संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
त्रिंशोऽध्यायः

अनिरुद्धसंहिता - त्रिंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
प्रायश्चित्तमथो वक्ष्ये अवधारय सांप्रतम्।
शुद्धं त्रिविधमाख्यातं वाङ्मनः कायकर्मणाम् ॥१॥
वाक्‌च्छुद्धिश्च ऋतं प्रोक्तं मानसं विष्णुचिन्तनम्।
कायिकं कर्म देवस्य त्रिविधं सुद्धमुच्यते ॥२॥
साधके स्नानहीने तु सर्वं निष्फलतां भवेत्।
मन्त्रस्नान मशक्तश्चेत् तीर्थतोयं तु वा पिबेत् ॥३॥
सन्ध्योपासनहीने तु प्राणायामशतं जपेत्।
नित्यपावकहीने तु द्विजभोजनमाचरेत् ॥४॥
शास्त्रमन्त्रक्तियाहीने सर्वकार्य मनर्थकम्।
तस्मात् सर्वप्रयत्नेन कारयेत् शास्त्रवर्त्मना ॥५॥
मन्त्रहीने तु विप्रेन्द्र साधकस्तु विनश्यति।
द्रव्यहीने विशेषेण तत्कर्ता नाशयेद्‌ध्रुवम् ॥६॥
क्रियाहीने द्विजश्रेष्ठ तद्ग्रामो निधनो भवेत्।
द्रव्यमन्त्रक्रियायुक्तं तत्कार्थं सफलं भवेत् ॥७॥
द्रव्याणामप्यलाभे तु मन्त्रैरेव समर्चयेत्।
द्रव्यालाभे तु पुष्पं स्यात् पूष्पालाभे तु चेतसा ॥८॥
श्रद्धाभक्तिहिने तु सर्वं वै निष्फलं भवेत्।
मण्डपे गर्भगेहे तु वल्मीकादिसमुद्भवे ॥९॥
तद्देशं खातयित्वा तु मृद्भिरन्यैः प्रपूरयेत्।
शान्तिहोमं ततः कृत्वा तिलैराज्यै र्विशेषतः ॥१०॥
अग्निदाहे विशेषेण पुनस्सन्धानमेव च।
बिम्बे दोषसमायुक्ते पुनरुत्पादयेत् सुधीः ॥११॥
प्रतिष्ठां पूर्ववत् कृत्वा ततः पूजां समाचरेत्।
चोराद्युपहते तत्र तथैव सम्यगाचरेत् ॥१२॥
नद्यादिजलवेगेन चलनं संभवेद्यदि।
स्थापयेद्देवदेवेशं बिम्बञ्चान्यत्र देशिकः ॥१३॥
वत्सरत्रितयादूर्ध्वं ग्रामादी.....चालयेत्?।
चालयेद्यादि संमोहात् राजराष्ट्रधनक्षयः ॥१४॥
तस्मात् सर्वप्रयत्नेन चलनं न तु कारयेत्।
आवरणाच्चलनाच्च राजा चैव विनश्यति ॥१५॥
प्रासादगोपुरादीनां पतने चलने सति।
स्नपनं शान्तिहोमं च चतुः स्थानार्चनं तथा ॥१६॥
एकाहञ्च त्र्यहञ्चैव पञ्चसप्तनवाहकम्।
गुरुलाघवयोगेत्वा सर्वे चैव समाचरेत्? ॥१७॥
आदित्यस्पर्शने वापि प्रोक्षणेन विनश्यति।
उदक्या स्पर्शने चापि स्नपनं सम्यगाचरेत् ॥१८॥
दूषिते श्वसृगालाद्यैश्शान्तिहोमं समाचरेत्।
क्षयकुष्ठाद्यपस्मरस्पर्शिते देवबिम्बके ॥१९॥
एकाशीतिक्रमेणैव स्नपनं द्विजमोजनम्।
दीपपूजाविहीने तु रात्रौ द्विगुणमर्चनम् ॥२०॥
एकरात्रविहीने तु परे द्विगुणाचरेत्।
द्वितीयदिवसान्ते तु प्रायश्चित्त विधीयते ॥२१॥
स्नपनं द्वादशघटै श्शान्तिहोमं समाचरेत्।
वत्सरादूर्ध्वतो विप्र प्रतिष्ठां सम्यगाचरेत् ॥२२॥
चतुर्थाहात्समारभ्य यावन्मासावधि द्विज।
पूजाहीने तु विप्रेन्द एवमादिक्रमात् चरेत् ॥२३॥
पुण्याहं शान्तिहोमं च स्नपनं द्विजभोजनम्।
पुनः पूजाविधिं चैव ततः प्रभृति नित्यशः ॥२४॥
मासद्वयविहीने तु संप्रोक्षणविधिं चरेत्।
तदूर्घ्वं तु च विप्रेन्द्र चतुः स्थानार्चनं चरेत् ॥२५॥
सप्ताष्टमासादूर्ध्वे तु तिलहोमं समाचरेत्।
वत्सरादूर्ध्वतो विप्र प्रतिष्ठां सम्यगाचरेत् ॥२६॥
एवमादिक्रियाहीने सर्वकर्मासुरं भवेत्।
जलवासाक्षिमोक्षं च वर्जयित्वा समाचरेत् ॥२७॥
कर्षणादि क्रियाहीने सर्वकर्मासुरं भवेत्।
प्रवेशबलिहीने तु तत्कर्म विफलं भवेत् ॥२८॥
शङ्कुस्थापनहीने तु स्थाननाशो भवेद्‌ध्रुवम्।
बीजावापनहीने तु बीजनाशो भवेद्भुवि ॥२९॥
गर्भन्यासविहीने तु तत्क्षेत्रं सून्यतां वहेत्।
अङ्कुरार्पणहीने तु अनर्थ माशुभवाहम् ॥३०॥
जलवासविहीने तु कर्तृनाशो भवेद्‌ध्रुवम्।
अक्षिमोक्षविहीने तु अक्षिनाशो भवेद्‌ध्रुवम् ॥३१॥
स्नपनस्य विहीने तु वास्तुहानि र्भविष्यति।
होमकर्मविहीने तु सर्वकार्यं विनश्यति ॥३२॥
मण्डलाराधने हीने तत्कुर्म विफलं भवेत्।
स्थापनस्य विहीने तु पुनः स्थापनमाचरेत् ॥३३॥
कर्माण्यादौ प्रतिष्ठार्थं यः कुर्यात्र देशिकोत्तमः।
स एव सकलं कर्म कुर्यात्र प्राज्ञोऽपि नेतरः ॥३४॥
आचार्यस्य च सांकर्ये राजा राष्ट्रं विनश्यति।
नद्यादिजलवेगेन चालनं यदि संम्भवेत् ॥३५॥
नगरग्रामधामादि निर्बाधेऽन्यत्र कल्पयेत्।
कल्पनं पूर्ववत्कुर्यात् मानादि द्विजसत्तम ॥३६॥
बिम्बं च तादृशं कुर्यात् ग्रामादीनपि तादृशः।
निमित्तं पूर्वमालोक्य सुनिमित्ते तु कारयेत् ॥३७॥
दुर्निमित्ते तु संप्राप्ते शान्तिहोमं समाचरेत्।
सौदर्शनेन मन्त्रेण नारसिंहेन वा भवेत् ॥३८॥
वासुपूजां ततः कृत्वा पायसान्नबलिं क्षिपेत्।
द्विजानां भोजनं कुर्यात् शङ्कुस्थापन माचरेत् ॥३९॥
शङ्कोः पूर्वापराभागे छायया बिन्दमालिखेत्।
छायाग्रवशेनैव दिक्परिच्छेदमाचरेत् ॥४०॥
खननञ्च ततः कृत्वा सिकतैः परिपूरयेत्।
हस्तपादैर्दृढीकृत्य तोयै स्सिञ्चेच्छिलोपरि ॥४१॥
मानाङ्गुलि प्रमाणेन धामादि परिकल्पयेत्।
उपपीठयुतं वापि अधिष्ठानं तु कल्पयेत् ॥४२॥
पट्टिकोर्ध्वे विशेषेण गर्भन्यास मथाचरेत्।
ग्रामस्य ग्राममध्ये? वा नगरे च तथैव च ॥४३॥
एतत्कर्मविहीने तु तत्कर्म विफलं भवेत्।
तस्मात् सर्वप्रयत्नेन तत्तत्कर्म समाचरेत् ॥४४॥
द्विजानां भोजनेनैव सर्वं संपूर्णतां नयेत्।
पाञ्चारात्रोक्तमार्गेण ग्रामादि परिकल्पयेत् ॥४५॥
पाञ्चरात्रप्रभावेण सर्वदोषो विनश्यति।
कर्षणादिक्रियास्सर्वाः पाञ्चरात्रेण कारयेत् ॥४६॥
नित्यक्रियाविहीने तु पवित्रारोपणं चरेत्।
पवित्रारोपणे हीने मासपूजा विनश्यति ॥४७॥
मासपूजाविहीने तु नित्यपूजा विनश्यति।
नित्यपूजाविहीने तु ग्रामनाशो भविष्यति ॥४८॥
नित्यपूजाविहीने तु सर्वशान्तिं समाचरेत्।
पञ्चाहञ्चत्र्यहञ्चैव सप्ताहञ्च नवाहकम् ॥४९॥
आदौ संकल्प्य विप्रेन्द्र चतुः स्थानार्चनं चरेत्।
स्नपनं प्रत्यहं कुर्यात् द्विजभोजनमेव च ॥५०॥
दक्षिणा संप्रदाने तु सर्वदोषो विनश्यति।
दानेन दह्यते सर्वं तस्माद्दानं विशिष्यते ॥५१॥
धर्मेण लभ्यते सर्वं तस्माद्वर्मं विशिष्यते।
दानधर्मद्वयाच्चैव विष्णोराराधनेन च ॥५२॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
प्रायश्चित्तविधिर्नाम त्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP