संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| द्वादशोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - द्वादशोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता द्वादशोऽध्यायः Translation - भाषांतर श्रीभगवानुवाचत्रिविक्रमनखोद्भिन्नाजाण्डखर्पररन्ध्रतः ।अन्तः प्रविषटबाह्याम्बु वैकुण्ठशिखरात्ततः(दधः) ॥१॥पतत्कमणडुले धाता दधारेश पदाम्बुजे ।प्रक्षाल्यतच्छेषजलाद्गङागानामनदी व्यधाथ् ॥२॥अरनाम्नीण्यनाम्नी सा भूदुर्गाभागयोर्द्वयोः ।पृथक्सप्तावर्णगा परिघा रूपिणी मता ॥३॥नन्दिनी सत्यलोके सा नलिनी च तपोमये ।जनोलोके मालिनीति महर्लोके तु भोगिनी ॥४॥स्वर्धुनी सा स्वर्गलोके वियद्गङ्गा ध्रुवालये ।मदापगा सान्तरिक्षे मेरोर्ब्रह्मसदोर्ध्वतः ॥५॥निपतन्ती च पूर्वादि चतुर्दिक्षु क्रमेण सा ।सीताचा(?अ)लकालकनन्दा च चक्षुर्भद्राह्वया शुभा ॥६॥सीताख्यातिरवोद्वेगात्सर्वत्रेलावृताद्बहिः ।निपात्यमाना हरिणा पूर्वमब्धिङ्गमिष्यति ॥७॥सैवदक्षिणभागस्था कालेन महता किल ।सगरात्मजशुद्ध्यर्थं भगीरथसमर्चिता ॥८॥भागीरथीति गदिता सर्वलोकैकपाविनी ।जह्नुना राजःऋषिणा पीतात्यक्ता च वाक्यतः ॥९॥सा जाह्नवी मेरुनगस्योत्तराधःस्थलस्थितात् ।मार्गादतलपूर्वेषु सप्तलोकेषु संस्थिता ॥१०॥सैव त्रिपथगा देवी भाति नारायणाश्रया ।सैषा रम्यक(?त)पूर्वेषु हरिवर्षादिषु त्रिषु ॥११॥भद्राश्वकेतुमाले तु चरन्ती सागरप्रिया ।भारतेस्मिन्महावर्षे नद्यः सन्ति सहस्रशः ॥१२॥श्रीरङ्गो वेङ्कटेशाख्यो तोताद्रिः पुष्कराह्वयः ।श्रीमष्णनैमिषारण्ये गण्डकी बदरीस्थलं ॥१३॥अष्टावेते स्वयंव्यक्ताः भारते सर्वसिद्धिदाः ।स्वामिपुष्करणीपूर्वाः पुष्करिण्यः सहस्रशः ॥१४॥मनवः पितरः सिद्धाः सर्वसाधनतत्पराः ।सुरासुरा भारतेस्मिन्स्वसाधनपरायणाः ॥१५॥अत्र सत्कर्मणा स्वर्गं निरयं पापकर्मणा ।मिथ्था ज्ञानेन च तमो ज्ञानेनैव पदं हरेः ॥१६॥प्राप्नोति पुरुषो ह्यत्र पदस्थास्तत्वदेवताः ।केचित्सर्वावतारेषु भूमौ भूत्वा भवन्त्यलं ॥१७॥सर्वेसुराः पदस्थाश्च रामकृष्णावतारयोः ।जाता भूमावुपास्येशं पुनर्मूलस्वरूपकैः ॥१८॥एकी भवन्त्यपि सुराः भाविनः प्रायशोत्र तु ।स्वसाधनैकनिरताः देवदासादयोपि च ॥१९॥सांशाः निरंशाश्च तथा स्वस्वसाधनतत्पराः ।विधयश्च निषेधाद्याः अत्रत्यानां भवन्ति हि ॥२०॥लक्षयोजनविस्तीर्णलवणाम्बुधिवेष्टितः ।द्वीपोयं जम्ब्वाख्यो हि मेरुस्तस्यैव मध्यमः ॥२१॥सुमेरोपरितश्चेलावृतं तद्गवनं शुभं ।सुकुमाराभिधं रुद्रशापात्तत्रगतः पुमान् ॥२२॥नारीभवति पार्वत्यारन्तुकामस्तथाकरोत् ।एतस्माद्विगुणः प्लक्षस्त्विक्षूदाम्बुधिवेष्ठितः ॥२३॥स्थूलाश्च पर्वताः सन्ति तत्र श्रीहरिसंमिताः ।तास्ते क्षीराब्धिमारभ्य इक्षुसागरसंस्पृशाः ॥२४॥भारताद्यष्टवर्षेषु षड्द्वीपा अपरा अपि ।मध्यस्तत्काम्यपुण्यानां भोगार्थं हरिनिर्मिताः ॥२५॥पापादत्र जनीनैव पुण्यादेव हि काम्यतः ।न तत्र चायुर्नयमो यावत्पुण्यन्तु जीवनं ॥२६॥नरानार्यः सुन्दराङ्गाः सन्ति भोगोचितार्थदाः ।वृक्षाश्च पुण्यरत्नानि गृहाश्च स्वर्णभूमयः ॥२७॥विनैव कालमरणं तत्र दुःखादिकं न हि ।इच्छामात्रेण सर्वाथसिद्धिस्तत्रेशनिर्मितः ॥२८॥सूर्यात्मकं हरिं तत्र पूजयन्ति विचक्षणाः ।ततो हि द्विगुणोद्वीपः शाल्मलः सर्ववर्तुलः ॥२९॥योजनानां चतुर्लक्षं मध्वब्धि समवेष्टितः ।जाम्बवं पुष्करं त्यक्त्वा मध्यद्वीपेषु पञ्चसु ॥३०॥सर्वेषु सप्तनद्यः स्युः पर्वताः सप्तकीर्तिताः ।सप्तद्वीपगता नद्यः दद्बाह्याम्बुधिगामिनः ॥३१॥भोगोपयुक्ता निखिलाः पदार्थजनसङ्कुलाः ।तत्रत्याः पर्वताः पूर्वोत्तरसागरसंस्पृशः ॥३२॥तैर्विभक्ताःसप्तवर्षास्तत्तन्मनुसुत्राश्रयाः ।चन्द्रान्तर्यामिणं विष्णुं शाल्मलस्था भजन्ति हि ॥३३॥क्रौञ्चद्वीपस्तद्विगुणोद्व्यष्टलक्षार्णवे न तु ।पव्यम्बुना वेष्टितोलं सूर्यकान्तादि सन्मणिः ॥३४॥वरुणान्तर्गतं विष्णुं भजन्ति हि ततोत्र हि ।ततो हि द्विगुणाः शाकद्वीपः क्षीराब्धिवेष्ठितः ॥३५॥द्वात्रिंशल्लक्षविस्तारः समीरोपासकोदितः ।शाकद्वीपस्य मध्येतु अनन्तरूपी हरिस्वयं ॥३६॥अर्धलक्षस्थलतनुः सप्तलक्षोन्नतः प्रभुः ।मेरुलोकालोकनगाभिमुखानन्तलसन्मुखः ॥३७॥चक्रप्राकाररूपात्मा तद्वीपे परितः सदा ।लक्षोन्नतस्थेषु जगच्चक्षुःसूर्यश्चरत्यसौ ॥३८॥मेरुं प्रदक्षिणी कुर्वन्रूक्षचक्रोनुवेगतः ।दिनेदिनेत्वेकवारं सहस्रांशुः प्रकाशकृथ् ॥३९॥सूर्यस्याक्षोत्तराग्रन्तु तैलयन्त्रमिवोलितः ।लुप्तमन्यच्चक्रयुतं मानसोत्तरपर्वते ॥४०॥परिभ्रमन्ति तन्मध्येऽनसि भूमेः समोन्नते ।चत्वारिंशद्योजनोर्ध्वप्रदेशस्प्रशिमध्यतः ॥४१॥तावत्परिमितान्यक्षसम्बन्धो तावदन्तराः ।स्तम्भाः षष्ठिसहस्राश्च चत्वारः सन्ति सदृढाः ॥४२॥शतयोजनका स्थूला दीप्यध्वज्रमयाः शुभाः ।तदूर्ध्वमण्टपे पादलक्षोच्चमणि दीपिते ॥४३॥योजनायुत देदीप्यमण्डले भानुराजतिः(रूर्जितः) ।अहःकरः सर्व सत्साधनकृत्फलदोर्यमा ॥४४॥मेरोः पूर्वस्थितो भारतस्थानामुदयङ्करः ।मेरोर्दक्षिणगोमध्य(ध्यं)दिनकृत्सप्तसन्धयः ॥४५॥मेरोः पश्चिमगो भारतत्स्थानामस्तमानकृत् ।मेरोरुत्तरगश्चार्धरात्रिकृद्भारते नॄणां ॥४६॥एवमेव चतुर्दिक्षुविद्यमानजनस्य तु ।प्रातर्मध्यन्दिननिशीथार्धरात्रप्रवर्तकः ॥४७॥नारायण विशेषावेशैधितात्मगतिः स्वयं ।एकमेव पृथङ्नामभेदेन श्रीहरीच्छया ॥४८॥सप्तद्वीपेषु योभानुवरिपोहस्तबाधिपः ।सव्येन भ्रमतां भानां त्रिलक्षोन्नतवर्तिनां ॥४९॥तिर्यगूर्ध्वं च षट्पञ्चाशल्लक्षाधिककोटितः ।दीर्घाभिश्च शलाकाभिः निर्मिते रूक्षचक्रके ॥५०॥शतयोजनविस्तीर्णं शलाकाग्रेषु भान्त्यलं ।वसन्ति तन्मार्गगताः सञ्चरन्ति नवग्रहाः ॥५१॥ते शलाका वज्रमयाः अष्टोत्तरशतात्मकैः ।छिद्रैश्च कलितापाशैः ध्रवाधीनैश्च वारुणैः ॥५२॥सम्बन्धाग्राभिरंशेन क्ळ्प्यैकैकेनभाश्रयाः ।चतुश्चिद्रयुताः सर्वशलाकास्तेषु वारुणाः ॥५३॥पाशाश्चान्तः प्रविष्टाश्च भूमेर्लक्षोन्नतान्तरे ।स्थितस्य सूर्यरथाग्रेताः अक्षकोट्यस्तथाग्रतः ॥५४॥धुराग्राक्षाग्रयोर्बद्धपाशाग्रेणसमन्विताः ।पाशाध्रुवस्य नक्षत्रपादैरेवापसव्यतः ॥५५॥संवत्सरेणैकवारं भ्रमन्तं भ्रामयत्यलं ।ध्रुवस्तस्य हयाःसप्तहरिद्वर्णा महाजवाः ॥५६॥अनुक्तस्तात्विकैस्तुल्यास्तद्यन्ता गरुडाग्रजः ।सोऽनूरुरुस्त्वरुणःसर्पपाशैस्तान्योजयत्यलं ॥५७॥मानसोत्तरमेरोः तु संस्प्रष्टाक्ष सुमध्यगे ।अनेहर्म्यकलितवज्रसम्भाव्यग्रमण्टपे ॥५८॥चरतो भास्करस्यास्यत्वाधारः शाकमध्यगः ।हरिर्मेरोःसार्धसप्तोत्तरसप्ततिलक्षकः ॥५९॥तावत्तदुत्तरगत मानसोत्तरपर्वते ।योजनानां षष्ठिसहस्रोन्नतं चक्रमूर्जितं ॥६०॥मध्यछिद्रान्वितं वज्रमयं भ्रमति विष्णुना ।द्वादशारं हि षण्णेमि त्रिनाड्यन्तर्बहिस्थले ॥६१॥युगकूबराक्षत्रयस्य रेखासु तिथिवारपाः ।अपरेषु मासास्तिष्ठन्ति ऋतवस्तस्य नेमिगाः ॥६२॥चतुर्मास्यास्त्रिनेमिस्थाः द्विपरिश्चेदगेयने ।वत्सरः सर्वचक्रस्थस्त्वेकचक्रोरथस्य तु ॥६३॥स कर्कटादिषु चरनेकोह्ना(ह्नां)क्षयकृद्रविः ।षट्सुरात्रदीर्घ्यमानः कारयन्दक्षिणायनं ॥६४॥करोति नक्रादिषु षट्सुचरन्रात्रिक्षय(यं)करः ।अह्नान्यभ्येधयन्नेकश्चोत्तरायणकारकः ॥६५॥विनाडिकानां पञ्चाशन्मासिमास्येधेयेत्यसौ ।अहान्युत्तराणेन्यत्र रात्रिकालर्धिकृत्तथा ॥६६॥यदा तु मेषतुलयोः चरत्येष समानिशा ।द्यस्राश्च वृश्चिकाद्येषु पञ्चस्वपि निशार्धिकृथ् ॥६७॥वृषादि पञ्चसु चरन्दिवाकालसमर्धिकृत् ।त्रिलक्षोन्नतनक्षत्रशलाकाग्राष्टविंशके ॥६८॥उदग्दक्षिणकोणाद्याः कृत्तिकाद्याः समाश्रिताः ।तिर्यगूर्ध्वं सप्तसप्तशलकाभिर्विनिर्मितं ॥६९॥द्वाभ्यां द्वाभ्यां कोणयोस्तु रेखाभ्यामुपकल्पितं ।नक्षत्रमण्डलं भूमेरूर्ध्वं लक्षत्रयेण हि ॥७०॥एकैकस्यां शलाकायां छिद्राणि च पृथक्पृथक् ।चत्वारि तानि दंस्रक्षाद्यादिकानि वनानि च ॥७१॥मेषाङ्कानि वृषाङ्कानि नृयुग्मकानि वै नव ।कर्कसिंहाङ्गकन्यानि तुलका वृश्चिकानि वै ॥७२॥धनुर्नक्षत्रशङ्खानि मीनाङ्कानि च वै नव ।तेषु तेषु प्रविष्टाश्च पादद्यष्टोत्तरं शतं ॥७३॥पादैर्धुवःससूर्यस्तु अपसव्यक्रमेण वै ।सर्वनक्षत्रपादेषु क्रमाद्वृद्धौ भविष्यति ॥७४॥ध्रुवान्तर्हरिणा विंशद्घटिकान्तदिनत्रयं ।एकैक नक्षत्रपादे बद्धो भवति वै क्रमाथ् ॥७५॥सार्धत्रयोदशादिनैरेकनक्षत्रगो रविः ।मासेन नवपादानि भुञ्जन्द्वादश राशिषु ॥७६॥संवत्सरेण चरति ह्यप्रदक्षिणतो रविः ।मेषाध्यङ्कितरन्ध्राणि मेषाद्याः राशयस्मृताः ॥७७॥लक्षोन्नतप्रदेशेस्थ ध्रुवपादाग्रगो रविः ।द्विलक्षोन्नतदेशस्थ ध्रुवपादाग्रतः शशी ॥७८॥चन्द्रसूर्यौ ऋक्षचक्रादधौ देशगतौ मतौ ।कुजादयश्च पञ्चापि ऋक्षचक्रोर्ध्ववर्तिनः ॥७९॥ध्रुवपाशैः सदाबद्धाः सञ्चरत्यपसव्यतः ।ज्ञः पञ्चलक्षोन्नतगतः सप्तलक्षोन्नतः कुजः ॥८०॥नवलक्षोन्नतः शुक्रः लक्षैकादशको गुरुः ।त्रयोदशं तु सूर्यस्यमण्डलं परिकीर्तितं ॥८१॥लक्षपञ्चादशादूर्ध्वं शनिमण्डलमस्ति हि ।षड्विंशति सुलक्षाणां ऊर्ध्वं सप्तर्षिमण्डलं ॥८२॥लक्षैकादशतस्तत्मात्ध्रुवःसंस्थो हरिप्रियः ।स विष्णोः शिंशुमारस्य महाचक्रपदास्थिताः ॥८३॥ध्रुवादीन्ग्रहान्विष्णुः चक्रे सर्वान्सुवारुणैः ।पार्शैयोर्जयति श्रीमान्शलाकारन्ध्रसङ्गताः ॥८४॥सर्वेह्येते भानुसमाप्रदेशेषूत्तरोत्तरं ।चरन्ति ऋक्षपादस्थपाशैरेवतु तन्मितैः ॥८५॥एतेषां राशिसञ्चारैः कालं योजयतीश्वरः ।चन्द्रोराशिद्वादशकं मासेनैकेन वर्तते ॥८६॥कुजो मासार्धतो राशिं भुक्त्वा राशिं समेष्यति ।गुरुर्द्वादशभिर्मासैः त्रिंशन्मासैःशनैश्चरः ॥८७॥मासेनैव बुधः शुक्रः प्रतिराशिं भजत्यलं ।सदा समगती वक्रशून्यौ द्वौ शशिभास्करौ ॥८८॥भानुमण्डलगश्चन्द्रो दर्शेचास्तङ्गतो भवेत् ।एवं कुजादयः पञ्च अस्तं यास्यन्ति भानुगाः ॥८९॥प्राक्दिश्यस्तङ्गतौ शुक्रगुरू द्वौ पश्चिमोदयौ ।प्रत्यगस्तङ्गतौ तौ द्वौ तु पूर्वदिश्युदितौ मतौ ॥९०॥एवमन्येपि सूर्यस्य नास्तमानं स्वभावतः ।मेरुछायागतं चास्तङ्गतं सूर्यं वदन्ति हि ॥९१॥चन्द्रार्क कव्यस्तमये लौकिके तु शुभं त्यजेत् ।पूर्वस्यां दिशि शुक्रोस्तङ्गतो मासद्वयोत्थितः ॥९२॥प्रत्यगस्तङ्गतः काव्यः सप्ताहोभिरुदेत्यलं ।गुरुर्मासेनोभयत्र ह्युदितो भवति ध्रुवं ॥९३॥कुजादीनां वक्रमाद्यास्तम्भ ऋज्वोति शीघ्रतः ।गतयो विविधाःसन्ति कालस्याशुभसूचकाः ॥९४॥न समा हि गतिस्तेषां क्वचिदेव समागतिः ।लक्षदीर्घयुगद्वन्द्व पुरस्थां रजयोजिताः ॥९५॥तद्वादशांशधुरगाः सप्ताश्वा भस्करस्य हि ।मानसोत्तरस्यपरितो नवकोटिसुविस्तरं ॥९६॥सार्धं प्रदक्षिणं कर्तुं योजयन्ति महाजवाः ।इत्थं नवग्रहैः कालचक्रं परमः पुमान् ॥९७॥सूर्यस्य गत्या मेषादीन्मासान्सौरेण मानतः ।कल्पयत्यपि चन्द्रस्यगत्या चैत्रादीकान्हरिः ॥९८॥चान्द्रमासान्कल्पयन्ति नक्षत्रं ऋक्षसन्ततेः ।आवृत्यं चतुरोराप्तिं चारान्मानं बृहस्पतेः ॥९९॥सारस्वतन्तु गान्धर्वाः पक्षाहोरात्रयो मताः ।सारस्वतन्तु गान्धर्वमानमाहुर्विचक्षणाः ॥१००॥मासेन स्यादहोरात्रं मैत्रं मानं विदुर्बुधाः ।दैवमानं वत्सराहोरात्रिकालेन तावता ॥१०१॥मनुर्मानं मानवाख्यं ब्राह्ममानमजस्य हि ।मानाश्च नवमानानां विष्णुरेकः प्रवर्तकः ॥१०२॥द्वात्रिंशल्लक्षविस्तीर्णक्षीराब्धेर्मध्यदेशतः ।तदर्धविस्तरोच्चक्रमप्राकाररूपकः ॥१०३॥दशलक्षोन्नतो भूमेः श्वेतद्वीपो रमात्मकः ।वेदावर्णा देशकालौ नित्यव्याप्ता जडामताः ॥१०४॥वाय्वाकाशःसौरदीप्तिरनित्यास्तु जडामताः ।द्रव्यान्यप्रतिघातानि तेन्योन्यस्याश्रयाणि च ॥१०५॥लक्ष्मीनारायणौ शुद्धचिद्रूपौ व्याप्तविग्रहौ ।सर्वार्थप्रतिघाता च श्वेतद्वीपादयस्त्रयः ॥१०६॥लोकास्त्वप्रतिघाताश्च स्तम्भाध्यैर्लोकरूपकाः ।दुर्गाभागस्तदुपरि भूभागस्तु तदूर्ध्वतः ॥१०७॥श्रीभागस्तु ततस्तूर्ध्वं शिखरन्तु तदूर्ध्वगः ।भागत्रयेपि भूकन्दाः पञ्चलक्षोन्नतायुताः ॥१०८॥त्रिषुभागेष्वपि रमा देशहर्म्यस्वरूपिणी ।हर्म्यं प्रदेश भूभागाः लक्षयोजनकन्दकाः ॥१०९॥उपर्यावर्त्तयो भागस्त्रयो भूकन्दसंमिताः ।भागत्रयेपि च स्तम्भामणिमद्भूमितलाश्रयाः ॥११०॥सार्धद्विलक्षसमिता नानामणिविराजिता ।श्रीभागमध्यवेदिस्थः लक्ष्मीशोनन्तभानुरुक् ॥१११॥चिन्मात्रानन्तमुक्तेड्यः स्वर्गादुपरि वर्तते ।स्थानं त्रये त्रिपाद्विष्णोः दिविस्वर्गोन्नतस्थले ॥११२॥श्वेतद्वीपोद्व्यष्टलक्ष दुर्गाभागस्तु तन्मितः ।भूभागस्तु तदर्धेतः श्रीभागस्तु तदर्धतः ॥११३॥मणिस्वर्णोज्वलत्सत्वप्राकारान्तात्मभागकाः ।अनेकतोरणाट्टालवेदीचत्वारशोभिताः ॥११४॥मणिमत्ननद्यद्रिसरोवाप्यादिसंकुलाः ।नानायादोगणोपेतस्वर्णकञ्जाबु भास्वराः ॥११५॥सर्वर्तुकालपुष्पाढ्य पल्लवस्वर्णभूरुहाः ।हंसकोकिलबर्हादि शुकस्वनसमाकुलाः ॥११६॥अतिसुन्दर सिंहादि नानामृगसमाकुलाः ।अवर्णनीयरत्नेरु रचितानेकमण्टपाः ॥११७॥नानास्वादुस्वनोपेत नरनारीगणौर्युताः ।सिद्धचारणगन्धर्वाप्सरो गानमणिताः ॥११८॥नानावाद्यमहावीणाशङ्खदुन्दुभिनिस्वनाः ।गजाश्वरथपादातिध्वजछत्रादि लाञ्छनाः ॥११९॥सर्वाभरणवस्त्राढ्या विमानावलिसङ्कुलाः ।नानाक्रीडासाधनेताः नानाः गन्धोपबृंहिताः ॥१२०॥अनेकहंसतूले तु मणिशय्या समावृताः ।भोगस्त्रीभिः समाकीर्णाः मणिव्यजनदर्पणाः ॥१२१॥मणिस्वर्णात्मकानेक भित्तिभाण्डादि साधनैः ।अनुक्तानन्तसर्वोपस्करणैरुपशोभिताः ॥१२२॥चामरान्दोलिकाडोला पादपीठादि संयुताः ।तुलसीपुष्पसद्रत्नमुक्तामालोपशोभिताः ॥१२३॥भानुकोटिप्रभादीप्ता पात्रनैवेद्यरूपिणी ।घृतदध्यम्बुरूपा सा पूर्वोक्तार्थस्वरूपिणी ॥१२४॥दासीदाससमाकीर्णभार्यारूपाखिलेश्वरी ।दुर्गाभूःश्रीस्वभागेषु अनन्तानन्तरूपिणी ॥१२५॥अनन्तरूपिणं विष्णुं सदाराधयतीश्वरं ।स्वभावादेव नास्यार्थः प्राप्तव्यः कश्चिदेष्यते ॥१२६॥पूर्णकामो हरिः प्रीत्या तत्पूजां स्वीकरोत्यजः ।स्थानत्रयेपि सा देवी ह्यनन्तोक्तार्थरूपिणी ॥१२७॥सर्वदेशेषु कालेषु सर्वरूपाश्रिता रमा ॥१२८॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे द्वादशोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP