श्रीशिवोपनिषत् - पञ्चमः
उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.
Upanishad are highly philosophical and metaphysical part of Vedas.
अथाग्नेयं महास्नानमलक्ष्मीमलनाशनम् ।
सर्वपापहरं दिव्यं तपः श्रीकीर्तिवर्धनम् ॥१॥
अग्निरूपेण रुद्रेण स्वतेजः परमं बलम् ।
भूतिरूपं समुद्गीर्णं विशुद्धं दुरितापहम् ॥२॥
यक्षरक्षःपिशाचानां ध्वंसनं मन्त्रसत्कृतम् ।
रक्षार्थं बालरूपाणां सूतिकानां गृहेषु च ॥३॥
यश्च भुङ्क्ते द्विजः कृत्वा अन्नस्य वा परिधित्रयम् ।
अपि शूद्रस्य पङ्क्तिस्थः पङ्क्तिदोषैर्न लिप्यते ॥४॥
आहारमर्धभुक्तं च कीटकेशादिदूषितम् ।
तावन्मात्रं समुद्धृत्य भूतिस्पृष्टं विशुद्ध्यति ॥५॥
आरण्यं गोमयकृतं करीषं वा प्रशस्यते ।
शर्करापांसुनिर्मुक्तमभावे काष्ठभस्मना ॥६॥
स्वगृहाश्रमवल्लिभ्यः कुलालालयभस्मना ।
गोमयेषु च दग्धेषु हीष्टकानि च येषु च ॥७॥
सर्वत्र विद्यते भस्म दुःखापार्जनरक्षणम् ।
शङ्खकुन्देन्दुवर्णाभमादद्याज्जन्तुवर्जितम् ॥८॥
भस्मानीय प्रयत्नेन तद्रक्षेद्यत्नवांस्तथा ।
मार्जारमूषिकाद्यैश्च नोपहन्येत तद्यथा ॥९॥
पञ्चदोषविनिर्मुक्तं गुणपञ्चकसंयुतम् ।
शिवैकादशिकाजप्तं शिवभस्म प्रकीर्तितम् ॥१०॥
जातिकारुकवाक्काय- स्थानदुष्टं च पञ्चमम् ।
पापघ्नं शांकरं रक्षा- पवित्रं योगदं गुणाः ॥११॥
शिवव्रतस्य शान्तस्य भासकत्वाच्छुभस्य च ।
भक्षणात्सर्वपापानां भस्मेति परिकीर्तितम् ॥१२॥
भस्मस्नानं शिवस्नानं वारुणादधिकं स्मृतम् ।
जन्तुशैवालनिर्मुक्तमाग्नेयं पङ्कवर्जितम् ॥१३॥
अपवित्रं भवेत्तोयं निशि पूर्वमनाहृतम् ।
नदीतडागवापिषु गिरिप्रस्रवणेषु च ॥१४॥
स्नानं साधारणं प्रोक्तं वारुणं सर्वदेहिनाम् ।
असाधारणमेवोक्तं भस्मस्नानं द्विजन्मनाम् ॥१५॥
त्रिकालं वारुणस्नानादनारोग्यं प्रजायते ।
आग्नेयं रोगशमनमेतस्माद्सार्वकामिकम् ॥१६॥
संध्यात्रये ऽर्धरात्रे च भुक्त्वा चान्नविरेचने ।
शिवयोग्याचरेत्स्नानमुच्चारादिक्रियासु च ॥१७॥
भस्मास्तृते महीभागे समे जन्तुविवर्जिते ।
ध्यायमानः शिवं योगी रजन्यन्तं शयीत च ॥१८॥
एकरात्रोषितस्यापि या गतिर्भस्मशायिनः ।
न सा शक्या गृहस्थेन प्राप्तुं यज्ञशतैरपि ॥१९॥
गृहस्थस्त्र्यायुषोंकारैः स्नानं कुर्यात्त्रिपुण्ड्रकैः ।
यतिः सार्वाङ्गिकं स्नानमापादतलमस्तकात् ॥२०॥
शिवभक्तस्त्रिधा वेद्यां भस्मस्नानफलं लभेत् ।
हृदि मूर्ध्नि ललाटे च शूद्रः शिवगृहाश्रमी ॥२१॥
गणाः प्रव्रजिताः शान्ताः भूतिमालभ्य पञ्चधा ।
शिरोललाटे हृद्बाह्वोर्भस्मस्नानफलं लभेत् ॥२२॥
संवत्सरं तदर्धं वा चतुर्दश्यष्टमीषु च ।
यः कुर्याद्भस्मना स्नानं तस्य पुण्यफलं शृनु ॥२३॥
शिवभस्मनि यावन्तः समेताः परमाणवः ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥२४॥
एकविंशकुलोपेतः पत्नीपुत्रादिसंयुतः ।
मित्रस्वजनभृत्यैश्च समस्तैः परिवारितः ॥२५॥
तत्र भुक्त्वा महाभोगानिच्छया सार्वकामिकान् ।
ज्ञानयोगं समासाद्य प्रलये मुक्तिमाप्नुयात् ॥२६॥
भस्म भस्मान्तिकं येन गृहीतं नैष्ठिकव्रतम् ।
अनेन वै स देहेन रुद्रश्चङ्क्रमते क्षितौ ॥२७॥
भस्मस्नानरतं शान्तं ये नमन्ति दिने दिने ।
ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ॥२८॥
इत्येतत्परमं स्नानमाग्नेयं शिवनिर्मितम् ।
त्रिसंध्यमाचरेन्नित्यं जापी योगमवाप्नुयात् ॥२९॥
भस्मानीय प्रदद्याद्यः स्नानार्थं शिवयोगिने ।
कल्पं शिवपुरे भोगान्भुक्त्वान्ते स्याद्द्विजोत्तमः ॥३०॥
आग्नेयं वारुणं मान्त्रं वायव्यं त्वैन्द्रपञ्चमम् ।
मानसं शान्तितोयं च ज्ञानस्नानं तथाष्टमम् ॥३१ ॥
आग्नेयं रुद्रमन्त्रेण भस्मस्नानमनुत्तमम् ।
अम्भसा वारुणं स्नानम्कार्यं वारुणमूर्तिना ॥३२॥
मूर्धानं पाणिनालभ्य शिवैकादशिकां जपेत् ।
ध्यायमानः शिवं शान्तम्मन्त्रस्नानं परं स्मृतम् ॥३३॥
गवां खुरपुटोत्खात- पवनोद्धूतरेणुना ।
कार्यं वायव्यकं स्नानम्मन्त्रेण मरुदात्मना ॥३४॥
व्यभ्रे ऽर्के वर्षति स्नानं कुर्यादैन्द्रीं दिशं स्थितः ।
आकाशमूर्तिमन्त्रेण तदैन्द्रमिति कीर्तितम् ॥३५॥
उदकं पाणिना गृह्य सर्वतीर्थानि संस्मरेत् ।
अभ्युक्षयेच्छिरस्तेन स्नानं मानसमुच्यते ॥३६॥
पृथिव्यां यानि तीर्थानि सरांस्यायतनानि च ।
तेषु स्नातस्य यत्पुण्यं तत्पुण्यं क्षान्तिवारिणा ॥३७॥
न तथा शुध्यते तीर्थैस्तपोभिर्वा महाध्वरैः ।
पुरुषः सर्वदानैश्च यथा क्षान्त्या विशुद्ध्यति ॥३८॥
आक्रुष्टस्ताडितस्तस्मादधिक्षिप्तस्तिरस्कृत ।
क्षमेदक्षममानानां स्वर्गमोक्षजिगीषया ॥३९॥
यैव ब्रह्मविदां प्राप्तिर्यैव प्राप्तिस्तपस्विनाम् ।
यैव योगाभियुक्तानां गतिः सैव क्षमावताम् ॥४०॥
ज्ञानामलाम्भसा स्नातः सर्वदैव मुनिः शुचिः ।
निर्मलः सुविशुद्धश्च विज्ञेयः सूर्यरश्मिवत् ॥४१॥
मेध्यामेध्यरसं यद्वदपि वत्स विना करैः ।
नैव लिप्यति तद्दोषैस्तद्वज्ज्ञानी सुनिर्मलः ॥४२॥
एषामेकतमे स्नातः शुद्धभावः शिवं व्रजेत् ।
अशुद्धभावः स्नातो ऽपि पूजयन्नाप्नुयात्फलम् ॥४३॥
जलं मन्त्रं दया दानं सत्यमिन्द्रियसंयमः ।
ज्ञानं भावात्मशुद्धिश्च शौचमष्टविधं श्रुतम् ॥४४॥
अङ्गुष्ठतलमूले च ब्राह्मं तीर्थमवस्थितम् ।
तेनाचम्य भवेच्छुद्धः शिवमन्त्रेण भावितः ॥४५॥
यदधः कन्यकायाश्च तत्तीर्थं दैवमुच्यते ।
तीर्थं प्रदेशिनीमूले पित्र्यं पितृविधोदयम् ॥४६॥
मध्यमाङ्गुलिमध्येन तीर्थमारिषमुच्यते ।
करपुष्करमध्ये तु शिवतीर्थं प्रतिष्ठितम् ॥४७॥
वामपाणितले तीर्थमौमम्नाम प्रकीर्तितम् ।
शिवोमातीर्थसंयोगात्कुर्यात्स्नानाभिषेचनम् ॥४८॥
देवान्दैवेन तीर्थेन तर्पयेदकृताम्भसा ।
उद्धृत्य दक्षिणं पाणिमुपवीती सदा बुधः ॥४९॥
प्राचीनावीतिना कार्यं पितॄणां तिलवारिणा ।
तर्पणं सर्वभूतानामारिषेण निवीतिना ॥५०॥
सव्यस्कन्धे यदा सूत्रमुपवीत्युच्यते तदा ।
प्राचीनावीत्यसव्येन निवीती कण्ठसंस्थिते ॥५१॥
पितॄणां तर्पणं कृत्वा सूर्यायार्घ्यं प्रकल्पयेत् ।
उपस्थाय ततः सूर्यं यजेच्छिवमनन्तरम् ॥५२॥
॥ इति शिवोपनिषदि शिवभस्मस्नानाध्यायः पञ्चमः ॥
N/A
References : N/A
Last Updated : March 07, 2021
TOP