संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
नवमोऽध्यायः

अनिरुद्धसंहिता - नवमोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्---
अभिषेकमथो वक्ष्ये आचार्याणां विशेषतः।
क्षत्रियाणां विशेषेण साधकानां विशेषतः ॥१॥
विष्ण्वालये विशेषेण मण्डपं कारयेद्बुधः।
मण्डपं समलंकृत्य तोरणाद्यैरलंकृतम् ॥२॥
वितानाद्यैरलंकृत्य दर्भमाल्यैश्च शोभयेत्।
अङ्कुरानर्पयित्वा तु पूर्वेद्युः कर्मवासरे ॥३॥
सप्तमे पञ्चमे वापि तृतीयेऽहनि वा भवेत्।
पूर्वे द्वारान्विते पश्चात् सद्यो वा सकलं चरेत् ॥४॥
कौतुकं बन्धयेद्धीमान् पूर्वेद्युश्च निशामुखे।
चतुः स्थानार्चनं विप्र कारयेद्विधिचोदितम् ॥५॥
अभिषेकविधिं ब्रह्मन् इष्टसिद्धिप्रदं यजेत्।
चक्राब्जमण्डलं वापि कारयेच्छास्त्रवित्तमः ॥६॥
कुम्भाधिवासनं रात्रौ शयने सन्निवासयेत्।
पञ्जरस्थस्य देवस्य पश्चिमे शयनं चरेत् ॥७॥
पञ्चभारप्रमाणेन धान्येन परिपूजयेत्।
तदर्धंतण्डुलञ्चैव तदर्धं तिलमेव च ॥८॥
नववस्त्रे विनिक्षिप्य व्याघ्रचर्म तथोपरि।
तदूर्ध्वे कंबलं न्यस्य पीठस्योपरि साधकः ॥९॥
तदूर्ध्वेऽङ्गुलिकां न्यस्य चित्रवस्त्रं तथैव च।
पञ्चोपधानसंयुक्तं प्रच्छादनपटं तथा ॥१०॥
मृद्वास्तरणसंयुक्तं शयनं परिकल्पयेत्।
क्षीरोदार्णवसंस्थितं अनन्तं परिपूजयेत् ॥११॥
कुम्भमण्डलवह्नौ तु पूजनं पूर्ववच्चरेत्।
बलिं च सर्वतो दद्यात् पुराणं श्रावयेत्सुधीः ॥१२॥
प्रभातकाले चोत्थाय स्नानं पूर्ववदाचरेत्।
द्वारादीनि समभ्यर्च्य कुम्भादीन् परिपूजयेत् ॥१३॥
कुम्भानुद्धृत्य तान् सर्वान् द्वादशान् चतुरोऽपि वा।
चतुष्कुम्मं तु तन्मध्ये अष्टदिक्ष्वष्टकं न्यसेत् ॥१४॥
व्रीहिकोपरि संस्थाप्य सूत्रवस्त्रादिवेष्टितम्।
शरावं कूर्चसंयुक्तं शुद्धद्रव्यसमन्वितम् ॥१५॥
पूर्वे पुष्पं प्रदद्यात्तु आग्नेये पत्रसञ्चयम्।
याम्ये फलोदकञ्चैव नैऋते पञ्चगव्यकम् ॥१६॥
वारुणे तीर्थतोयञ्च वायव्ये गन्धतोयकम्।
सौम्ये चाक्षततोयं तु ईशान्ये भूतिसंज्ञकम् ॥१७॥
मध्ये चतुष्टये विप्र आग्नेये रत्नतोयकम्।
नैऋते लोहतोयं च वायव्ये व्रीहितोयकम् ॥१८॥
ईशान्ये सर्ववस्तूनि क्रमाद्‌द्रव्यं निवेशयेत्।
उत्पलत्रितयञ्चैव केतकीद्वितयं तथा ॥१९॥
शतपत्रं जातियुग्मं नन्द्यावर्तद्वयं तथा।
एतानि दश पुष्पाणि निक्षिपेत् कुम्भमध्यतः ॥२०॥
?पुष्पालाभे तु जातिस्यात्पत्रपूरमथोच्यते।
तुलसीद्वितयञ्चैव दमनिद्वितयं तथा ॥२१॥
सटाभद्रा च दूर्वा च सहदेवी तथैव च।
बिल्वपत्रञ्च इत्येते निक्षिपेत् पावकोदके ॥२२॥
पत्राणामप्यभावे तु तुलसीदलमुत्तमम्।
कदली पनसञ्चाम्रं बिल्वमामलकं तथा ॥२३॥
नालिकेरञ्च हव्यञ्च लिकुचं दाडिमं भवेत्।
एतानि निक्षिपेद्याम्ये फलाभावे तु दाडिमम् ॥२४॥
गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चमम्।
गव्यानामप्यलाभे तु घृतमेकं प्रशस्यते ॥२५॥
नादेयं नैर्झरं ह्रादं सामुद्रं पौष्करं तथा।
हैमञ्च वार्षिकञ्चैव कर्पूरागरुकं तथा ॥२६॥
एलालवङ्गतक्कोलवचाकर्पूरमेव च।
एतानि गन्धतोये तु निक्षिपेत्तन्त्रपारगः ॥२७॥
एलादीनामलाभेतु कर्पूरं संप्रचक्षते।
व्रीहितण्डुलकञ्चैव प्रियङ्गुं कम्बुसंज्ञकम् ॥२८॥
कलमां रक्तशालिञ्च वेणुं चैव यवं तथा।
अक्षतानामभावे तु कलमापरिचक्षते ॥२९॥
त्रेताग्निभूतिकं चैव नित्यहोमाग्निभूतिकम्।
यागाग्निभूतिकं चैव उत्सवाग्नि विभूतिकम् ॥३०॥
भूतीनामप्यलाभे तु नित्यकुण्जविभूतिकम्।
मणिं मरकतञ्चैव वैडूर्यं पुष्परागकम् ॥३१॥
गोमेधञ्चेन्द्रनीलञ्च वज्रं मौक्तिकमेव च।
प्रवालं स्फटीकञ्चैव पुष्पगं ब्रह्मरागकम् ॥३२॥
रत्नानामप्यलाभे तु मौक्तमेकं प्रशस्यते।
सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ॥३३॥
रजीन्द्र? मारकूटञ्च लोहान्येतानि निक्षिपेत्।
शालिं व्रीहिं तथाचैव षष्टिकं यववेणुकम् ॥३४॥
गोधूमतिलमुद्गं च शिम्बमाषकुलत्थकम्।
एतानि मारुते कुम्भे निक्षिपेन्मुनिसत्तम ॥३५॥
ईशाने सर्ववस्तूनि निक्षिपेत्तन्त्रपारगः।
यन्त्रन्यासक्रमेणैव उद्धारक्रम इष्यते ॥३६॥
केशवाद्यैश्च मन्त्रैश्च स्थापयेद्विधिपूर्वकम्।
स्नानं पुरुषसूक्तेन विष्णुसूक्तेन वा भवेत् ॥३७॥
अन्तरान्तरयोगेन स्नानानां च महामते।
अर्ध्यं गन्धं च पुष्पं च धूपं चैव निवेदयेत् ॥३८॥
अभिषेकं समाचरेत्।
शुद्धस्नानं ततः कृत्वा नीराजनमथाचरेत् ॥३९॥
अलंकृत्य यथा न्यायं यागभूमिं समाविशेत्।
आसने सन्निवेश्याथ पट्टबन्धमथाचरेत् ॥४०॥
भट्टमाचार्यभूयञ्च तदग्रेण जगद्गुरुम्।
आचार्यं दृष्टमात्रेण देववत्प्रतिभावयेत् ॥४१॥
आसनं पादुकेचैव छत्रं चामरमेव च।
वाहनं केतुदण्डञ्च चिह्नं काहलमेव च ॥४२॥
शङ्खभेरीनिरादञ्च द्वारपालञ्च भूषणम्।
कांस्यतालं च चिह्नं च प्रदद्याद्विष्णुसन्निधौ ॥४३॥
कालचिह्नं कलंचैव प्रदद्यात् विष्णुसन्निधौ।
राजा चात्र विशेषेण अभिषेकं समाचरेत् ॥४४॥
अष्टोत्तरशते निष्के अभिषेकं प्रकल्पयेत्।
नवरत्नसमायुक्तं त्रपुकाञ्चनं संयुतम् ॥४५॥
इति पूर्वक्रियासर्वं द्विजवत्सर्वमाचरेत्।
मुहूर्ते शोभने प्राप्ते अभिषेकं समाचरेत् ॥४६॥
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रैवमादिकैः?।
नृत्तगीतसमायुक्तं जयशब्दसमन्वितम् ॥४७॥
वेदघोषसमायुक्तं शङ्खनादसमन्वितम्।
अभिषेकं ततः कृत्वा दद्यादचजमनं तथा ॥४८॥
नेत्रबन्धं ततः कृत्वा आयुधानि च संस्पृशेत्।
उदस्थानानि भाण्डानि मङ्गलानि च दर्शयेत् ॥४९॥
राजचिह्नानि सर्वाणि उत्तमासनपूर्वकम्।
प्रणमेद्दण्डवद्भूमौ जनैस्सर्वैरतन्द्रितः ॥५०॥
वैश्यश्चेत्तु विशेषेण अभिषेकादिकं विना।
पालशब्दं वदेद्विप्र शूद्रश्चेत् दास्यकं वदेत् ॥५१॥
ब्राह्मणः सर्ववर्णानां राजा राष्ट्रस्य कारणम्॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
अभिषेकविधइर्नाम नवमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP