संस्कृत सूची|संस्कृत स्तोत्र साहित्य|उपनिषद|श्रीशिवोपनिषत्| सप्तमः श्रीशिवोपनिषत् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः विश्रामोपनिषत् श्रीशिवोपनिषत् - सप्तमः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद सप्तमः Translation - भाषांतर अथ स्वर्गापवर्गार्थे प्रवक्ष्यामि समासतः ।सर्वेषां शिवभक्तानां शिवाचारमनुत्तमम् ॥१॥शिवः शिवाय भूतानां यस्माद्दानं प्रयच्छति ।गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् ॥२॥नालक्षणे यथा लिङ्गे सांनिध्यं कल्पयेच्छिवः ।अल्पागमे गुरौ तद्वत्सांनिध्यं न प्रकल्पयेत् ॥३॥शिवज्ञानार्थतत्त्वज्ञः प्रसन्नमनसं गुरुम् ।शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतरः ॥४॥गुरुं च शिववद्भक्त्या नमस्कारेण पूजयेत् ।कृताञ्जलिस्त्रिसंध्यं च भूमिविन्यस्तमस्तकः ॥५॥न विविक्तमनाचान्तं चङ्क्रमन्तं तथाकुलम् ।समाधिस्थं व्रजन्तं च नमस्कुर्याद्गुरुं बुधः ॥६॥व्याख्याने तत्समाप्तौ च सम्प्रश्ने स्नानभोजने ।भुक्त्वा च शयने स्वप्ने नमस्कुर्यात्सदा गुरुम् ॥७॥ग्रामान्तरमभिप्रेप्सुर्गुरोः कुर्यात्प्रदक्षिणम् ।सार्वाङ्गिकप्रणामं च पुनः कुर्यात्तदागतः ॥८॥पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् ।शिवज्ञानस्य चारम्भे प्रवासगमनागतौ ॥९॥शिवधर्मव्रतारम्भे तत्समाप्तौ च कल्पयेत् ।प्रसादनाय कुपितो विजित्य च रिपुं तथा ॥१०॥पुण्याहे ग्रहशान्तौ च दीक्षायां च सदक्षिणम् ।आवार्य पदसम्प्राप्तौ पवित्रे चोपविग्रहे ॥११॥उपानच्छत्त्रशयनं वस्त्रमासनभूषणम् ।पात्रदण्डाक्षसूत्रं वा गुरुसक्तं न धारयेत् ॥१२॥हास्यनिष्ठीवनास्फोटमुच्चभाष्यविजृम्भणम् ।पादप्रसारणं गतिं न कुर्याद्गुरुसंनिधौ ॥१३॥हीनान्नपानवस्त्रः स्यान्नीचशय्यासनो गुरोः ।न यथेष्टश्च संतिष्ठेत्कलहं च विवर्जयेत् ॥१४॥प्रतिवाते ऽनुवाते वा न तिष्ठेद्गुरुणा सह ।असंश्रये च सततं न किंचित्कीर्तयेद्गुरोः ॥१५॥अन्यासक्तो न भुञ्जानो न तिष्ठन्नपराङ्मुखः ।न शयनो न चासीनः संभास्येद्गुरुणा सह ॥१६॥दृष्ट्वैव गुरुमायान्तमुत्तिष्ठेद्दूरतस्त्वरम् ।अनुज्ञातश्च गुरुणा संविशेच्चानुपृष्ठतः ॥१७॥न कण्ठं प्रावृतं कुर्यान्न च तत्रावसक्तिकाम् ।न पादधावनस्नानं यत्र पश्येद्गुरुः स्थितः ॥१८॥न दन्तधावनाभ्यङ्गमायामोद्वर्तनक्रियाः ।उत्सर्गपरिधानं च गुरोः कुर्वीत पश्यतः ॥१९॥गुरुर्यदर्पयेत्किंचिद्गृहासन्नं तदञ्जलौ ।पात्रे वा पुरतः शिष्यस्तद्वक्त्रमभिवीक्षयन् ॥२०॥यदर्पयेद्गुरुः किंचि तन्नम्रः पुरतः स्थितः ।पाणिद्वयेन गृह्णीयत्स्थापयेत्तच्च सुस्थितम् ॥२१॥न गुरोः कीर्तयेन्नाम परोऽक्षमपि केवलम् ।समानसंज्ञमन्यं वा नाह्वयीत तदाख्यया ॥२२॥स्वगुरुस्तद्गुरुश्चैव यदि स्यातां समं क्वचित् ।गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च तदाज्ञया ॥२३॥अनिवेद्य न भुञ्जीत भुक्त्वा चास्य निवेदयेत् ।नाविज्ञाप्य गुरुं गच्छेद्बहिः कार्येण केनचित् ॥२४॥गुर्वाज्ञया कर्म कृत्वा तत्समाप्तौ निवेदयेत् ।कृत्वा च नैत्यकं सर्वमधीयीताज्ञया गुरोः ॥२५॥मृद्भस्मगोमयजलं पत्त्रपुष्पेन्धनं समित् ।पर्याप्तमष्टकं ह्येतद्गुर्वर्थं तु समाहरेत् ॥२६॥भैषज्याहारपात्राणि वस्त्रशय्यासनं गुरोः ।आनयेत्सर्वयत्नेन प्रार्थयित्वा धनेश्वरान् ॥२७॥गुरोर्न खण्डयेदाज्ञामपि प्राणान्परित्यजेत् ।कृत्वाज्ञां प्राप्नुयान्मुक्तिं लङ्घयन्नरकं व्रजेत् ॥२८॥पर्यटेत्पृथिवीं कृत्स्नां सशैलवनकाननाम् ।गुरुभैषज्यसिद्ध्यर्थमपि गच्छेद्रसातलम् ॥२९॥यदादिशेद्गुरुः किंचित्तत्कुर्यादविचारतः ।अमीमांस्या हि गुरवः सर्वकार्येषु सर्वथा ॥३०॥नोत्थापयेत्सुखासीनं शयानं न प्रबोधयेत् ।आसीनो गुरुमासीनमभिगच्छेत्प्रतिष्ठितम् ॥३१॥पथि प्रयान्तं यान्तं च यत्नाद्विश्रमयेद्गुरुम् ।क्षित्पिपासातुरं स्नातं ज्ञात्वा शक्तं च भोजयेत् ॥३२॥अभ्यङ्गोद्वर्तनं स्नानं भोजनष्ठीवमार्जनम् ।गात्रसंवाहनं रात्रौ पादाभ्यङ्गं च यत्नतः ॥३३॥प्रातः प्रसाधनं दत्त्वा कार्यं संमार्जनाञ्जनम् ।नानापुष्पप्रकरणं श्रीमद्व्याख्यानमण्डपे ॥३४॥स्थाप्यासनं गुरोः पूज्यं शिवज्ञानस्य पुस्तकम् ।तत्र तिष्ठेत्प्रतीक्षंस्तद्गुरोरागमनं क्रमात् ॥३५॥गुरोर्निन्दापवादं च श्रुत्वा कर्णौ पिधापयेत् ।अन्यत्र चैव सर्पेत्तु निगृह्णीयादुपायतः ॥३६॥न गुरोरप्रियं कुर्यात्पीडितस्तारितो ऽपि वा ।नोच्चारयेच्च तद्वाक्यमुच्चार्य नरकं व्रजेत् ॥३७॥गुरुरेव पिता माता गुरुरेव परः शिवः ।यस्यैव निश्चितो भावस्तस्य मुक्तिर्न दूरतः ॥३८॥आहाराचारधर्माणां यत्कुर्याद्गुरुरीश्वरः ।तथैव चानुकुर्वीत नानुयुञ्जीत कारणम् ॥३९॥यज्ञस्तपांसि नियमात्तानि वै विविधानि च ।गुरुवाक्ये तु सर्वाणि सम्पद्यन्ते न संशयः ॥४०॥अज्ञानपङ्कनिर्मग्नं यः समुद्धरते जनम् ।शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् ॥४१॥इति यः पूजयेन्नित्यं गुरुमूर्तिस्थमीश्वरम् ।सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥४२॥स्नात्वाम्भसा भस्मना वा शुक्लवस्त्रोपवीतवान् ।दूर्वागर्भस्थितं पुष्पं गुरुः शिरसि धारयेत् ॥४३॥रोचनालभनं कुर्याद्धूययेदात्मनस्तनुम् ।अङ्गुलीयाक्षसूत्रं च कर्णमात्रे च धारयेत् ॥४४॥गुरुरेवंविधः श्रीमान्नित्यं तिष्ठेत्समाहितः ।यस्माज्ज्ञानोपदेशार्थं गुरुरास्ते सदाशिवः ॥४५॥धारयेत्पादुके नित्यं मृदुवर्मप्रकल्पिते ।प्रगृह्य दण्डं छत्त्रं वा पर्यटेदाश्रमाद्बहिः ॥४६॥न भूमौ विन्यसेत्पादमन्तर्धानं विना गुरुः ।कुशपादकमाक्रम्य तर्पणार्थं प्रकल्पयेत् ॥४७॥पादस्थानानि पत्त्राद्यैः कृत्वा देवगृहं विशेत् ।पात्रास्तरितपादश्च नित्यं भुञ्जीत वाग्यतः ॥४८॥न पादौ धावयेत्कांस्ये लोहे वा परिकल्पिते ।शौचयेत्तृणगर्भायां द्वितीयायां तथाचमेत् ॥४९॥न रक्तमुल्बणं वस्त्रं धारयेत्कुसुमानि च ।न बहिर्गन्धमाल्यानि वासांसि मलिनानि च ॥५०॥केशास्थीनि कपालानि कार्पासास्थितुषाणि च ।अमेध्याङ्गारभस्मानि नाधितिष्ठेद्रजांसि च ॥५१॥न च लोष्टं विमृद्नीयान्न च छिन्द्यान्नखैस्तृणम् ।न पत्त्रपुष्पमूल्यानि वंशमङ्गलकाष्ठिताम् ॥५२॥एवमादीनि चान्यानि पाणिभ्यां न च मर्दयेत् ।न दन्तखादनं कुर्याद्रोमाण्युत्पाटयेन्न च ॥५३॥न पद्भ्यामुल्लिखेद्भूमिं लोष्टकाष्ठैः करेण वा ।न नखांश्च नखैर्विध्यान्न कण्डूयेन्नखैस्तनुम् ॥५४॥मुहुर्मुहुः शिरः श्मश्रु न स्पृशेत्करजैर्बुधः ।न लिक्षाकर्षणं कुर्यादात्मनो वा परस्य वा ॥५५॥सौवर्ण्यरौप्यताम्रैश्च शृङ्गदन्तशलाकया ।देहकण्डूयनं कार्यं वंशकाष्ठीकवीरणैः ॥५६॥न विचित्तं प्रकुर्वीत दिशश्चैवावलोकयन् ।न शोकार्तश्च संतिष्ठेद्धूत्वा पाणौ कपोलकम् ॥५७॥न पाणिपादवाक्चक्षुः- श्रोत्रशिश्नगुदोदरैः ।चापलानि न कुर्वीत स सर्वार्थमवाप्नुयात् ॥५८॥न कुर्यात्केनचिद्वैरमध्रुवे जीविते सति ।लोककौतूहलं पापं संध्यां च परिवर्जयेत् ॥५९॥न कुद्वारेण वेश्मानि नगरं ग्राममाविशेत् ।न दिवा प्रावृतशिरा रात्रौ प्रावृत्य पर्यटेत् ॥६०॥नातिभ्रमणशीलः स्यान्न विशेच्च गृहाद्गृहम् ।न चाज्ञानमधीयीत शिवज्ञानं समभ्यसेत् ॥६१॥शिवज्ञानं परं ब्रह्म तदारभ्य न संत्यजेत् ।ब्रह्मासाध्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः ॥६२॥कृताञ्जलिः स्थितः शिष्यो लघुवस्त्रमुदङ्मुखः ।शिवमन्त्रं समुच्चार्य प्राङ्मुखो ऽध्यापयेद्गुरुः ॥६३॥नागदन्तादिसंभूतं चतुरश्रं सुशोभनम् ।हेमरत्नचितं वापि गुरोरासनमुत्तमम् ॥६४॥न शुश्रूषार्थकामाश्च न च धर्मः प्रदृश्यते ।न भक्तिर्न यशः क्रौर्यं न तमध्यापयेद्गुरुः ॥६५॥देवाग्निगुरुगोष्ठीषु व्याख्याध्ययनसंसदि ।प्रश्ने वादे ऽनृते ऽशौचे दक्षिणं बाहुमुद्धरेत् ॥६६॥वशे सततनम्रः स्यात्संहृत्याङ्गानि कूर्मवत् ।तत्संमुखं च निर्गच्छेन्नमस्कारपुरस्सरः ॥६७॥देवाग्निगुरुविप्राणां न व्रजेदन्तरेण तु ।नार्पयेन्न च गृह्णीयात्किंचिद्वस्तु तदन्तरा ॥६८॥न मुखेन धमेदग्निं नाधःकुर्यान्न लङ्घयेत् ।न क्षिपेदशुचिं वह्नौ न च पादौ प्रतापयेत् ॥६९॥तृणकाष्ठादिगहने जन्तुभिश्च समाकुले ।स्थाने न दीपयेदग्निं दीप्तं चापि ततः क्षिपेत् ॥७०॥अग्निं युगपदानीय धारयेत प्रयत्नतः ।ज्वलन्तं न प्रदीपं च स्वयं निर्वापयेद्बुधः ॥७१॥शिवव्रतधरं दृष्ट्वा समुत्थाय सदा द्रुतम् ।शिवो ऽयमिति संकल्प्य हर्षितः प्रणमेत्ततः ॥७२॥भोगान्ददाति विपुलान्लिङ्गे सम्पूजितः शिवः ।अग्नौ च विविधां सिद्धिं गुरौ मुक्तिं प्रयच्छति ॥७३॥मोक्षार्थं पूजयेत्तस्माद्गुरुमूर्तिस्थमीश्वरम् ।गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तिमवाप्नुयात् ॥७४॥सर्वपर्वसु यत्नेन ह्येषु सम्पूजयेच्छिवम् ।कुर्यादायतने शोभां गुरुस्थानेषु सर्वतः ॥७५॥नरद्वयोच्छ्रिते पीठे सर्वशोभासमन्विते ।संस्थाप्य मणिजं लिङ्गं स्थाने कुर्याज्जगद्धितम् ॥७६॥अन्नपानविशेषैश्च नैवेद्यमुपकल्पयेत् ।भोजयेद्व्रतिनश्चात्र स्वगुरुं च विशेषतः ॥७७॥पूजयेच्च शिवज्ञानं वाचयीत च पर्वसु ।दर्शयेच्छिवभक्तेभ्यः सत्पूजां परिकल्पिताम् ॥७८॥प्रियं ब्रूयात्सदा तेभ्यः प्रदेयं चापि शक्तितः ।एवं कृते विशेषेण प्रसीदति महेश्वरः ॥७९॥छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति केवलम् ।इत्याद्यान्न वदेच्छब्दान्साक्षाद्ब्रूयात्तु मङ्गलम् ॥८०॥अधेनुं धेनुमित्येव ब्रूयाद्भद्रमभद्रकम् ।कपालं च भगालं स्यात्परमं मङ्गलं वदेत् ॥८१॥ऐन्द्रं धनुर्मणिधनुर्दाहकाष्ठादि चन्दनम् ।स्वर्यातं च मृतं ब्रूयाच्छिवीभूतं च योगिनम् ॥८२॥द्विधाभूतं वदेच्छिन्नं भिन्नं च बहुधा स्थितम् ।नष्टमन्वेषणीयं च रिक्तं पूर्णाभिवर्धितम् ॥८३॥नास्तीति शोभनं सर्वमाद्यमङ्गाभिवर्धनम् ।सिद्धिमद्ब्रूहि गच्छन्तं सुप्तं ब्रूयात्प्रवर्धितम् ॥८४॥न म्लेच्छमूर्खपतितैः क्रूरैः संतापवेदिभिः ।दुर्जनैरवलिप्तैश्च क्षुद्रैः सह न संवदेत् ॥८५॥नाधार्मिकनृपाक्रान्ते न दंशमशकावृते ।नातिशीतजलाकीर्णे देशे रोगप्रदे वसेत् ॥८६॥नासनं शयनं पानं नमस्काराभिवादनम् ।सोपानत्कः प्रकुर्वीत शिवपुस्तकवाचनम् ॥८७॥आचार्यं दैवतं तीर्थमुद्धूतोदं मृदं दधि ।वटमश्वत्थकपिलां दीक्षितोदधिसंगमम् ॥८८॥यानि चैषां प्रकाराणि मङ्गलानीह कानिचित् ।शिवायेति नमस्कृत्वा प्रोक्तमेतत्प्रदक्षिणम् ॥८९॥उपानच्छत्त्रवस्त्राणि पवित्रं करकं स्रजम् ।आसनं शयनं पानं धृतमन्यैर्न धारयेत् ॥९०॥पालाशमासनं शय्यां पादुके दन्तधावनम् ।वर्जयेच्चापि निर्यासं रक्तं न तु समुद्भवम् ॥९१॥संध्यामुपास्य कुर्वीत नित्यं देहप्रसाधनम् ।स्पृशेद्वन्देच्च कपिलां प्रदद्याच्च गवां हितम् ॥९२॥यः प्रदद्याद्गवां सम्यक्फलानि च विशेषतः ।क्षेत्रमुद्दामयेच्चापि तस्य पुण्यफलं शृणु ॥९३॥यावत्तत्पत्त्रकुसुम- कन्दमूलफलानि च ।तावद्वर्षसहस्राणि शिवलोके महीयते ॥९४॥कृशरोगार्तवृद्धानां त्यक्तानां निर्जने वने ।क्षुत्पिपासातुराणां च गवां विह्वलचेतसाम् ॥९५॥नीत्वा यस्तृणतोयानि वने यत्नात्प्रयच्छति ।करोति च परित्राणं तस्य पुण्यफलं शृणु ॥९६॥कुलैकविंशकोपेतः पत्नीपुत्रादिसंयुतः ।मित्रभृत्यैरुपेतश्च श्रीमच्छिवपुरं व्रजेत् ॥९७॥तत्र भुक्त्वा महाभोगान्विमानैः सार्वकामिकैः ।स महाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥९८॥गोब्राह्मणपरित्राणं सकृत्कृत्वा प्रयत्नतः ।मुच्यते पञ्चभिर्घोरैर्महद्भिः पातकैर्द्रुतम् ॥९९॥अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।अक्रोधो गुरुशुश्रूषा शौचं संतोषमार्जवम् ॥१००॥अहिंसाद्या यमाः पञ्च यतीनां परिकीर्तिताः ।अक्रोधाद्याश्च नियमाः सिद्धिवृद्धिकराः स्मृताः ॥१०१॥दशलाक्षणिको धर्मः शिवाचारः प्रकीर्तितः ।योगीन्द्राणां विशेषेण शिवयोगप्रसिद्धये ॥१०२॥न विन्दति नरो योगं पुत्रदारादिसंगतः ।निबद्धः स्नेहपाशेन मोहस्तम्भबलीयसा ॥१०३॥मोहात्कुटुम्बसंसक्तस्तृष्णया शृङ्खलीकृतः ।बालैर्बद्धस्तु लोको ऽयं मुसलेनाभिहन्यते ॥१०४॥इमे बालाः कथं त्याज्या जीविष्यन्ति मया विना ।मोहाद्धि चिन्तयत्येवं परमार्थौ न पश्यति ॥१०५॥सम्पर्कादुदरे न्यस्तः शुक्रबिन्दुरचेतनः ।स पित्रा केन यत्नेन गर्भस्थः परिपालितः ॥१०६॥कर्कशाः कठिना भक्षा जीर्यन्ते यत्र भक्षिताः ।तस्मिन्नेवोदरे शुक्रं किं न जीर्यति भक्ष्यवत् ॥१०७॥येनैतद्योजितं गर्भे येन चैव विवर्धितम् ।तेनैव निर्गत्ं भूयः कर्मणा स्वेन पाल्यते ॥१०८॥न कश्चित्कस्यचित्पुत्रः पिता माता न कस्यचित् ।यत्स्वयं प्राक्तनं कर्म पिता मातेति तत्स्मृतम् ॥१०९॥येन यत्र कृतं कर्म स तत्रैव प्रजायते ।पितरौ चास्य दासत्वं कुरुतस्तत्प्रचोदितौ ॥११०॥न कश्चित्कस्यचिच्छक्तः कर्तुं दुःखं सुखानि च ।करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ॥१११॥कर्मदायादसंबन्धादुपकारः परस्परम् ।दृश्यते नापकारश्च मोहेनात्मनि मन्यते ॥११२॥ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ।ग्रामस्वामिप्रसादेन सुकृतं कर्षणं यथा ॥११३॥द्वयं देवत्वमोक्षाय ममेति न ममेति च ।ममेति बध्यते जन्तुर्न ममेति विमुच्यते ॥११४॥द्व्यक्षरं च भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।ममेति द्व्यक्षरं मृत्युस्त्र्यक्षरं न ममेति च ॥११५॥तस्मादात्मन्यहंकारमुत्सृज्य प्रविचारतः ।विधूयाशेषसङ्गांश्च मोक्षोपायं विचिन्तयेत् ॥११६॥ज्ञानाद्योगपरिक्लेशं कुप्रावरणभोजनम् ।कुचर्यां कुनिवासं च मोक्षार्थी न विचिन्तयेत् ॥११७॥न दुःखेन विना सौख्यं दृश्यते सर्वदेहिनाम् ।दुःखं तन्मात्रकं ज्ञेयं सुखमानन्त्यमुत्तमम् ॥११८॥सेवायां पाशुपाल्ये च वानिज्ये कृषिकर्मणि ।तुल्ये सति परिक्लेशे वरं क्लेशो विमुक्तये ॥११९॥स्वर्गापवर्गयोरेकं यः शीघ्रं न प्रसाधयेत् ।याति तेनैव देहेन स मृतस्तप्यते चिरम् ॥१२०॥यदवश्यं पराधीनैस्त्यजनीयं शरीरकम् ।कस्मात्तेन विमूढात्मा न साधयति शाश्वतम् ॥१२१॥यौवनस्था गृहस्थाश्च प्रासादस्थाश्च ये नृपाः ।सर्व एव विशीर्यन्ते शुष्कस्निग्धान्नभोजनाः ॥१२२॥अनेकदोषदुष्टस्य देहस्यैको महान्गुणह् ।यां यामवस्थामाप्नोति तां तामेवानुवर्तते ॥१२३॥मन्दं परिहरन्कर्म स्वदेहमनुपालयेत् ।वर्षासु जीर्णकटवत्तिष्ठन्नप्यवसीदति ॥१२४॥न ते ऽत्र देहिनः सन्ति ये तिष्ठन्ति सुनिश्चलाः ।सर्वे कुर्वन्ति कर्माणि विकृशाः पूर्वकर्मभिः ॥१२५॥तुल्ये सत्यपि कर्तव्ये वरं कर्म कृतं परम् ।यः कृत्वा न पुनः कुर्यान्नानाकर्म शुभाशुभम् ॥१२६॥तस्मादन्तर्बहिश्चिन्तामनेकाकारसंस्थिताम् ।संत्यज्यात्महितार्थाय स्वाध्यायध्यानमभ्यसेत् ॥१२७॥विविक्ते विजने रम्ये पुष्पाश्रमविभूषिते ।स्थानं कृत्वा शिवस्थाने ध्यायेच्छान्तं परं शिवम् ॥१२८॥ये ऽतिरम्याण्यरण्यानि सुजलानि शिवानि तु ।विहायाभिरता ग्रामे प्रायस्ते दैवमोहिताः ॥१२९॥विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् ।न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा ॥१३०॥इति नामामृतं दिव्यं महाकालादवाप्तवान् ।विस्तरेणानुपूर्वाच्च ऋष्यात्रेयः सुनिश्चितम् ॥१३१॥प्रज्ञामथा विनिर्मथ्य शिवज्ञानमहोदधिम् ।ऋष्यात्रेयः समुद्धृत्य प्राहेदमणुमात्रकम् ॥१३२॥शिवधर्मे महाशास्त्रे शिवधर्मस्य चोत्तरे ।यदनुक्तं भवेत्किंचित्तदत्र परिकीर्तितम् ॥१३३॥त्रिदैवत्यमिदं शास्त्रं मुनीन्द्रात्रेयभाषितम् ।तिर्यङ्मनुजदेवानां सर्वेषां च विमुक्तिदम् ॥१३४॥नन्दिस्कन्दमहाकालास्त्रयो देवाः प्रकीर्तिताः ।चन्द्रात्रेयस्तथात्रिश्च ऋष्यात्रेयो मुनित्रयम् ॥१३५॥एतैर्महात्मभिः प्रोक्ताः शिवधर्माः समासतः ।सर्वलोकोपकारार्थं नमस्तेभ्यः सदा नमः ॥१३६॥तेषां शिष्यप्रशिष्यैश्च शिवधर्मप्रवक्तृभिः ।व्याप्तं ज्ञानसरः शार्वं विकचैरिव पङ्कजैः ॥१३७॥ये श्रावयन्ति सततं शिवधर्मं शिवार्थिनाम् ।ते रुद्रास्ते मुनीन्द्राश्च ते नमस्याः स्वभक्तितः ॥१३८॥ये समुत्थाय शृण्वन्ति शिवधर्मं दिने दिने ।ते रुद्रा रुद्रलोकेशा न ते प्रकृतिमानुषाः ॥१३९॥शिवोपनिषदं ह्येतदध्यायैः सप्तभिः स्मृतम् ।ऋष्यात्रेयसगोत्रेण मुनिना हितकाम्यया ॥१४०॥॥ इति शिवोपनिषदि शिवाचाराध्यायः सप्तमः ॥॥ इति शिवोपनिषत्समाप्ता ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP