्ते च तिरस्कृता ॥५१॥ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः ।मायातत्कार्यविलये नेश्वरत्वं न जीवता ॥५२॥ततः शुद्धश्चिदेवाहं व्योमवन्निरुपाधिकः ।जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ॥५३॥ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥५४॥त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः ।लोकायतादिसांख्यान्ता जीवविश्रान्तिमाश्रिताः ॥५५॥तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः ।कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥५६॥अद्वितीयब्रह्मतत्त्वं न जानन्ति यथा तथा ।भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् ॥५७॥उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन किम् ।स्वप्नस्थराज्यभिक्षाभ्यां प्रबुद्धः स्पृशते खलु ॥५८॥अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥५९॥बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥६०॥सूक्ष्मनाडिषु संचारो बुद्धेः स्वप्नः प्रजायते ।संचारधर्मरहिते मयि स्वप्नो न विद्यते ॥६१॥सुषुप्तिकाले सकले विलीने तमसावृते ।स्वरूपं महदानन्दं भुङ्क्ते विश्वविवर्जितः ॥६२॥अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् ।स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥६३॥दीर्घस्वप्नमिदं यत्तद्दीर्घं वा चित्तविभ्रमम् ।दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् ।सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् ॥६४॥आरोपितस्य जगतः प्रविलापनेनचित्तं मदात्मकतया परिकल्पितं नः ।शत्रून्निहत्य गुरुषट्कगणान्निपाताद्गन्धद्विपो भवति केवलमद्वितीयः ॥६५॥अद्यास्तमेतु वपुराशशितारमास्तांकस्तावतापि मम चिद्वपुषो विशेषः ।कुम्भे विनश्यति चिरं समवस्थिते वाकुम्भाम्बरस्य नहि कोऽपि विशेषलेशः ॥६६॥अहिनिर्ल्वयनी सर्पनिर्मोको जीववर्जितः ।वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥६७॥एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ।नेति नेतीति रूपत्वादशरीरो भवत्ययम् ॥६८॥शास्त्रेण न स्यात्परमार्थदृष्टिःकार्यक्षमं पश्यति चापरोक्षम् ।प्रारब्धनाशात्प्रतिभाननाशएवं त्रिधा नश्यति चात्ममाया ॥६९॥ब्रह्मत्वे योजिते स्वामिञ्जीवभावो न गच्छति ।अद्वैते बोधिते तत्त्वे वासना विनिवर्तते ॥७०॥प्रारब्धान्ते देहहानिर्मायेति क्षीयतेऽखिला ।अस्तीत्युक्ते जगत्सर्वं सद्रसं ब्रह्म तद्भवेत् ॥७१॥भातीत्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् ।मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥७२॥अज्ञानमेव न कुतो जगतः प्रसङ्गोजीवेशदेशिकविकल्पकथातिदूरे ।एकान्तकेवलचिदेकरसस्वभावेब्रह्मैव केवलमहं परिपूर्णमस्मि ॥७३॥बोधचन्द्रमसि पूर्णविग्रहेमोहराहुमुषितात्मतेजसि ।स्नानदानयजनादिकाःक्रिया मोचनावधि वृथैव तिष्ठते ॥७४॥सलिले सैन्धवं यद्वत्साम्यं भवति योगतः ।तथात्ममनसोरैक्यं समाधिरिति कथ्यते ॥७५॥दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥७६॥उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः ।योगिनः सहजावस्था स्वयमेव प्रकाशते ॥७७॥रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः ।रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥७८॥मूर्च्छितो हरति व्याधिं मृतो जीवयति स्वयम् ।बद्धः खेचरतां धत्ते ब्रह्मत्वं रसचेतसि ॥७९॥इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः ।मारुतस्य लयो नाथस्तन्नाथं लयमाश्रय ॥८०॥निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् ।उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः ।स्वावगम्यो लयः कोऽपि मनसां वागगोचरः ॥८१॥पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपिब्रह्मावलोकनधियं न जहाति योगी ।सङ्गीतताललयवाद्यवशं गतापिमौलिस्थकुम्भपरिरक्षणधीर्नटीव ॥८२॥सर्वचिन्तां परित्यज्य सावधानेन चेतसा ।नाद एवानुसन्धेयो योगसाम्राज्यमिच्छता ॥८३॥इति द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP