संस्कृत सूची|संस्कृत साहित्य|उपनिषद|वराहोपनिषत्| तृतीयोध्यायः वराहोपनिषत् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोध्यायः चतुर्थोऽद्यायः पञ्चमोऽध्यायः वराहोपनिषत् - तृतीयोध्यायः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद तृतीयोध्यायः Translation - भाषांतर नहि नानास्वरूपं स्यादेकं वस्तु कदाचन ।तस्मादखण्ड एवास्मि यन्मदन्यन्न किंचन ॥१॥दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।नित्यशुद्ध विमुक्तैकमखण्डानन्दमद्वयम् ।सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥२॥आनन्दरूपोऽहमखण्डबोधःपरात्परोऽहं घनचित्प्रकाशः ।मेघा यथा व्योम न च स्पृशन्तिसंसारदुःखानि न मां स्पृशन्ति ॥३॥सर्वं सुखं विद्धि सुदुःखनाशात्सर्वं च सद्रूपमसत्यनाशात् ।चिद्रूपमेव प्रतिभानयुक्तंतस्मादखण्डं मम रूपमेतत् ॥४॥न हि जनिर्मरणं गमनागमौन च मलं विमलं न च वेदनम् ।चिन्मयं हि सकलं विराजतेस्फुटतरं परमस्य तु योगिनः ॥५॥सत्यचिद्घनमखण्डमद्वयंसर्वदृश्यरहितं निरामयम् ।यत्पदं विमलमद्वयं शिवंतत्सदाहमिति मौनमाश्रय ॥६॥जन्ममृत्युसुखदुःखवर्जितंजातिनीतिकुलगोत्रदूरगम् ।चिद्विवर्तजगतोऽस्य कारणंतत्सदाहमिति मौनमाश्रय ॥७॥पूर्णमद्वयमखण्डचेतनंविश्वभेदकलनादिवर्जितम् ।अद्वितीयपरसंविदंशकंतत्सदाहमिति मौनमाश्रय ॥८॥केनाप्यबाधितत्वेन त्रिकालेऽप्येकरूपतः ।विद्यमानत्वमस्त्येतत्सद्रूपत्वं सदा मम ॥९॥निरुपाधिकनित्यं यत्सुप्तौ सर्वसुखात्परम् ।सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम ॥१०॥दिनकरकिरणैर्हि शार्वरं तमोनिबिडतरं झटिति प्रणाशमेति ।घनतरभवकारणं तमो यद्द्हरिदिनकृत्प्रभया न चान्तरेण ॥११॥मम चरणस्मरणेन पूजया चस्वकतमसः परिमुच्यते हि जन्तुः ।न हि मरणप्रभवप्रणाशहेतुर्मम चरणस्मरणादृतेऽस्ति किंचित् ॥१२॥आदरेण यथा स्तौति धनवन्तं धनेच्छया ।तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥१३॥आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु ।तथा मत्संनिधावेव समस्तं चेष्टते जगत् ॥१४॥शुक्तिकाया यथा तारं कल्पितं मायया तथा ।महदादि जगन्मायामयं मय्येव केवलम् ॥१५॥चण्डालदेहे पश्वादिस्थावरे ब्रह्मविग्रहे ।अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् ॥१६॥विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् ।तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि ॥१७॥न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति ।न चित्तं नैव माया च न च व्योमादिकं जगत् ॥१८॥न कर्ता नैव भोक्ता च न च भोजयिता तथा ।केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः ॥१९॥जलस्य चलनादेव चञ्चलत्वं यथा रवेः ।तथाहंकारसम्बधादेव संसार आत्मनः ॥२०॥चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् ।हन्त चित्तमहत्तायां कैषा विश्वासता तव ॥२१॥क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा ।प्राक्तनानि प्रयातानि गताः सर्गपरम्परः ।कोटयो ब्रह्मणां याता भूपा नष्टाः परागवत् ॥२२॥स चाध्यात्माभिमानोऽपि विदुषोऽयासुरत्वतः ।विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं तत्त्वदर्शनम् ॥२३॥उत्पाद्यमाना रागाद्या विवेकज्ञानवह्निना ।यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥२४॥यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः ।तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् ॥२५॥अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति ।द्रव्यमन्त्रक्रियाकालयुक्त्याप्नोति मुनीश्वर ॥२६॥नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् ।आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥२७॥ये केचन जगद्भावास्तानविद्यामयान्विदुः ।कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥२८॥द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः ।परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥२९॥सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः ।स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः ॥३०॥ इति॥इति तृतीयोध्यायः ॥३॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP