संस्कृत सूची|संस्कृत साहित्य|उपनिषद|श्रीशिवोपनिषत्| षष्ठः श्रीशिवोपनिषत् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः विश्रामोपनिषत् श्रीशिवोपनिषत् - षष्ठः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद षष्ठः Translation - भाषांतर अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।यदन्नमात्मनाश्नीयात्तस्याग्रे विनिवेदयेत् ॥१॥यः कृत्वा भक्ष्यभोज्यानि यत्नेन विनिवेदयेत् ।शिवाय स शिवे लोके कल्पकोटिं प्रमोदते ॥२॥यः पक्वं श्रीफलं दद्याच्छिवाय विनिवेदयेत् ।गुरोर्वा होमयेद्वापि तस्य पुण्यफलं शृणु ॥३॥श्रीमद्भिः स महायानैर्भोगान्भुङ्क्ते शिवे पुरे ।वर्षाणामयुतं साग्रं तदन्ते श्रीपतिर्भवेत् ॥४॥कपित्थमेकं यः पक्वमीश्वराय निवेदयेत् ।वर्षलक्षं महाभोगैः शिवलोके महीयते ॥५॥एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् ।वर्षाणाम्युतं भोगैः क्रीडते स शिवे पुरे ॥६॥एकं वटफलं पक्वं यः शिवाय निवेदयेत् ।वर्षलक्षं महाभोगैः शिवलोके महीयते ॥७॥यः पक्वं दाडिमं चैकं दद्याद्विकसितं नवम् ।शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥८॥यावत्तद्बीजसंख्यानं शोभनं परिकीर्तितम् ।तावदष्टायुतान्युच्चैः शिवलोके महीयते ॥९॥द्राक्षाफलानि पक्वानि यः शिवाय निवेदयेत् ।भक्त्या वा शिवयोगिभ्यस्तस्य पुण्यफलं शृणु ॥१०॥यावत्तत्फलसंख्यानमुभयोर्विनिवेदितम् ।तावद्युगसहस्राणि रुद्रलोके महीयते ॥११॥द्राक्षाफलेषु यत्पुण्यं तत्खर्जूरफलेषु च ।तदेव राजवृक्षेषु पारावतफलेषु च ॥१२॥यो नारङ्गफलं पक्वं विनिवेद्य महेश्वरे ।अष्टलक्षं महाभोगैः कृडते स शिवे पुरे ॥१३॥बीजपूरेषु तस्यार्धं तदर्धं लिकुचेषु च ।जम्बूफलेषु यत्पुण्यं तत्पुण्यं तिन्दुकेषु च ॥१४॥पनसं नारिकेलं वा शिवाय विनिवेदयेत् ।वर्षलक्षं महाभोगैः शिवलोके महीयते ॥१५॥पुरुषं च प्रियालं च मधूककुसुमानि च ।जम्बूफलानि पक्वानि वैकङ्कतफलानि च ॥१६॥निवेद्य भक्त्या शर्वाय प्रत्येकं तु फले फले ।दशवर्षसहस्राणि रुद्रलोके महीयते ॥१७॥क्षीरिकायाः फलं पक्वं यः शिवाय निवेदयेत् ।वर्षलक्षं महाभोगैर्मोदते स शिवे पुरे ॥१८॥वालुकात्रपुसादीनि यः फलानि निवेदयेत् ।शिवाय गुरवे वापि पक्वं च करमर्दकम् ॥१९॥दशवर्षसहस्राणि रुद्रलोके महीयते ।बदराणि सुपक्वानि तिन्तिडीकफलानि च ॥२०॥दर्शनीयानि पक्वानि ह्यामलक्याः फलानि च ।एवमादीनि चान्यानि शाकमूलफलानि च ॥२१॥निवेदयति शर्वाय शृणु यत्फलमाप्नुयात् ।एकैकस्मिन्फले भोगान्प्राप्नुयादनुपूर्वशः ॥२२॥पञ्चवर्षसहस्राणि रुद्रलोके महीयते ।गोधूमचन्दकाद्यानि सुकृतं सक्तुभर्जितम् ॥२३॥निवेदयीत शर्वाय तस्य पुण्यफलं शृणु ।यावत्तद्बीजसंख्यानं शुभं भ्रष्टं निवेदयेत् ॥२४॥तावद्वर्षसहस्राणि रुद्रलोके महीयते ।यः पक्वानीक्षुदण्डानि शिवाय विनिवेदयेत् ॥२५॥गुरवे वापि तद्भक्त्या तस्य पुण्यफलं शृणु ।इक्षुपर्णानि चैकैकं वर्षलोकं प्रमोदते ॥२६॥साकं शिवपुरे भोगैः पौण्ड्रं पञ्चगुणं फलम् ।निवेद्य परमेशाय शुक्तिमात्ररसस्य तु ॥२७॥वर्षकोटिं महाभोगैः शिवलोके महीयते ।निवेद्य फाणितं शुद्धं शिवाय गुरवे ऽपि वा ॥२८॥रसात्सहस्रगुणितं फलं प्राप्नोति मानवः ।गुडस्य फलमेकं यः शिवाय विनिवेदयेत् ॥२९॥अम्बकोटिं शिवे लोके महाभोगैः प्रमोदते ।खण्डस्य पलनैवेद्यं गुडाच्छतगुणं फलम् ॥३०॥खण्डात्सहस्रगुणितं शर्कराया निवेदने ।मत्सण्डिकां महाशुद्धां शंकराय निवेदयेत् ॥३१॥कल्पकोटिं नरः साग्रं शिवलोके महीयते ।परिशुद्धं भृष्टमाज्यं सिद्धं चैव सुसंस्कृतम् ॥३२॥मासं निवेद्य शर्वाय शृणु यत्फलमाप्नुयात् ।अशेषफलदानेन यत्पुण्यं परिकीर्तितम् ॥३३॥तत्पुण्यं प्राप्नुयात्सर्वं महादाननिवेदने ।पनसानि च दिव्यानि स्वादूनि सुरभीणि च ॥३४॥निवेदयेत्तु शर्वाय तस्य पुण्यफलं शृणु ।कल्पकोटिं नरः साग्रं शिवलोके व्यवस्थितः ॥३५॥पिबन्शिवामृतं दिव्यं महाभोगैः प्रमोदते ।दिने दिने च यस्त्वापं वस्त्रपूतं समाचरेत् ॥३६॥सुखाय शिवभक्तेभ्यस्तस्य पुण्यफलं शृणु ।महासरांसि यः कुर्याद्भवेत्पुण्यं शिवाग्रतः ॥३७॥तत्पुण्यं सकलं प्राप्य शिवलोके महीयते ।यदिष्टमात्मनः किंचिदन्नपानफलादिकम् ॥३८॥तत्तच्छिवाय देयं स्यादुत्तमं भोगमिच्छता ।न शिवः परिपूर्णत्वात्किंचिदश्नाति कस्यचित् ॥३९॥किन्त्वीश्वरनिभं कृत्वा सर्वमात्मनि दीयते ।न रोहति यथा बीजं स्वस्थमाश्रयवर्जितम् ॥४०॥पुण्यबीजं तथा सूक्ष्मं निष्फलं स्यान्निराश्रयम् ।सुक्षेत्रेषु यथा बीजमुप्तं भवति सत्फलम् ॥४१॥अल्पमप्यक्षयं तद्वत्पुण्यं शिवसमाश्रयात् ।तस्मादीश्वरमुद्दिश्य यद्यदात्मनि रोचते ॥४२॥तत्तदीश्वरभक्तेभ्यः प्रदातव्यं फलार्थिना ।यः शिवाय गुरोर्वापि रचयेन्मणिभूमिकम् ॥४३॥नैवेद्य भोजनार्थं यः पत्त्रैः पुष्पैश्च शोभनम् ।यावत्तत्पत्त्रपुष्पाणां परिसंख्या विधीयते ॥४४॥तावद्वर्षसहस्राणि सुरलोके महीयते ।पलाशकदलीपद्म- पत्त्राणि च विशेषतः ॥४५॥दत्त्वा शिवाय गुरवे शृणु यत्फलमाप्नुयात् ।यावत्तत्पत्त्रसंख्यानमीश्वराय निवेदितम् ॥४६॥तावदब्दायुतानां स लोके भोगानवाप्नुयात् ।यावत्ताम्बुलपत्त्राणि पूगांश्च विनिवेदयेत् ॥४७॥तावन्ति वर्षलक्षाणि शिवलोके महीयते ।यच्छुद्धं शङ्खचूर्णं वा गुरवे विनिवेदयेत् ॥४८॥ताम्बूलयोगसिद्ध्यर्थं तस्य पुण्यफलं शृणु ।यावत्ताम्बूलपत्त्राणि चूर्णमानेन भक्षयेत् ॥४९॥तावद्वर्षसहस्राणि रुद्रलोके महीयते ।जातीफलं सकङ्कोलं लताकस्तूरिकोत्पलम् ॥५०॥इत्येतानि सुगन्धीनि फलानि विनिवेदयेत् ।फले फले महाभोगैर्वर्षलक्षं तु यत्नतः ॥५१॥कामिकेन विमानेन क्रीडते स शिवे पुरे ।त्रुटिमात्रप्रमाणेन कर्पूरस्य शिवे गुरौ ॥५२॥वर्षकोटिं महाभोगैः शिवलोके महीयते ।पूगताम्बूलपत्त्राणामाधारं यो निवेदयेत् ॥५३॥वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ।यश्चूएणाधारसत्पात्रं कस्यापि विनिवेदयेत् ॥५४॥मोदते स शिवे लोके वर्षकोटीश्चतुर्दश ।मृत्काष्ठवंशखण्डानि यः प्रदद्याच्छिवाश्रमे ॥५५॥प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ।माणिक्यं कलशं पात्रीं स्थाल्यादीन्भाण्डसम्पुटान् ॥५६॥दत्त्वा शिवाग्रजस्तेभ्यः शिवलोके महीयते ।तोयाधारपिधानानि मृद्वस्त्रतरुजानि वा ॥५७॥वंशालाबुसमुत्थानि दत्त्वाप्नोति शिवं पुरम् ।पञ्चसंमार्जनीतोयं गोमयाञ्जनकर्पटान् ॥५८॥मृत्कुम्भपीटिकां दद्याद्भोगाञ्छिवपुरे लभेत् ।यः पुष्पधूपगन्धानां दधिक्षीरघृताम्भसाम् ॥५९॥दद्यादाधारपात्राणि शिवलोके स गच्छति ।वंशतालादिसंभूतं पुष्पाधारकरण्डकम् ॥६०॥इत्येवमाद्यान्यो दद्याच्छिवलोकमवाप्नुयात् ।यः स्रुक्स्रुवादिपात्राणि होमार्थं विनिवेदयेत् ॥६१॥वर्षकोटिं महाभागैः शिवलोके महीयते ।यः सर्वधातुसंयुक्तं दद्याल्लवणपर्वतम् ॥६२॥शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ।कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥६३॥स गोत्रभृत्यसंयुक्तो वसेच्छिवपुरे नरः ।विमानयानैः श्रीमद्भिः सर्वकामसमन्वितैः ॥६४॥भोगान्भुक्त्वा तु विपुलांस्तदन्ते स महीपतिः ।मनःशिलां हरीतालं राजपट्टं च हिङ्गुलम् ॥६५॥गैरिकं मणिदन्तं च हेमतोयं तथाष्टमम् ।यश्च तं पर्वतवरं शालितण्डुलकल्पितम् ॥६६॥शिवायगुरवे वापि तस्य पुण्यफलं शृणु ।कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥६७॥यः सर्वधान्यशिखरैरुपेतं यवपर्वतम् ।घृततैलनदीयुक्तं तस्य पुण्यफलं शृणु ॥६८॥कल्पकोटिशतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ।समस्तकुलजैः सार्धं तस्यान्ते स महीपतिः ॥६९॥तिलधेनुं प्रदद्याद्यः कृत्वा कृष्णाजिने नरः ।कपिलायाः प्रदानस्य यत्फलं तदवाप्नुयात् ॥७०॥घृतधेनुं नरः कृत्वा कांस्यपात्रे सकाञ्चनान् ।निवेद्य गोप्रदानस्य समग्रं फलमाप्नुयात् ॥७१॥द्वीपिचर्मणि यः स्थाप्य प्रदद्याल्लवणाढकम् ।अशेषरसदानस्य यत्पुण्यं तदवाप्नुयात् ॥७२॥मरिचाढेन कुर्वीत मारीचं नाम पर्वतम् ।दद्याद्यज्जीरकं पूर्वमाग्नेयं हिङ्गुमुत्तमम् ॥७३॥दक्षिणे गुडशुण्ठीं च नैरृते नागकेसरम् ।पिप्पलीं पश्चिमे दद्याद्वायव्ये कृष्णजीरकम् ॥७४॥कौबेर्यामजमोदं च त्वगेलाश्चेशदैवते ।कुस्तुम्बर्याः प्रदेयाः स्युर्बहिः प्राकारतः स्थिताः ॥७५॥ककुभामन्तरालेषु समन्तात्सैन्धवं न्यसेत् ।सपुष्पाक्षततोयेन शिवाय विनिवेदयेत् ॥७६॥यावत्तद्दीपसंख्यानं सर्वमेकत्र पर्वते ।तावद्वर्षशतादूर्ध्वं भोगान्भुङ्क्ते शिवे पुरे ॥७७॥कूश्माण्डं मध्यतः स्थाप्य कालिङ्गं पूर्वतो न्यसेत् ।दक्षिणे क्षीरतुम्बीं तु वृन्ताकं पश्चिमे न्यसेत् ॥७८॥पटीसान्युत्तरे स्थाप्य कर्कटीमीशदैवते ।न्यसेद्गजपटोलांश्च मधुरान्वह्निदैवते ॥७९॥कारवेल्लांश्च नैरृत्यां वायव्यां निम्बकं फलम् ।उच्चावचानि चान्यानि फलानि स्थापयेद्बहिः ॥८०॥अभ्यर्च्य पुष्पधूपैश्च समन्तात्फलपर्वतम् ।शिवाय गुरवे वापि प्रणिपत्य निवेदयेत् ॥८१॥यावत्तत्फलसंख्यानं तद्दीपानां च मध्यतः ।तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥८२॥मूलकं मध्यतः स्थाप्य तत्पूर्वे वालमूलकम् ।आग्नेय्यां वास्तुकं स्थाप्य याम्यायां क्षारवास्तुकम् ॥८३॥पालक्यं नैरृते स्थाप्य सुमुखं पश्चिमे न्यसेत् ।कुहद्रकं च वायव्यामुत्तरे वापि तालिकीम् ॥८४॥कुसुम्भशाकमैशान्यां सर्वशाकानि तद्बहिः ।पूर्वक्रमेण विन्यस्य शिवाय विनिवेदयेत् ॥८५॥यावत्तन्मूलनालानां पत्त्रसंख्या च कीर्तिता ।तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥८६॥दत्त्वा लभेन्महाभोगान्गुग्गुल्वद्रेः पलद्वयम् ।वर्षकोटिद्वयं स्वर्गे द्विगुणं गुडमिश्रितैः ॥८७॥गुडार्द्रकं सलवणमाम्रमञ्जरिसंयुतम् ।निवेद्य गुरवे भक्त्या सौभाग्यं परमं लभेत् ॥८८॥हस्तारोप्येण वा कृत्वा महारत्नान्वितां महीम् ।निवेदयित्वा शर्वाय शिवतुल्यः प्रजायते ॥८९॥वज्रेन्द्रनीलवैडूर्य- पद्मरागं समौक्तिकम् ।कीटपक्षं सुवर्णं च महारत्नानि सप्त वै ॥९०॥यश्च सिंहासनं दद्यान्महारत्नान्वितं नृपः ।क्षुद्ररत्नैश्च विविधैस्तस्य पुण्यफलं शृणु ॥९१॥कुलत्रिंशकसंयुक्तः सान्तःपुरपरिच्छदः ।समस्तभृत्यसंयुक्तः शिवलोके महीयते ॥९२॥तत्र भुक्त्वा महाभोगान्शिवतुल्यपराक्रमः ।आमहाप्रलयं यावत्तदन्ते मुक्तिमाप्नुयात् ॥९३॥यदि चेद्राज्यमाकङ्क्षेत्ततः सर्वसमाहितः ।सप्तद्वीपसमुद्रायाः क्षितेरधिपतिर्भवेत् ॥९४॥जन्मकोटिसहस्राणि जन्मकोटिशतानि च ।राज्यं कृत्वा ततश्चान्ते पुनः शिवपुरं व्रजेत् ॥९५॥एतदेव फलं ज्ञेयं मकुटाभरणादिषु ।रत्नासनप्रदानेन पादुके विनिवेदयेत् ॥९६॥दद्याद्यः केवलं वज्रं शुद्धं गोधूममात्रकम् ।शिवाय स शिवे लोके तिष्ठेदाप्रलयं सुखी ॥९७॥इन्द्रनीलप्रदानेन स वैडूर्यप्रदानतः ।मोदते विविधैर्भोगैः कल्पकोटिं शिवे पुरे ॥९८॥मसूरमात्रमपि यः पद्मरागं सुशोभनम् ।निवेदयित्वा शर्वाय मोदते कालमक्षयम् ॥९९॥निवेद्य मौक्तिकं स्वच्छमेकभागैकमात्रकम् ।भोगैः शिवपुरे दिव्यैः कल्पकोटिं प्रमोदते ॥१००॥कीटपक्षं महाशुद्धं निवेद्य यवमात्रकम् ।शिवायाद्यः शिवे लोके मोदते कालमक्षयम् ॥१०१॥हेम्ना कृत्वा च यः पुष्पमपि माषकमात्रकम् ।निवेदयित्वा शर्वाय वर्षकोटिं वसेद्दिवि ॥१०२॥क्षुद्ररत्नानि यो दद्याद्धेम्नि बद्धानि शम्भवे ।मोदते स शिवे लोके कल्पकोट्ययुतं नरः ॥१०३॥यथा यथा महारत्नं शोभनं च यथा यथा ।तथा तथा महत्पुण्यं ज्ञेयं तच्छिवदानतः ॥१०४॥भूमिभागे सविस्तीर्णे जम्बूद्वीपं प्रकल्पयेत् ।अष्टावरणसंयुक्तं नगेन्द्राष्टकभूषितम् ॥१०५॥तन्मध्ये कारयेद्दिव्यं मेरुप्रासादमुत्तमम् ।अनेकशिखराकीर्णमशेषामरसंयुतम् ॥१०६॥बहिः सुवर्णनिचितं सर्वरत्नोपशोभितम् ।चतुःप्रग्रीवकोपेतं चक्षुर्लिङ्गसमायुतम् ॥१०७॥चतुर्दिक्षु वनोपेतं चतुर्भिः संयुतैः शरैः ।चतुर्णां पुरयुक्तेन प्राकारेण च संयुतम् ॥१०८॥मेरुप्रासादमित्येवं हेमरत्नविभूषितम् ।यः कारयेद्वनोपेतं सो ऽनन्तफलमाप्नुयात् ॥१०९॥भूम्यम्भःपरमाणूनां यथा संख्या न विद्यते ।शिवायतनपुण्यस्य तथा संख्या न विद्यते ॥११०॥कुलत्रिंशकसंयुक्तः सर्वभृत्यसमन्वितः ।कलत्रपुत्रमित्रैश्च सर्वस्वजनसंयुतः ॥१११॥आश्र्तितोपाश्रितैः सर्वैरशेषगणसंयुतः ।यथा शिवस्तथैवायं शर्वलोके स पूज्यते ॥११२॥न च मानुष्यकं लोकमागच्छेत्कृपणं पुनः ।सर्वज्ञः परिपूर्णश्च मुक्तः स्वात्मनि तिष्ठति ॥११३॥यः शिवाय वनं कृत्वा मुदाब्दसलिलोत्थितम् ।तद्दण्डकोपशोभं च हस्ते कुर्वीत सर्वदा ॥११४॥शोभयेद्भूतनाथं वा चन्द्रशालां क्वचित्क्वचित् ।वेदीं वाथाभ्यपद्यन्त प्रोन्नताः स्तम्भपङ्क्तयः ॥११५॥शातकुम्भमयीं वापि सर्वलक्षणसंयुताम् ।ईश्वरप्रतिमां सौम्यां कारयेत्पुरुषोच्छ्रिताम् ॥११६॥त्रिशूलसव्यहस्तां च वरदाभयदायिकां ।सव्यहस्ताक्षमालां च जटाकुसुमभूषिताम् ॥११७॥पद्मसिंहासनासीनां वृषस्थां वा समुच्छ्रिताम् ।विमानस्थां रथस्थां वा वेदिस्थां वा प्रभान्विताम् ॥११८॥सौम्यवक्त्रां करालां वा महाभैरवरूपिणीम् ।अत्युच्छ्रितां सुविस्तीर्णां नृत्यस्थां योगसंस्थिताम् ॥११९॥कुर्यादसंभवे हेम्नस्तारेण विमलेन च ।आरकूटमयीं वापि ताम्रमृच्छैलदारुजाम् ॥१२०॥अशेषकैः सरूपैश्च वर्णकैर्वा पटे लिखेत् ।कुड्ये वा फलके वापि भक्त्या वित्तानुसारतः ॥१२१॥एकां सपरिवारां वा पार्वतीं गणसंयुताम् ।प्रतीहारसमोपेतां कुर्यादेवाविकल्पतः ॥१२२॥पीठं वा कारयेद्रौप्यं ताम्रं पित्तलसंभवम् ।चतुर्मुखैकवक्त्रं वा बहिः काञ्चनसंस्कृतम् ॥१२३॥पृथक्पृथगनेकानि कारयित्वा मुखानि तु ।सौम्यभैरवरूपाणि शिवस्य बहुरूपिणः ॥१२४॥नानाभरणयुक्तानि हेमरौप्यकृतानि च ।शिवस्य रथयात्रायां तानि लोकस्य दर्शयेत् ॥१२५॥उक्तानि यानि पुण्यानि संक्षेपेण पृथक्पृथक् ।कृत्वैकेन ममैतेषामक्षयं फलमाप्नुयात् ॥१२६॥मातुः पितुः सहोपायैर् दशभिर्दशभिः कुलैः ।कलत्रपुत्रमित्राद्यैर्भृत्यैर्युक्तः स बान्धवैः ॥१२७॥अयुतेन विमानानां सर्वकामयुतेन च ।भुङ्क्ते स्वयं महाभोगानन्ते मुक्तिमवाप्नुयात् ॥१२८॥मण्डपस्तम्भपर्यन्ते कीलयेद्दर्पणान्वितम् ।अभिषिच्य जना यस्मिन्पुजां कुवन्ति बिल्वकैः ॥१२९॥कालकालकृतिं कृत्वा कीलयेद्यः शिवाश्रमे ।सर्वलोकोपकाराय पूजयेच्च दिने दिने ॥१३०॥धूपवेलाप्रमाणार्थं कल्पयेद्यः शिवाश्रमे ।क्षरन्तीं पूर्यमाणां वा सदायामे घटीं नृपः ॥१३१॥एषामेकतमं पुण्यं कृत्वा पापविवर्जितः ।शिवलोके नरः प्राप्य सर्वज्ञः स सुखी भवेत् ॥१३२॥रथयात्रां प्रवक्ष्यामि शिवस्य परमात्मनः ।सर्वलोकहितार्थाय महाशिल्पिविनिर्मिताम् ॥१३३॥रथमध्ये समावेश्य यथा यष्टिं तु कीलयेत् ।यष्टेर्मध्ये स्थितं कार्यं विमानमतिशोभितम् ॥१३४॥पञ्चभौमं त्रिभौमं वा दृढवंशप्रकल्पितम् ।कर्मणा सुनिबद्धं च रज्जुभिश्च सुसंयुतम् ॥१३५॥पञ्चशालाण्डिकैर्युक्तं नानाभक्तिसमन्वितम् ।चित्रवर्णपरिच्छन्नं पटैर्वा वर्णकान्वितैः ॥१३६॥लम्बकैः सूत्रदाम्ना च घण्टाचामरभूषितम् ।बुद्बुदैरर्धचन्द्रैश्च दर्पणैश्च समुज्ज्वलम् ॥१३७॥कदल्यर्धध्वजैर्युक्तं महाच्छत्त्रं महाध्वजम् ।पुष्पमालापरिक्षिप्तं सर्वशोभासमन्वितम् ॥१३८॥महारथविमाने ऽस्मिन्स्थापयेद्गणसंयुतम् ।ईश्वरप्रतिमां हेम्नि प्रथमे पुरमण्डपे ॥१३९॥मुखत्रयं च बध्नीयाद्बहिः कुर्यात्तथाश्रितम् ।पुरे पुरे बहिर्दिक्षु गृहकेषु समाश्रितम् ॥१४०॥चतुष्कं शिववक्त्राणां संस्थाप्य प्रतिपूजयेत् ।दिनत्रयं प्रकुर्वीत स्नानमर्चनभोजनम् ॥१४१॥नृत्यक्रीडाप्रयोगेण गेयमङ्गलपाठकैः ।महावादित्रनिर्घोषैः पौषपूर्णिमपर्वणि ॥१४२॥भ्रामयेद्राजमार्गेण चतुर्थे ऽहनि तद्रथम् ।ततः स्वस्थानमानीय तच्छेषमपि वर्धयेत् ॥१४३॥अवधार्य जगद्धात्री प्रतिमामवतारयेत् ।महाविमानयात्रैषा कर्तव्या पट्टके ऽपि वा ॥१४४॥वंशैर्नवैः सुपक्वैश्च कटं कुर्याद्भरक्षमम् ।वृत्तं द्विगुणदीर्घं च चतुरश्रमधः समम् ॥१४५॥सर्वत्र चर्मणा बद्धं महायष्टिसमाश्रितम् ।मुखं बद्धं च कुर्वीत वंशमण्डलिना दृढम् ॥१४६॥कटे ऽस्मिंस्तानि वस्त्राणि स्थाप्य बध्नीत यत्नतः ।उपर्युपरि सर्वाणि तन्मध्ये प्रतिमां न्यसेत् ॥१४७॥वर्णकैः कुङ्कुमाद्यैश्च चित्रपुष्पैश्च पूजयेत् ।नानाभरणपूजाभिर्मुक्ताहारप्रलम्बिभिः ॥१४८॥रथस्य महतो मध्ये स्थाप्य पट्टद्वयं दृढम् ।अधरोत्तरभागेन मध्ये छिद्रसमन्वितम् ॥१४९॥कटियष्टेरधोभागं स्थाप्य छिद्रमयं शुभैः ।आबद्ध्य कीलयेद्यत्नाद्यष्ट्यर्धं च ध्वजाष्टकम् ॥१५०॥कटस्य पृष्टं सर्वत्र कारयेत्पटसंवृतम् ।तत्पटे च लिखेत्सोमं सगणं सवृषं शिवम् ॥१५१॥विचित्रपुष्पस्रग्दाम्ना समन्ताद्भूषयेत्कटम् ।रवकैः किङ्किणीजालैर्घण्टाचामरभूषितैः ॥१५२॥महापूजाविशेषैश्च कौतूहलसमन्वितम् ।वाद्यारम्भोपचारेण मार्गशोभां प्रकल्पयेत् ॥१५३॥तद्रथं भ्रामयेद्यत्नाद्राजमार्गेण सर्वतः ।ततः स्वाश्रममानीय स्थापयेत्तत्समीपतः ॥१५४॥महाशब्दं ततः कुर्यात्तालत्रयसमन्वितम् ।ततस्तुष्णीं स्थिते लोके तच्छान्तिमिह धारयेत् ॥१५५॥शिवं तु सर्वजगतः शिवं गोब्राह्मणस्य च ।शिवमस्तु नृपाणां च तद्भक्तानां जनस्य च ॥१५६॥राजा विजयमाप्नोति पुत्रपौत्रैश्च वर्धताम् ।धर्मनिष्ठश्च भवतु प्रजानां च हिते रतः ॥१५७॥कालवर्षी तु पर्जन्यः सस्यसम्पत्तिरुत्तमा ।सुभिक्षात्क्षेममाप्नोति कार्यसिद्धिश्च जायताम् ॥१५८॥दोषाः प्रयान्तु नाशं च गुणाः स्थैर्यं भजन्तु वः ।बहुक्षीरयुता गावो हृष्टपुष्टा भवन्तु वः ॥१५९॥एवं शिवमहाशान्तिमुच्चार्य जगतः क्रमात् ।अभिवर्ध्य ततः शेषमैश्वरीं सार्वकामिकीम् ॥१६०॥शिवमालां समादाय सदासीपरिचारिकः ।फलैर्भक्षैश्च संयुक्तां गृह्य पात्रीं निवेशयेत् ॥१६१॥पात्रीं च धारयेन्मूर्ध्ना सोष्णीषां देवपुत्रकः ।अलंकृतः शुक्लवासा धार्मिकः सततं शुचिः ॥१६२॥ततश्च तां समुत्क्षिप्य पाणिना धारयेद्बुधः ।प्रब्रूयादपरश्चात्र शिवधर्मस्य भाजकः ॥१६३॥तोयं यथा घटीसंस्थमजस्रं क्षरते तथा ।क्षरते सर्वलोकानां तद्वदायुरहर्निशम् ॥१६४॥यदा सर्वं परित्यज्य गन्तव्यमवशैर्ध्रुवम् ।तदा न दीयते कस्मात्पाथेयार्थमिदं धनम् ॥१६५॥कलत्रपुत्रमित्राणि पिता माता च बान्धवाः ।तिष्ठन्ति न मृतस्यार्थे परलोके धनानि च ॥१६६॥नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा ।यतः सर्वैः परित्यक्तं नरं धर्मो ऽनुगच्छति ॥१६७॥तस्माद्धर्मं समुद्दिश्य यः शेषामभिवर्धयेत् ।समस्तपापनिर्मुक्तः शिवलोकं स गच्छति ॥१६८॥उपर्युपरि वित्तेन यः शेषामभिवर्धयेत् ।तस्येयमुत्तमा देया यतश्चान्या न वर्धते ॥१६९॥इत्येवं मध्यमां शेषां वर्धयेद्वा कनीयसीम् ।ततस्तेषां प्रदातव्या सर्वशोकस्य शान्तये ॥१७०॥येनोत्तमा गृहीता स्याच्शिवशेषा महीयसी ।प्रापणीया गृहं तस्य तथैव शिरसा वृता ॥१७१॥ध्वजच्छत्त्रविमानाद्यैर्महावादित्रनिःस्वनैः ।गृहद्वारं ततः प्राप्तमर्चयित्वा निवेशयेत् ॥१७२॥दद्याद्गोत्रकलत्राणां भृत्यानां स्वजनस्य च ।तर्पयेच्चानतान्(?) भक्त्या वादित्रध्वजवाहकान् ॥१७३॥एवमादीयते भक्त्या यः शिवस्योत्तमा गृहे ।शोभया राजमार्गेण तस्य धर्मफलं शृणु ॥१७४॥समस्तपापनिर्मुक्तः समस्तकुलसंयुतः ।शिवलोकमवाप्नोति सभृत्यपरिचारकः ॥१७५॥तत्र दिव्यैर्महाभोगैर्विमानैः सार्वकामिकैः ।कल्पानां क्रीडते कोटिमन्ते निर्वाणमाप्नुयात् ॥१७६॥रथस्य यात्रां यः कुर्यादित्येवमुपशोभया ।भक्षभोज्यप्रदानैश्च तत्फलं शृनु यत्नतः ॥१७७॥अशेषपापनिर्मुक्तः सर्वभृत्यसमन्वितः ।कुलत्रिंशकमुद्धृत्य सुहृद्भिः स्वजनैः सह ॥१७८॥सर्वकामयुतैर्दिव्यैः स्वच्छन्दगमनालयैः ।महाविमानैः श्रीमद्भिर्दिव्यस्त्रीपरिवारितः ॥१७९॥इच्छया क्रीडते भोगैः कल्पकोटिं शिवे पुरे ।ज्ञानयोगं ततः प्राप्य संसारादवमुच्यते ॥१८०॥शिवस्य रथयात्रायामुपवासपरः क्षमी ।पुरतः पृष्ठतो वापि गच्छंस्तस्य फलं शृणु ॥१८१॥अशेषपापनिर्मुक्तः शुद्धः शिवपुरं गतः ।महारथोपमैर्यानैः कल्पाशीतिं प्रमोदते ॥१८२॥ध्वजच्छत्त्रपताकाभिर्दीपदर्पणचामरैः ।धूपैर्वितानकलशैरुपशोभा सहस्रशः ॥१८३॥गृहीत्वा याति पुरतः स्वेच्छया वा परेच्छया ।सम्पर्कात्कौतुकाल्लाभाच्छिवलोके व्रजन्ते ते ॥१८४॥शिवस्य रथयात्रां तु यः प्रपश्यति भक्तितः ।प्रसङ्गात्कौतुकाद्वापि ते ऽपि यान्ति शिवं पुरम् ॥१८५॥नानायत्नादिशेषान्ते नानाप्रेक्षणकानि च ।कुर्वीत रथयात्रायां रमते च विभूषिता ॥१८६॥ते भोगैर्विविधैर्दिव्यैः शिवासन्ना गणेश्वराः ।क्रीडन्ति रुद्रभवने कल्पानां विंशतीर्नराः ॥१८७॥महता ज्ञानसङ्घेन तस्माच्छिवरथेन च ।पृथक्जीवा मृता यान्ति शिवलोकं न संशयः ॥१८८॥श्रीपर्वते महाकाले वाराणस्यां महालये ।जल्पेश्वरे कुरुक्षेत्रे केदारे मण्डलेश्वरे ॥१८९॥गोकर्णे भद्रकर्णे च शङ्कुकर्णे स्थलेश्वरे ।भीमेश्वरे सुवर्णाक्षे कालञ्जरवने तथा ॥१९०॥एवमादिषु चान्येषु शिवक्षेत्रेषु ये मृताः ।जीवाश्चराचराः सर्वे शिवलोकं व्रजन्ति ते ॥१९१॥प्रयागं कामिकं तीर्थमविमुक्तं तु नैष्ठिकम् ।श्रीपर्वतं च विज्ञेयमिहामुत्र च सिद्धिदम् ॥१९२॥प्रसङ्गेनापि यः पश्येदन्यत्र प्रस्थितः क्वचित् ।श्रीपर्वतं महापुण्यं सो ऽपि याति शिवं पुरम् ॥१९३॥व्रजेद्यः शिवतीर्थानि सर्वपापैः प्रमुच्यते ।पापयुक्तः शिवज्ञानं प्राप्य निर्वाणमाप्नुयात् ॥१९४॥तीर्थस्थानेषु यः श्राद्धं शिवरात्रे प्रयत्नतः ।कल्पयित्वानुसारेण कालस्य विषुवस्य च ॥१९५॥तीर्थयात्रागतं शान्तं हाहाभूतमचेतनम् ।क्षुत्पिपासातुरं लोके पांसुपादं त्वरान्वितम् ॥१९६॥संतर्पयित्वा यत्नेन म्लानलक्ष्मीमिवाम्बुभिः ।पाद्यासनप्रदानेन कस्तेन पुरुषः समः ॥१९७॥अश्नन्ति यावत्तत्पिण्डं तीर्थनिर्धूतकल्मषाः ।तावद्वर्षसहस्राणि तद्दातास्ते शिवे पुरे ॥१९८॥दद्याद्यः शिवसत्त्रार्थं महिषीं सुपयस्विनीम् ।मोदते स शिवे लोके युगकोटिशतं नरः ॥१९९॥आर्ताय शिवभक्ताय दद्याद्यः सुपयस्विनीम् ।अजामेकां सुपुष्टाङ्गीं तस्य पुण्यफलं शृणु ॥२००॥यावत्तद्रोमसंख्यानं तत्प्रसूतिकुलेषु च ।तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥२०१॥मृदुरोमाञ्चितां कृष्णां निवेद्य गुरवे नरः ।रोम्णि रोम्णि सुवर्णस्य दत्तस्य फलमाप्नुयात् ॥२०२॥गजाश्वरथसंयुक्तैर्विमानैः सार्वकामिकैः ।सानुगः क्रीडते भोगैः कल्पकोटिं शिवे पुरे ॥२०३॥निवेद्याश्वतरं पुष्टमदुष्टं गुरवे नरः ।संगतिं सोपकरणं भोगान्भुङ्क्ते शिवे पुरे ॥२०४॥दिव्याश्वयुक्तैः श्रीमद्भिर्विमानैः सार्वकामिकैः ।कोटिं कोटिं च कल्पानां तदन्ते स्यान्महीपतिः ॥२०५॥अपि योजनमात्राय शिबिकां परिकल्पयेत् ।गुरोः शान्तस्य दान्तस्य तस्य पुण्यफलं शृणु ॥२०६॥विमानानां सहस्रेण सर्वकामयुतेन च ।कल्पकोट्ययुतं साग्रं भोगान्भुङ्क्ते शिवे पुरे ॥२०७॥छागं मेषं मयूरं च कुक्कुटं शारिकां शुकम् ।बालक्रीडनकानेतानित्याद्यानपरानपि ॥२०८॥निवेदयित्वा स्कन्दाय तत्सायुज्यमवाप्नुयात् ।भुक्त्वा तु विपुलान्भोगांस्तदन्ते स्याद्द्विजोत्तमः ॥२०९॥मुसलोलूखलाद्यानि गृहोपकरणानि च ।दद्याच्छिवगृहस्थेभ्यस्तस्य पूण्यफलं शृणु ॥२१०॥प्रत्येकं कल्पमेकैकं गृहोपकरणैर्नरः ।अन्ते दिवि वसेद्भोगैस्तदन्ते च गृही भवेत् ॥२११॥खर्जूरतालपत्त्रैर्वा चर्मणा वा सुकल्पितम् ।दत्त्वा कोट्यासनं वृत्तं शिवलोकमवाप्नुयात् ॥२१२॥प्रातर्नीहारवेलायां हेमन्ते शिवयोगिनाम् ।कृत्वा प्रतापनायाग्निं शिवलोके महीयते ॥२१३॥सूर्यायुतप्रभादीप्तैर्विमानैः सार्वकामिकैः ।कल्पकोटिशतं भोगान्भुक्त्वा स तु महीपतिः ॥२१४॥यः प्रान्तरं विदेशं वा गच्छन्तं शिवयोगिनम् ।भोजयीत यथाशक्त्या शिवलोके महीयते ॥२१५॥यश्छत्त्रं धारयेद्ग्रीष्मे गच्छते शिवयोगिने ।स मृतः पृथिवीं कृत्स्नामेकच्छत्त्रामवाप्नुयात् ॥२१६॥यः समुद्धरते मार्गे मात्रोपकरणासनम् ।शिवयोगप्रवृत्तस्य तस्य पुण्यफलं शृणु ॥२१७॥कल्पायुतं नरः साग्रं भुक्त्वा भोगाञ्छिवे पुरे ।तदन्ते प्राप्नुयाद्राज्यं सर्वैश्वर्यसमन्वितम् ॥२१८॥अभ्यङ्गोद्वर्तनं स्नानमार्तस्य शिवयोगिनः ।कृत्वाप्नोति महाभोगान्कल्पाञ्छिवपुरे नरः ॥२१९॥अपनीय समुच्छिष्टं भक्तितः शिवयोगिनाम् ।दशधेनुप्रदानस्य फलमाप्नोति मानवः ॥२२०॥पञ्चगव्यसमं ज्ञेयमुच्छिष्टं शिवयोगिनाम् ।तद्भुक्त्वा लभते शुद्धिं महतः पातकादपि ॥२२१॥नारी च भुक्त्वा सत्पुत्रं कुलाधारं गुणान्वितम् ।राज्ययोग्यं धनाढ्यं च प्राप्नुयाद्धर्मतत्परम् ॥२२२॥यश्च यां शिवयज्ञाय गृहस्थः परिकल्पयेत् ।शिवभक्तो ऽस्य महतः परमं फलमाप्नुयात् ॥२२३॥शिवोमां च प्रयत्नेन भक्त्याब्दं यो ऽनुपालयेत् ।गवां लक्षप्रदानस्य सम्पूर्णं फलमाप्नुयात् ॥२२४॥प्रातः प्रदद्यात्सघृतं सुकृतं बालपिण्डकम् ।दूर्वां च बालवत्सानां तस्य पुण्यफलं शृणु ॥२२५॥यावत्तद्बालवत्सानां पानाहारं प्रकल्पयेत् ।तावदष्टायुतान्पूर्वैर्भोगान्भुङ्क्ते शिवे पुरे ॥२२६॥विधवानाथवृद्धानां प्रदद्याद्यः प्रजीवनम् ।आभूतस्सम्प्लवं यावच्छिवलोके महीयते ॥२२७॥दद्याद्यः सर्वजन्तूनामाहारमनुयत्नतः ।त्रिः पृथ्वीं रत्नसम्पूर्णां यद्दत्त्वा तत्फलं लभेत् ॥२२८॥विनयव्रतदानानि यानि सिद्धानि लोकतः ।तानि तेनैव विधिना शिवमन्त्रेण कल्पयेत् ॥२२९॥निवेदयीत रुद्राय रुद्राण्याः षण्मुखस्य च ।प्राप्नुयाद्विपुलान्भोगान्दिव्याञ्छिवपुरे नरः ॥२३०॥पुनर्यः कर्तरीं दद्यात्केशक्लेशापनुत्तये ।सर्वक्लेशविनिर्मुक्तः शिवलोके सुखी भवेत् ॥२३१॥नासिकाशोधनं दद्यात्संदंशं शिवयोगिने ।वर्षकोटिं महाभोगैः शिवलोके महीयते ॥२३२॥नखच्छेदनकं दत्त्वा शिवलोके महीयते ।वर्षलक्षं महाभोगैः शिवलोके महीयते ॥२३३॥दत्त्वाञ्जनशलाकां वा लोहाद्यां शिवयोगिने ।भोगाञ्छिवपुरे प्राप्य ज्ञानचक्षुरवाप्नुयात् ॥२३४॥कर्णशोधनकं दत्त्वा लोहाद्यं शिवयोगिने ।वर्षकोटिं महाभोगैः शिवलोके महीयते ॥२३५॥दद्याद्यः शिवभक्ताय सूचीं कौपीनशोधनीम् ।वर्षलक्षं स लक्षार्धं शिवलोके महीयते ॥२३६॥निवेद्य शिवयोगिभ्यः सूचिकं सूत्रसंयुतम् ।वर्षलक्षं महाभोगैः क्रीडते स शिवे पुरे ॥२३७॥दद्याद्यः शिवयोगिभ्यः सुकृतां पत्रवेधनीम् ।वर्षलक्षं महाभोगैः शिवलोके महीयते ॥२३८॥दद्याद्यः पुस्तकादीनां सर्वकार्यार्थकर्तृकाम् ।पञ्चलक्षं महाभोगैर्मोदते स शिवे पुरे ॥२३९॥शमीन्धनतृणादीनां दद्यात्तच्छेदनं च यः ।क्रीडते स शिवे लोके वर्षलक्षचतुष्टयम् ॥२४०॥शिवाश्रमोपभोगाय लोहोपकरणं महत् ।यः प्रदद्याग्कुठाराद्यं तस्य पुण्यफलं शृणु ॥२४१॥यावत्तत्फलसंख्यानं लोहोपकरणे भवेत् ।तावन्ति वर्षलक्षाणि शिवलोके महीयते ॥२४२॥शिवायतनवित्तानां रक्षार्थं यः प्रयच्छति ।धनुःखड्गायुधादीनि तस्य पुण्यफलं शृणु ॥२४३॥एकैकस्मिन्परिज्ञेयमायुधे चापि वै फलम् ।वर्षकोट्यष्टकं भोगैः शिवलोके महीयते ॥२४४॥यः स्वात्मभोगभृत्यर्थं कुसुमानि निवेदयेत् ।शिवाय गुरवे वापि तस्य पुण्यफलं शृणु ॥२४५॥यावदन्योऽन्यसंबन्धास्तस्यांशाः परिकीर्तिताः ।वर्षलक्षं स तावच्च शिवलोके प्रमोदते ॥२४६॥नष्टापहृतमन्विष्य पुनर्वित्तं निवेदयेत् ।शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥२४७ ॥यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥२४८॥देवद्रव्यं हृतं नष्टमन्वेष्यमपि यत्नतः ।न प्राप्नोति तदा तस्य प्राप्नुयाद्द्विगुणं फलम् ॥२४९॥ताम्रकुम्भकटाहाद्यं यः शिवाय निवेदयेत् ।शिवात्मकं शिवायैव तस्य पुण्यफलं शृणु ॥२५०॥यावच्छिवाय तद्वित्तं प्राङ्निवेद्य फलं स्मृतम् ।नष्टमानीय तद्भूयः पुण्यं शतगुणं लभेत् ॥२५१॥स्नानसत्त्रोपभोगाय तस्य पुण्यफलं शृणु ।यावत्तत्फलसंख्यानं ताम्रोपकरणे स्थितम् ॥२५२॥पले पले वर्षकोटिं मोदते स शिवे पुरे ।यः पत्त्रपुष्पवस्तूनां दद्यादाधारभाजनम् ॥२५३॥तद्वस्तुदातुर्यत्पुण्यं तत्पुण्यं सकलं भवेत् ।दत्त्वोपकरणं किंचिदपि यो वित्तमर्थिनाम् ॥२५४॥यद्वस्तु कुरुते तेन तत्प्रदानफलं लभेत् ।यः शौचपीतवस्त्राणि क्षाराद्यैः शिवयोगिनाम् ॥२५५॥स पापमलनिर्मुक्तः शिवलोकमवाप्नुयात् ।यः पुष्पपट्टसंयुक्तं पटगर्भं च कम्बलम् ॥२५६॥प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।तेषां च वस्त्रतन्तूनां यावत्संख्या विधीयते ॥२५७॥तावद्वर्षसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।श्लक्ष्णवस्त्राणि शुक्लानि दद्याद्यः शिवयोगिने ॥२५८॥चित्रवस्त्राणि तद्भक्त्या तस्य पुण्यफलं शृणु ।यावत्तत्सूक्ष्मवस्त्राणां तन्तुसंख्या विधीयते ॥२५९॥तावद्युगानि संभोगैः शिवलोके महीयते ।शङ्खपात्रं तु विस्तीर्णं भाण्डं वापि सुशोभनम् ॥२६०॥प्रदद्याच्छिवयोगिभ्यस्तस्य पुण्यफलं शृणु ।दिव्यं विमानमारूढः सर्वकामसमन्वितम् ॥२६१॥कल्पकोट्ययुतं साग्रं शिवलोके महीयते ।शुक्त्यादीनि च पात्राणि शोभनान्यमलानि च ॥२६२॥निवेद्य शिवयोगिभ्यः शङ्खार्धेन फलं लभेत् ।स्फाटिकानां च पात्राणां शङ्खतुल्यफलं स्मृतम् ॥२६३॥शैलजानां तदर्धेन पात्राणां च तदर्धकम् ।तालखर्जूरपात्राणां वंशजानां निवेदने ॥२६४॥अन्येषामेवमादीनां पुण्यं वार्क्ष्यार्धसंमितम् ।वंशजार्धसमं पुण्यं फलपात्रनिवेदने ॥२६५॥नानापर्णपुटाणां च साराणां वा फलार्धकम् ।यस्ताम्रकांस्यपात्राणि शोव्हनान्यमलानि च ॥२६६॥स्नानभोजनपानार्थं दद्याद्यः शिवयोगिने ।ताम्रां कांसीं त्रिलोहीं वा यः प्रदद्यात्त्रिपादिकाम् ॥२६७॥भोजने भोजनाधारं गुरवे तत्फलं शृणु ।यावत्तत्पलसंख्यानं त्रिपाद्या भोजनेषु च ॥२६८॥तावद्युगसहस्राणि भोगान्भुङ्क्ते शिवे पुरे ।लोहं त्रिपादिकं दत्त्वा सत्कृत्वा शिवयोगिने ॥२६९॥दशकल्पान्महाभोगैर्नरः शिवपुरे वसेत् ।यः प्रदद्यात्त्रिविष्टम्भं भिक्षापात्रसमाश्रयम् ॥२७०॥वंशजं दारुजं वापि तस्य पुण्यफलं शृणु ।दिव्यस्त्रीभोगसम्पन्नो विमाने महति स्थितः ॥२७१॥चतुर्युगसहस्रं तु भोगान्भुङ्क्ते शिवे पुरे ।भिक्षापात्रमुखाच्छादम्वस्त्रपर्णादिकल्पितम् ॥२७२॥दत्त्वा शिवपुरे भोगान्कल्पमेकं वसेन्नरः ।संश्रयं यः प्रदद्याच्च भिक्षापात्रे कमण्डलौ ॥२७३॥कल्पितं वस्त्रसूत्राद्यैस्तस्य पुण्यफलं शृणु ।तद्वस्त्रपूततन्तूनां संख्या यावद्विधीयते ॥२७४॥तावद्वर्षसहस्राणि रुद्रलोके महीयते ।सूत्रवल्कलवालैर्वा शिक्यभाण्डसमाश्रयम् ॥२७५॥यः कृत्वा दामनीयोक्त्रं प्रग्रहं रज्जुमेव वा ।एवमादीनि चान्यानि वस्तूनि विनिवेदयेत् ॥२७६॥शिवगोष्ठोपयोगार्थं तस्य पुण्यफलं शृणु ।यावत्तद्रज्जुसंख्यानं प्रदद्याच्छिवगोकुले ॥२७७॥तावच्चतुर्युगं देही शिवलोके महीयते ।यथा यथा प्रियं वस्त्रं शोभनं च यथा यथा ॥२७८ ॥तथा तथा महापुण्यं तद्दानादुत्तरोत्तरम् ।यः पन्थानं दिशेत्पृष्टं प्रणष्टं च गवादिकं ॥२७९॥स गोदानसमं पुण्यं प्रज्ञासौख्यं च विन्दति ।कृत्वोपकारमार्तानां स्वर्गं याति न संशयः ॥२८०॥अपि कण्टकमुद्धृत्य किमुतान्यं महागुणम्(?) ।अन्नपानौषधीनां च यः प्रदातारमुद्दिशेत् ॥२८१॥आर्तानां तस्य विज्ञेयं दातुस्तत्सदृशं फलम् ।शिवाय तस्य संरुद्धं कर्म तिष्ठति यद्विना ॥२८२॥तदल्पमपि यज्ञाङ्गं दत्त्वा यज्ञफलं लभेत् ।अपि काशकुशं सूत्रं गोमयं समिदिन्धनम् ॥२८३॥शिवयज्ञोपयोगार्थं प्रवक्ष्यामि समासतः ।सर्वेषां शिवभक्तानां दद्याद्यत्किंचिदादरात् ।दत्त्वा यज्ञफलं विद्यात्किमु तद्वस्तुदानतः ॥२८४॥॥ इति शिवोपनिषदि फलोपकरणप्रदानाध्यायः षष्ठः ॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP