संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
दशमोऽध्यायः

अनिरुद्धसंहिता - दशमोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्---
राजकार्यमथो वक्ष्ये समासादवधारय
राज्ञश्शरीरं राष्ट्रं हि राजा तज्जीव उच्यते ॥१॥
राजानञ्चैव राष्ट्रञ्च तस्माद्रक्ष्यं द्वयं बुधैः।
तद्राष्ट्रस्य विशेषेण राज्ञः प्राधान्यमुच्यते ॥२॥
राजा गुरुर्जनानाञ्च वर्णानां ब्राह्मणौ गुरुः।
क्षतात्सन्त्रायते जन्तोः क्षवियस्स उदाहृतः ॥३॥
अनुरागात् प्रजानां च राजा इत्यभिधीयते।
भूरक्षणपश्चैव भूमिपाल इति स्मृतः ॥४॥
नारान्नियमनाच्चैव नरेशस्समुदाहृतः।
चेरकेरलपाण्ड्यश्च अभिषेकपरो भवेत् ॥५॥
अन्येषां प्राणिसर्वेभ्यः पट्टबन्धं प्रकाशयेत्।
वर्णानाञ्च द्विजादीनां जन्मकर्म प्रकीर्त्यते ॥६॥
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणस्समुदाहतः।
क्षत्रियायां विशेषेण क्षवियेण च भूभुजः ॥७॥
तथापि वैश्यशूद्राणां जन्मसंपत्तिरुच्यते।
अध्यापनं चाध्ययनं याजनं यजनं तथा ॥८॥
दानं प्रतिग्रहश्चैव षट्‌कर्माण्यग्रजन्मनः।
अध्ययनञ्च यजनं दानं वृत्तिश्च भूभुजाम् ॥९॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्।
यज्ञदानपः कर्मण्यूहापोहविचक्षणः ॥१०॥
शक्तित्रयसमोपेतो बलवान् कोशवर्धकः।
स्वाम्यमात्यसुहृत्कोश राष्ट्रदुर्गबलान्वितः ॥११॥
चारेणचिरयुक्तश्च धर्मशास्त्रार्थकोविदः।
नीतिशास्त्रपरश्चैव गुणवान् ब्राह्मणप्रियः ॥१२॥
सर्वावयवसंयुक्तस्सर्वकल्याणकारणः।
स्वराष्ट्ररक्षणपरः परराष्ट्रस्य पीडनः ॥१३॥
वाहनारोहणे दक्षः अर्थशास्त्रार्थकोविदः।
वेदवेदाङ्गतत्त्वज्ञो देवतासमदर्शनः ॥१४॥
देवताराधनपरो विष्णुचिन्तापरस्सदा।
बन्धुभृत्यसमायुक्तो गुरुभक्तिरतः सदा ॥१५॥
अर्थार्जनपरश्चैव बालरक्षणतत्परः।
अश्वारोहणदक्षश्च द्वन्द्वयुद्धविशारदः ॥१६॥
मल्लयुद्धपरश्चैव वश्यशास्त्रपरिश्रमः।
सर्वमन्त्रपरश्चैव गुरुवाक्यप्रमाणतः ॥१७॥
गीतनृत्तपरश्चैव पुराणश्रुतितत्परः।
स्वदारनिरतश्चैव परदारविवर्जितः ॥१८॥
अनेकदानसंयुक्त स्तन्त्रीवादनसंस्कृतः।
गीतश्रीगीतनिपुणः वाद्यनृत्यविशारदः ॥१९॥
एभिरेव गुणैर्युक्तं राजानमभिषेचयेत्।
सदाचारमथो वक्ष्ये क्षत्रियाणां विशेषतः ॥२०॥
प्रभाते बोधकैर्युक्त श्शयनादपिचोत्थितः।
मुखदानं ततः कुर्यात् बाह्मणेभ्यो विशेषतः ॥२१॥
घृतप्रस्थं च चषकं स्वर्णवस्त्रधृतं तथा।
मलमूत्रपुरीषादीन् संविसृज्य रहस्यतः ॥२२॥
प्रातः स्नानं ततः कुर्यादुष्णतोयेन नित्यशः।
स्नानीय द्रव्यसंयुक्त मभ्यङ्गादि समन्वितम् ॥२३॥
दिवाकरोदयात्पूर्वं सन्ध्यावन्दनमाचरेत्।
गायत्रिया जपं कृत्वा उपस्थानं समाचरेत् ॥२४॥
आत्मार्थं जयनं कुर्यात् यन्त्रं विष्णुमथोऽपि वा।
उभयं वा सदा कुर्यात् तर्परणादिपुरस्सरम् ॥२५॥
ताम्बूलदानं विप्राणां गोदानं सम्यगाचरेत्।
कन्यादानं तिलंचैव रक्तवस्त्रं सुवर्णकम् ॥२६॥
आशीर्वादं गृहीत्वा तु मन्त्रपूताक्षतं द्विजैः।
देवालयगतांस्तीर्थान् प्रसादं परिगृह्य च ॥२७॥
दैवब्राह्मणकार्यं च श्रुत्वा सर्वं समाचरेत्।
अलंकृत्य यथान्यायं भूषणाद्यनुलेपनैः ॥२८॥
सभामण्डपमासाद्य आसने चाधिवासयेत्।
व्यवहारान्नृपः पश्चेद्ब्राह्मणैः सह नित्यशः ॥२९॥
शङ्खभेरीनिनादेन जयशब्दसमाकुलैः।
चामरैस्तालवृन्तैश्च व्यजनैः परिवीजितः ॥३०॥
स्त्रीरत्नगणसंयुक्तं भेरीशब्दसमन्वितम्।
बहुदीपसमायुक्तं वितानाद्यैरलंकृतम् ॥३१॥
परराष्ट्रगतान् शत्रून् वधूः संवीक्ष्य भूभुजः?।
परराजागतान्पत्रान् श्रावयेद्भूभुजोत्तमः ॥३२॥
ग्राह्याग्रह्य इतिज्ञात्वा सचिवैस्सह भूभुजः।
ग्राह्यं गृहीत्वा राजेन्द्रः अग्राह्यं परिवर्जयेत् ॥३३॥
मित्रामित्रे विदित्वा तु तत्तत्कार्यं समाचरेत्।
जनान् सर्वान् विसृज्याथ गृहवाटं प्रवेशयेत् ॥३४॥
मातापित्रोर्गृहं गत्वा प्रणमेत् दण्डवद्भुवि।
श्रुत्वा तद्वाक्यमादाय तत्तत्कार्यं समाचरेत् ॥३५॥
स्वगृहेषु स्वयं प्राप्य तत्तत्कार्यं समाचरेत्।
आत्मानं यजनं कुर्याद्यन्त्रं विष्णुमथापि वा ॥३६॥
उदयेवाससाकुर्यात् तत्तत्कार्यं समाचरेत्।
आहार्यादीन् विसृज्याथ सूक्ष्मवस्त्राणि धारयेत् ॥३७॥
श्रमालयं समासाद्य श्रमकार्यं समाचरेत्।
उत्ताननं ततः कृत्वा मण्डनं च विसर्जयेत् ॥३८॥
अथ स्नानं ततः कृत्वा देवागारं प्रवेशयेत्।
पूजयित्वा च देवेशं हविष्यं च निवेद्य च ॥३९॥
भोज्यासने समासीनो भोजनं सम्यगाचरेत्।
भिषजस्सह राजेन्द्र भोजयेत्स्वबलैस्सह ॥४०॥
सुतैश्च बन्धुवर्गैश्च भृत्यवर्गैस्तथैव च।
भोजनासनवेलायां शङ्खभेरीं निनादयेत् ॥४१॥
भोजनेधृत्यकाले? तु तथैव परिघोषयेत्।
भोजनं शोधयेत्पूर्वं भुक्तद्रव्यमशेषतः ॥४२॥
शनिवारे बुधे चैव तैलाभ्यङ्गं समाचरेत्।
जन्मऋक्षे विशेषेण स्वर्णदानं समाचरेत् ॥४३॥
गन्धालेपं ततः कुर्यात् भोगकाले विशेषतः।
शुक्रवारदिने काले विष्णुदर्शनमाचरेत् ॥४४॥
क्रोशद्वयं बहिर्ग्रामात् विचरेत्परिकरैस्सह।
दिने दिने विशेषेण गजाश्वांश्चावलोकयेत् ॥४५॥
परिक्रामन्परिकरे राज्यकार्यं विचिन्तयेत्।
अयने विषुवे चै व ग्रहणे सोमसूर्ययोः ॥४६॥
जन्मऋक्षे विशेषेण स्वर्णदानं समाचरेत्।
दानेन दह्यते सर्वं तस्माद्दानं विशिष्यते ॥४७॥
धर्मेण कारयेद्राज्यमन्यथा दोषकृद्भवेत्।
सायाह्ने समनुप्राप्ते नीरजनमथाचरेत् ॥४८॥
देववत्कारयेद्राज्ञां पुरोहितजनैस्सह।
स्त्रीसभामण्डपे प्राप्ते नीराजनमलोकयेत् ॥४९॥
भोजनं कारयेदन्ते शयने सन्निवेशयेत्।
रक्षापरिकरैस्सार्धं राजकार्यं विचिन्तयेत् ॥५०॥
एवं दिने दिने कुर्यात् राजा नित्यमतन्द्रितः।
राजा राष्ट्ररिववृद्धर्थं विष्णुपूजां समाचरेत् ॥५१॥
तत्पूजार्थं विशेषेण नगरग्रामपत्तनम्।
कारयेच्छुद्धदेशे तु कर्षणादीन् प्रकारयेत् ॥५२॥
ब्राह्मणानां निवासः स्याद्ग्रामञ्चाग्रहाकरम्।
राजावासं पुरं प्रोक्तं वैश्यानां पत्तनं भवेत् ॥५३॥
जनत्रयसमायुक्तं नगरग्रामपत्तनम्।
दुर्गावससमायुक्तं नगरं संप्रकारयेत् ॥५४॥
नदीतीरे विशेषेण ग्रामं कुर्याद्विचक्षणः।
अष्टोत्तरसहस्त्रं वा शतमष्टोत्तरं तु वा ॥५५॥
चतुस्सहस्रकं वापि उत्तमाधममध्यमम्।
तदर्धं वा तदर्धं वा यथावित्तानुसारतः ॥५६॥
ब्राह्मणान् वेदविदुषः श्रोत्रियान् ग्राहयेत्सुधीः।
ब्राह्मणान्नपरीक्षेत कदाचिद्राजवर्त्मनः ॥५७॥
ग्रामादि कारयेद्विद्वान् शुद्धदेशे मनोरमे॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
राजलक्षणं नाम दशमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP