अनिरुद्धसंहिता - अष्टमोऽध्यायः
अनिरुद्धसंहिता
भगवान्--
कुण्डानां लक्षणं वक्ष्ये शृणु गुह्यं महामुने।
वृत्तात्संजायते सर्वं वृत्तं मध्यात्प्रजायते ॥१॥
मण्डलस्येशकोणे तु कुम्भवेदिं प्रकल्पयेत्।
तस्य पावकदिग्भागे कुण्डवेदिं प्रकल्पयेत् ॥२॥
दण्डके तु विशेषेण कुम्भवेदिं तु पूर्वके।
मण्डलं मध्यमे भागे पश्चिमे कुम्भसंज्ञकम् ॥३॥
सौम्यालाभे तदा विप्र दक्षिणादि प्रकल्पयेत्।
बिम्बंतु पश्चिमे भागे सर्वत्रैव निवेशयेत् ॥४॥
दक्षिणायान्तके विप्र उत्तरे बिम्बसंस्थितं
योनिनाभिसमायुक्तमब्जमेखलकै र्युतम् ॥५॥
षण्णवत्यङ्गुलं मानं सर्वकुण्डमकण्टकम्।
अश्रं चापं तथा वृत्तं शङ्खं चक्रं च पङ्कजम् ॥६॥
त्र्यश्रं पञ्चाश्रमुदितं षडश्रं सप्तकोणकम्।
अष्टाश्रं च नवाश्रं च गदा योनिमतः परम् ॥७॥
एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् परमेष्ठिना।
कुण्डमण्डलवेद्यार्थमानं मुष्ठ्यङ्गुलं भवेत् ॥८॥
त्रिमुष्टिमात्रं तालं वा तद्वयं हस्तमिष्यते।
तद्वयं दण्डमित्युक्तं तद्वयं धनुरुच्यते ॥९॥
युग गोचर्मकञ्चैव तन्मानं संप्रकीर्तितम्।
चतुरश्रस्य वृत्तस्य मानं मध्येन जायते ॥१०॥
तालमानेन सूत्रेण भ्रामयेन्मध्यसूत्रतः।
तद्वृत्तपरिधेः पार्श्वे सूत्रमास्फलायेच्च तत् ॥११॥
चतुः शूत्रप्रयोगेण चतुरश्रं प्रजायते।
अर्धमानेन सूत्रेण मध्यकण्ठेन पातयेत् ॥१२॥
चतुर्दिक्क्रमयोगेन चतुरश्रं प्रजायते।
चतुरश्रवशेनैव यद्वा वृत्तबशेन तु ॥१३॥
अन्यानि सर्वकुण्डानि तन्मानेन तु कारयेत्।
चतुरश्रं खरेद्भूभौ हस्तमानप्रमाणतः ॥१४॥
तालमानमथैवापि द्व्यङ्गुलं नाभिमानकम्।
तद्बहिस्तालमानेन मेखलात्रितयं भवेत् ॥१५॥
चतुरङ्गुलविस्तारमुन्नतं तावदेव तु।
योनिं प्रकल्पयेदूर्ध्वे पश्चिमे कुण्डमध्यमे ॥१६॥
चरतुश्रवशेनैव यद्वा वृत्तवशेन तु।
दशाङ्गुलप्रमाणेन आयतं परिकीर्तितम् ॥१७॥
विस्तारंतु विशेषेण दशभिः खण्डचन्द्रकम्।
पृष्ठपार्श्वे लिखेद्विप्र षट्चतुर्द्वङ्गुलैर्युतम् ॥१८॥
अश्वत्थपत्रवत्कुर्यात् तन्नालं चतुरङ्गुलम्।
त्रियङ्गुलं तु नहनं मुखे चैव षडङ्गुलम् ॥१९॥
मध्यमेखलमानं स्यात् सुषिरं परिधेर्द्विज।
कुण्डमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥२०॥
मेखलस्योर्ध्वकोणेषु चक्र शङ्खादिकान् लिखेत्।
अङ्गुलोन्नतमानेन मृद्भिरेव प्रकल्पयेत् ॥२१॥
मृदा संलेपयेत्पश्चात् गोमयेन विचक्षणः।
सुधाचूर्णैरलंकृत्य तालमानेन पीठकम् ॥२२॥
चतुरश्रमिदं प्रोक्तं चापकुण्डमथोच्यते।
पूर्ववृत्तप्रमाणेन तदर्धं देशिकोत्तमः ॥२३॥
तन्मानं भ्रामयेच्चापं सज्यं तद्वयमानकम्।
यादृग्विधं भवेत् कुण्डं तादृगेव तु मेखला ॥२४॥
योनिं कुण्डेषु सर्वेषु कल्पयेच्च द्विजोत्तम।
योनिकुण्डेन योनिः स्यात् पद्मकुण्डेन पङ्कजम् ॥२५॥
चापं षडङ्गुलं प्रोक्तं सज्यं षट्त्रिंशकं मुने।
यद्वाङ्गुलवशेनैव सर्वकुण्डं प्रकल्पयेत् ॥२६॥
चतुर्विंशात्यङ्गुलंचाग्रं चापं षष्ट्यङ्गुलं भवेत्।
सज्यं षट्त्रिंशकं प्रोक्तं वृत्तार्धं षोडशाङ्गुलम् ॥२७॥
पद्मकुण्डं तदेव स्यात् चक्रकुण्डं तथैव च।
त्र्यश्रकुण्डं विशेषेण द्वात्रिंशदङ्गुलं मुने ॥२८॥
द्वात्रिंशदङ्गुलं मानं पट्ठायामं प्रकीर्तितम्।
दक्षिणोत्तरपार्श्वे तु सूत्रमास्फालयेच्च तत् ॥२९॥
योनिकुण्डमथो वक्ष्ये चतुरश्र प्रजायते।
दशाङ्गुलप्रमाणेन वायुनैऋतकोणयोः ॥३०॥
कोणाग्रे स्थापयेत्सूत्रं भ्रामयेदर्धचन्द्रकम्।
अर्धचन्द्रशशिशृङ्गात् पूर्वमध्याच्च पातयेत् ॥३१॥
दक्षिणोत्तरपार्श्वे तु अग्रमश्वत्थपत्रवत्।
योनिवत् संनिवेशस्स्यान्न योनिं परिकल्पयेत् ॥३२॥
अब्जकुण्डमथो वक्ष्ये पूर्बवद्वृत्तमालिखेत्।
ऊर्ध्वमेखलयामध्यमर्धाञ्चाप्यथमेखलां।? ॥३३॥
एवमष्टाङ्गुलेनैव पद्मपत्रं प्रकल्पयेत्।
क्रमेण प्रणवं कुर्यात् बलिपीठाब्जपत्रवत् ॥३४॥
अष्टपत्रमथो वापि द्वादशं वापि कारयेत्।
शङ्खकुण्डमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥३५॥
पूर्ववद्वृत्तमालिख्य द्वादशाङ्गुलमानतः।
तद्वृत्तपरिधेः पूर्वं अर्धचन्द्रं समालिखेत् ॥३६॥
चतुरङ्गुलमानेन भ्रूपद्मं समालिखेत्।
अथ पश्चिमभागे तु शङ्खस्याग्रं प्रकल्पयेत् ॥३७॥
अग्रं तु योनिवत्कुर्यात् तत् ष़डङ्गुलमानतः।
उत्तरे मेखलापार्श्वे किञ्चिन्नाभि प्रकल्पयेत् ॥३८॥
मेखलाबितयं कुर्यात् तद्वदेव च दक्षिणम्।
चतुर्दिक्षु विशेषेण ज्वालां काञ्चित्प्रकल्पयेत् ॥३९॥
चक्रकुण्डमथो वक्ष्ये वृत्तं पूर्ववदालिखेत्।
नीचोर्ध्वमेखलां सम्यक् द्वङ्गुलेन प्रकल्पयेत् ॥४०॥
अष्टाङ्गुलेन तन्मध्ये अरक्षेत्रं प्रकल्पयेत्।
द्वादशाष्टादशं वापि द्विजाण्डसदृशं भवेत् ॥४१॥
अक्षंतु कुण्डमध्यं स्यान्नाभिर्नेमिर्द्विमेखला।
चतुर्ज्वालां प्रकल्प्यैव शिखावन्मुनिसत्तम ॥४२॥
पञ्चाश्रकमथो वक्ष्ये अवधारय सांप्रतम्।
वृत्तं तु पूर्बवत्कृत्वा पञ्चधा परिरञ्जयेत् ॥४३॥
कर्णसूत्रं बहिः कृत्वा वह्नेर्वह्नेर्विशेषतः।
पट्टसूत्रं बहिः कुर्यात् सूत्रैरष्टादशर्धकैः ॥४४॥
पट्टसूत्रस्य मध्यं स्यात् किंचित् प्रह्वं समाचरेत्।
तद्वशान्मेखलां कुर्यात् ष़डश्रमधुनोच्यते ॥४५॥
वृत्तञ्च पूर्ववत्कुर्यात् त्रिः पञ्चाङ्गुलमानतः।
त्रिः पञ्चाङ्गुलमानेन सूत्रस्योपरि कल्पयेत् ॥४६॥
वृतन्तु पूर्ववत्कुर्यादर्धमानेन चाङ्कयेत्।
षट्चिह्नं जायते विप्र षट्सूत्रं पट्टयेद्बहिः ॥४७॥
पट्टायामं ततः कृत्वा चिह्नसूत्रं बहिः क्षिपेत्।
तद्वच्च मेखलां कुर्यात् सप्ताश्रञ्चावधारय ॥४८॥
सप्तधा चाङ्कयेत्वृत्तं कोणसूत्रं बहिः क्षिपेत्।
कोणात्कोणान्तरं कुर्यात् पट्टायामं प्रकीर्तितम् ॥४९॥
अष्टकोणविधिस्तद्वत् नवकोणविधिस्तथा।
गदाकारमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥५०॥
पूर्ववद्वृत्तसंयुक्तं द्व्यङ्गुलं तु विहीनकम्।
भूतात् भूते तु कर्तव्यं षट्चतुर्द्व्यङ्गुलैककम् ॥५१॥
तत्कुण्डपश्चिमे भागे अष्टाङ्गुलसमायुतम्।
किञ्चित्प्रणवसंयुक्तं दण्डाकारं विशेषतः ॥५२॥
एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् मुनिपुङ्गव।
उत्सवे तु नवाश्रं स्यादष्टास्रं वापि कारयेत् ॥५३॥
चतुरश्रमथैवापि एकाश्रं वापि कारयेत्।
पवित्रारोहणे विप्र अष्टकुण्डं प्रकल्पयेत् ॥५४॥
चतुष्कुण्डमथैवापि एककुण्डं तु कल्पयेत्।
प्रतिष्ठायां विशेषेण तथैव परिकल्पयेत् ॥५५॥
पत्रपुष्पोत्सवे चैव तथान्तकलशे द्विज।
कुण्डकर्मविधिः प्रोक्तः कुम्भसंस्थापनं शृमु ॥५६॥
खारिद्वयेन संपूर्णं महाकुम्भं प्रकीर्तितम्।
तदर्धमुपकुम्भं च परिकुम्भं तदर्धकम् ॥५७॥
तन्मानं वर्धनीचैव वस्त्रेण परिवेष्टयेत्।
अङ्गुलान्तरकं वापि अक्षमात्रा तु वा भवेत् ॥५८॥
व्रीहिकोपरिसंस्थाप्य सौवर्णं राजतं तु वा।
ताम्रं वा मृण्मयं वापि यथा वित्तानुसारतः ॥५९॥
वस्त्रे संवेष्टयेत्पश्चात् शरावैरपिधाय च।
स्तम्बकैर्नालिकेरैश्च क्रमुकैः फलवृत्तकैः ॥६०॥
फलैर्नानाविधैश्चैव नारिकेलफलैरपि।
रत्नहेमसमायुक्तमष्टमङ्गुलसंयुतम् ॥६१॥
पालिकैश्च समायुक्तं दीपकुम्भसंमन्वितम्।
स्वर्णपट्टसमायुक्तं क्षौमवस्त्रसमायुतम् ॥६२॥
कुम्भमण्डलकुण्डेषु परिकुम्भं तु विन्यसेत्।
ध्वजैश्चतोरणैर्युक्तं द्वारकुम्भोपशोभितम् ॥६३॥
एवं दीक्षाविधाने तु प्रतिष्ठाद्युत्सवेषु च।
अन्यथा दोषमाप्नोति नात्र कार्या विचारणा ॥६४॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
कुण्डविधिर्नाम अष्टमोऽध्यायः।
N/A
References : N/A
Last Updated : January 20, 2021
TOP