संस्कृत सूची|संस्कृत साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| अष्टमोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - अष्टमोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता अष्टमोऽध्यायः Translation - भाषांतर श्रीहंस उवाचव्यतीते लयकाले तु सृष्टिकाल उपागते ।परकालादिमादौ तु पुरुषः सर्वचेतनान् ॥१॥वासुदेवेर्पयल्लिङ्गबद्धान्जीवान्(सृज्यान्)विलक्षणान् ।तारतम्ययुतान्स्वयोग्यतां कलितांश्च सः ॥२॥स्वस्वोचितमहायत्नाभिमुखान्स्वस्वकर्मणा ।जन्मलाभोचितान्वासुदेवस्थान्वीक्ष्य चिन्तयन् ॥३॥सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजां ।लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः ॥४॥एकं गृहीत्वान्यजीवान्प्रादात्सङ्कर्षणो विभुः ।स वायुमेकं लिङ्गे तं गृहीत्वान्यान्सुचेतनान् ॥५॥प्रद्युम्रोऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके ।तदन्यान्तात्विकान्सर्वपदस्थान्भावितात्विकान् ॥६॥व्यक्तापरोक्षिणः संख्या नियमात्सूक्ष्मयोगतः ।स्रष्टुं प्रादात्सचरमे अनिरुद्धोऽखिलेश्वरः ॥७॥वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् ।तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः ॥८॥न्यपतन्तत्र योबिन्दुः सात्विकः स तु निर्मलः ॥रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतथ् ॥९॥तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः ।रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितं ॥१०॥पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः ।तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटं ॥११॥समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् ।ततो माया प्रार्थितः सन्वासुदेवस्तदादिमः ॥१२॥तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः ।अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितं ॥१३॥निक्षिप्य च निगीर्येशोमायायां महदाह्वयं ।सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः ॥१४॥तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुं ।गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः ॥१५॥यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते ।तत्र सत्वाणवः सर्वे दशधोपचिताः सदा ॥१६॥भवन्ति राजसास्तामसाणवः पादमात्रतः ।भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः ॥१७॥सत्वादयस्तु दशधा ऊर्जिताःसम्भवन्ति हि ।त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि ॥१८॥सत्वाणवो राजसाश्च तामसाह्यणवश्च ये ।ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि ॥१९॥सांशाःसर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः ।सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सतां ॥२०॥रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः ।तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयं ॥२१॥सर्वेषां सूक्ष्मदेहानां अन्ते वसति नाशकृत् ।सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकं ॥२२॥श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः ।शुक्लरक्तात्मिकानीला आदायानन्तरूपकः ॥२३॥तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः ।तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखं ॥२४॥एकोनविंशतिमुखौ विश्वतैजसनामकौ ।सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगं ॥२५॥गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत ।दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः ॥२६॥उत्तमानां मध्यमानां नीचानां तत्वमानिनां ।त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयां ॥२७॥करोत्ययं मध्यगाख्य त्रितयेन स एव हि ।उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयां ॥२८॥करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि ।निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः ॥२९॥पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति ।अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु ॥३०॥जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः ।कृतानि सात्विकादीनि कर्माण्युच्यावचानि च ॥३१॥यानि यान्यपि सर्वाणि संचिन्तान्यपि तेष्वलं ।नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलं ॥३२॥तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि ।भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः ॥३३॥प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयं ।यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटं ॥३४॥न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः ।तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः ॥३५॥भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी ।हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः ॥३६॥राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः ।सञ्चितान्यपि तानीह अपरोक्षे सति स्फुटं ॥३७॥दग्धान्यपि विनष्टानि भवन्त्येव न संशयः ।मर्त्यो जीवन्भारतेस्मिन्नित्यं कोटिसहस्रशः ॥३८॥करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः ।अनन्त जन्मनानन्तानन्तायुः परिमाणतः ॥३९॥कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः ।सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचिथ् ॥४०॥क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने ।नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः ॥४१॥लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः ।रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः ॥४२॥यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् ।च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः ॥४३॥बोधयन्त्यपि हे जीव न ते सञ्चिततो भयं ।इति कारणतो नाशं सञ्चितस्य वदन्ति हि ॥४४॥घटादिनाशवन्नाशः कर्मणां नैव शस्यते ।सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः ॥४५॥अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभं ।आगामीत्युदितः सद्भिर्नतलोपो भविष्यति ॥४६॥न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः ।यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः ॥४७॥आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः ।गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि ॥४८॥आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः ।आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते ॥४९॥वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतं ।बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः ॥५०॥भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभं ।ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलं ॥५१॥समस्त भूतले वापि विवरेष्वन्तरिक्षके ।स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे ॥५२॥निरये वा तमसि वा वैकुण्ठादिषु वा जनः ।जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि ॥५३॥आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः ।महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा ॥५४॥तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः ।स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः ॥५५॥अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् ।नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनां ॥५६॥रियुः त्रीन्कर्मणा लोकान्ज्ञानेनैव तदुत्तरान् ।तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु ॥५७॥अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः ॥५८॥ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु ।अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नतां ॥५९॥वासः प्रारब्धपुण्येन निष्कामो न भविष्यति ।आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि ॥६०॥स तात्विकानां प्ररब्धात्पुण्यात्पापाच्च संचितात् ।भोगदत्तात्पुण्यपापात्सुखदुःखादि शस्यते ॥६१॥तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते ।निरंशनीचसांशानां नरके वास इष्यते ॥६२॥प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः ।अयोग्यानां द्वेषपाकात्तमः प्राप्तिर्भविष्यति ॥६३॥देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् ।देवानां निरयो नैव तमश्चापि कथञ्चन ॥६४॥ना सुराणां तथा मुक्तिः कदाचित्केनचित्क्वचित् ।भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु ॥६५॥सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः ।तमो मिथ्याज्ञानयोगात्ज्ञानेनैव हरेः पदं ॥६६॥तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् ।जाग्रत्प्रवर्तको विश्वः सोऽज दक्षाक्षिगो भवेथ् ॥६७॥लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् ।न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकं ॥६८॥न दैन्यावेशदुःखादि न संशयविपर्ययौ ।न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः ॥६९॥न देहाभिमतिर्नासत्पथे देहेन्द्रियोद्गतिः ।निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः ॥७०॥ब्रह्मणो हि परस्यास्य प्रसादात्सर्वदासुखं ।स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेथ् ॥७१॥सोन्तरङ्गो हरेः साक्षात्सर्वोत्कृष्ट प्रियो मतः ।पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवं ॥७२॥अनादिकालमारभ्य अजजीवगणाः सदा ।पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः ॥७३॥यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः ।कृतयानन्तवेदोक्त गुणोपासनया पदं ॥७४॥प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् ।तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः ॥७५॥तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान्हरिः ।एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना ॥७६॥मनस्युत्पद्यते तच्च न करोति प्रयत्नतः ।निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः ॥७७॥अनुकूला भावताव(भवत्येव) जन्मजन्मान्तरेष्वपि ।अकृतानां कर्मणान्तु स्वप्नः(प्न)स्येशफलप्रदः ॥७८॥स्वप्नदृष्टा अनन्तार्थास्तत्काल सुखदुःखदाः ।न जाग्रदृष्टिपथगाः किन्तु तत्काल कल्पिताः ॥७९॥स्वप्ने स्वस्थस्य जीवस्य वासनानन्त्यमीश्वरः ।उपादानीकृत्यमुख्यैः पूर्वोक्तैरेव तैजसः ॥८०॥कल्पयित्वा बहूनर्थान्दर्शयत्यखिलेश्वरः ।स्वप्नः सत्यस्ततो यस्मात्भावीनफलसूचकः ॥८१॥शेषादिसर्वजीवानां योग्यकाले तथा चरन् ।तैजसः स्वप्नकृच्चेति जनस्य स्वप्नकृद्भवेथ् ॥८२॥तत्तमोगुणमादाय प्राज्ञस्तसूक्ष्महृद्गतः ।जीवस्य लिङ्गबद्धस्य पादस्थस्य जगद्गुरोः ॥८३॥ध्यानावस्थां ददात्येवमेकास्यो देह्वयोनितः ।लिङ्गबद्धं ग्रसन्नर्धं मूर्छावस्थां प्रयच्छति ॥८४॥लिङ्गबद्धं मुखेस्थाप्य प्राज्ञोत्यल्पोन्यरूपतः ।यदाश्लिष्यति तं देवः तदा निद्रां प्रयच्छति ॥८५॥प्राज्ञो जीवेश्वरस्तं वै विना जीवोक्षमः स्मृतः ।प्राज्ञः कण्ठस्थितं प्राप्य जीवानां स्वप्नदो भवेथ् ॥८६॥जीवं गृहीत्वा दक्षाक्षिगतोसौ जग(जागृ)दीश्वरः ।न प्राज्ञतेजसौ धातुः स्वप्ननिद्रा प्रवर्तकौ(का ?) ॥८७॥ध्यानावस्थां विना तस्य तत्तद्दुष्कर्म वर्जनात् ।प्राज्ञं जीवेश्वरं प्राहुः स सर्वहृदिसङ्गतः ॥८८॥सांशजीवं स वै प्राज्ञो रूपैण्यैकेन पादयोः ।हृदिसंस्थाप्य सूक्ष्मान्यरूपेणादाय चेतनं ॥८९॥सलिङ्गं स यदा विश्वे नैकीभूतो भविष्यति ।सोणुः प्राज्ञोहृदिस्थेन एकीभूतो भवेद्यदि ॥९०॥ध्यानावस्थां सञ्जनयत्यपि जीवपतिप्रभुः ।विश्वादयो निरंशानां अवस्था त्रितयप्रदाः ॥९१॥विना ऋजून्सर्वसुरान्भुविजातान्जगद्गुरुः ।अवस्थात्रयसंयुक्तान्कुर्वन्ति प्राज्ञपूर्वकाः ॥९२॥ऊर्ध्वलोकस्थितानान्तु सदा जागृत्प्रवर्तकः ।एवं सूक्ष्मशरीरेण ब्रह्माणमसृजद्विभुः ॥९३॥एवं सङ्कर्षणो वायोः जयायां सूक्ष्मदेहकृत् ।वासुदेवः सरस्वत्याः ब्रह्माणमकरोत्पतिं ॥९४॥सङ्कर्षणस्तु भारत्याः मुख्यप्राणं व्यधात्पतिं ।सरस्वत्याश्च भारत्याः प्रद्युम्नः सूक्ष्मदेहकृथ् ॥९५॥तयोस्ताभ्यां सूक्ष्मतनू विपशेषौ बभूवतुः ।सूत्रनामा तदावायुः ब्रह्मा पुरुषनामकः ॥९६॥वेदादि सर्वनित्यानां अर्थानां जीवसन्ततेः ।नित्यानामपि सृष्टौ हि तावुभावाभिमानिनौ ॥९७॥ते भार्ये तौ विनाकश्चनार्थोपि स्थितिमर्हति ।ब्रह्मा निरभिमानित्वात्शरीर्यप्यशरीरवान् ॥९८॥अशरीरो वायुरभ्रं विद्युदित्यादि नामभिः ।परशुक्लत्रयं वाच्यं योगात्ते सर्वमानिनः ॥९९॥अथानिरुद्धः कालेन ब्रह्मवाय्वोः सभार्ययोः ।त्रिचतुस्त्वेकविंशत्यवारं सूक्ष्मशरीरकृथ् ॥१००॥त्रिवारमेकविंशत्सवारं सूक्ष्म(तनुप्रदः)तनुं प्रदात् ।अनिरुद्धो विपादीनां नीलादीनां तथैव च ॥१०१॥सौपर्ण्यादि त्रयाणाञ्च कालदेशक्रमेण च ।इन्द्रादि पुष्करान्तानां तात्विकानां अशेषतः ॥१०२॥एकविंशतिवारन्तु अनिरुद्धस्तु सूक्ष्मकृत् ।यदा यस्य च सूक्ष्माप्तिस्तत्पूर्वक्षण एव च ॥१०३॥तत्तज्जीवगणस्यासु लिङ्गवैषम्यमित्यपि ।पञ्चसप्तभिर्मासैर्बाह्यमानेन सर्वशः ॥१०४॥तात्विकानां तु देवानां सूक्ष्मसृष्टिरभूद्धरेः ।ततो स सत्वतमसः वैषम्यावस्थयायुतां ॥१०५॥जडाख्यां प्रकृतिं सम्यक्चेष्टयामास विश्वसृट् ।ततो बिन्दुत्रयं जातं सत्वं चेति रजस्तमः ॥१०६॥ऊर्ध्वदेशे सत्वबिन्दुः रजोबिन्दुस्ततोप्यधः ।तदधोभूत्तमो बिन्दुः स्थूलश्चाद्यास्त्रिबिन्दवः ॥१०७॥श्रीभूदुर्गेति रूपा मा क्रमात्रिगुणमानिनी ।विष्णुब्रह्माशिवश्चेति बिन्दुक्रमनियामकाः ॥१०८॥ब्रह्मवायू सभार्यौ द्वौ त्रिरूपावभिमानिनौ ।सत्वादिबिन्दुषु श्रीश्च श्रिता नश्वरेषु वै ॥१०९॥रजस्तमो बिन्दुगतवैषम्ये जगदीश्वरः ।ब्रह्मा सङ्कर्षणात्मा तु समुधृत्य ररक्षतुः ॥११०॥ततो विष्णुः सत्वबिन्दुगतः संवर्धयत्यजः ।सत्वावरणमाद्यं च चक्रे तत्र वृतोद्यमं ॥१११॥रजोविन्दुगतो ब्रह्मनामकस्तदधस्तने ।देशे द्वितीयावरणं राजसस्यैव नामकं ॥११२॥तमोबिन्दुस्थितो रुद्रस्तामसावरणं व्यधात् ।तद्धि द्वितीयावरणं रजसस्यैव गर्भगं ॥११३॥विष्णुब्रह्मशिवौ द्वौ द्वौ ब्रह्मवायू सभार्यकौ ।श्रीभूदुर्गास्वाद्यमाद्य तृतीयावरणेषु हि ॥११४॥तत्तदात्मस्थूलदेहत्रिगुणेष्वभिमानिनौ ।आद्यं शुक्लं द्वितीयं तु रक्तं नीलं तृतीयकं ॥११५॥रजोगुणस्यवैषम्या त्रिगुणावरणान्तरे ।महदावरणं चक्रे ब्रह्मनामा स भूपतिः ॥११६॥चतुर्थावरणं तत्र विष्णुब्रह्मशिवात्मकः ।जाताभ्यां ब्रह्मवायुभ्यां जतौ द्वौ द्वौ त्रिरूपकौ ॥११७॥सभार्यौ ब्रह्मवायू च महत्तत्वाभिमानिनौ ।महत्तत्वनियन्तेशः आनन्दाख्यो हरिः स्वयं ॥११८॥आनन्दनाम्नस्तनयौ ब्रह्मवायू महद्गतौ ।रजोगुणस्य वैषम्यात्सर्वांशेन मतः कलाः ॥११९॥राजसांशेनेन्द्रियाणां दशानां च कलास्तथा ।तामसांशेन तन्मात्राः कलाः पञ्चमहद्गताः ॥१२०॥अभवन्ताः कला नित्यं षोडशापि सदातनः ।महत्तत्वाद्विकुर्वाणाद्ब्रह्मणः स्थूलदेहतः ॥१२१॥आनन्दवशगाज्जातस्त्वहङ्कारस्त्रिवृन्मतः ।वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥१२२॥उद्यद्रविप्रभावत्वान्महताहं त्रिवर्णकः ।वैकारिकस्तु सत्वांशजातः शुक्ल उदहृतः ॥१२३॥तैजसो राजसांशोत्थः रक्तवर्णः प्रकीर्तितः ।मनो हृषीकाणि मात्राः पूर्वं सूक्ष्मस्वरूपतः ॥१२४॥महत्तत्वगताह्येता अहङ्काराश्रिताः क्रमात् ।गायत्रीशो विधिः सत्वे विरिञ्चस्तु रजोगुणे ॥१२५॥सावित्रीशो भवत्यद्धा तमसि ब्रह्मनामकः ।सरस्वतीशो वसति तादृग्रूपत्रयोत्थितौ ॥१२६॥त्रिरूपौ वै ब्रह्मवायू तन्नामानौ महद्गतौ ।विद्यादिभिस्त्रिभिस्तासु गायत्र्यादिषु तिसृषु ॥१२७॥क्रमाद्ब्रह्मा च वायुश्च शेषश्चासन्हरीच्छया ।विपशेषौ सभार्या च महद्राजे रजोत्रिधार् ॥१२८॥हर्याज्ञयैवत्रिविधाहंरेष्वभिमानिनः ।विद्याद्युत्थैर्ब्रह्मपूर्वैस्त्रिभिः रुद्रस्त्रिरूपकः ॥१२९॥सभार्यस्त्रिविधाहङ्कृन्मानीतुस्थूलदेहकः ।महत्तत्वस्य गर्भस्थमहदावरणं मतं ॥१३०॥लक्ष्मीनारायणो ब्रह्मवायू भार्यासमन्वितौ ।उक्तेषु वक्ष्यमाणेषु सर्वतत्वेषु सर्वदा ॥१३१॥वसन्ति तान्विना शेषवीशाद्या नक्षमा क्वचित् ।वैकारिकाद्धि कुर्वाणान्मनस्तत्वं जगद्गुरुः ॥१३२॥सृष्ट्वाहङ्कारगर्भस्थं चकार पुरुषर्षभः ।तैजसात्तु विकुर्वाणात्हरिणा चेन्द्रियाणि च ॥१३३॥ज्ञानशक्तीनि पञ्चापि कर्मशक्तीनि पञ्च च ।सृष्टा भावीनि काले तु सृज्यं वै भूतपञ्चकं ॥१३४॥यत्र यत्र स्थाप्यमीशस्तत्रतानि क्रमाद्व्यधात् ।आकाशं तु विकुर्वाणात्स्पर्शमात्रमभूद्धरेः ॥१३५॥ततो वायुं समुत्पाद्य वाय्वावरणमातनोत् ।वायोश्चैव विकुर्वाणाद्रूपमात्रं ह्यभूत्ततः ॥१३६॥ततो वह्निं समुत्पाद्य वह्न्यावरणमातनोत् ।वह्नेरपि विकुर्वाणाज्जलमात्रं व्यधाद्धरिः ॥१३७॥ततः सलिलमुत्पाद्य जलावरणमाचरत् ।जलावृत्ते विकुर्वाणात्तु गन्धमात्राभवद्विभोः ॥१३८॥ततः पृथ्वीं सनिर्माय चक्रे भूम्यावृतिं हरिः ॥१३९॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे अष्टमोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP