संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| षष्ठोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - षष्ठोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता षष्ठोऽध्यायः Translation - भाषांतर श्रीहंस उवाचनिःशेषतो रात्रिमाने व्यतीतेत्वहराग(दि)मे ।क्षणे तं विश्वसृक्स्रष्टुमिच्छां चक्रेऽखिल(स्वयं)प्रभुः ॥१॥ततः स्वगर्भगान्जीवान्लिङ्गमुक्तान्विनेश्वरः ।प्रकृत्यात्मकलिङ्गेन शरीरेणावृतास्त्रिधा ॥२॥विभिन्नानां स्तमसान्शुद्धराजसान्सात्विकान्प्रभुः ।स्वोदरस्थान्समुधृत्यसृज्यान्पुरुषनामकः ॥३॥प्रादात्सवासुदेवाख्यो सर्वान्जीवान्जगत्प्रभुः ।नैव सृष्टिस्तु मुक्तानां बद्धानां न हि सर्वशः ॥४॥सृष्टिरुक्तायुक्तः संख्या नियमात्सृष्टिरुच्यते ।सृष्टिः संख्या नियमतः तात्विकातात्विकेषु च ॥५॥निरंशेषु न संख्यास्ति बहुत्वात्वाद्बहुधैव सा ।ब्रह्मत्वयोग्या ऋजवो नामतोऽनन्तशो गणाः ॥६॥तेषु पूर्वानन्तकल्पैः मुक्ताः सन्ति ह्यनन्तशः ।लिङ्गबद्धा अप्यनन्तानन्तशः सन्ति गर्भगाः ॥७॥हरेस्तेषां सर्वशोपि तेषु सृज्यास्तु केचन ।ऋज्वादि तात्विकाःसर्वे अनादितो ह्यपरोक्षिणः ॥८॥सामान्यतो विशेषेण स्वस्वयोग्यापरोक्षिणः ।क्ळ्प्तकालोचितमहासाधनेन भवन्ति हि ॥९॥यतन्ति ह्यपरोक्षार्थं ऋजवो शतसंमिताः ।पूर्वापरोक्षिणस्ते च शतसंख्यामिताः सदा ॥१०॥अनन्तवेदोक्तगुणोपासनायां हरेः सदा ।यतन्ति तेपि क्रमशो ह्युपासीतगुणोच्चयाः ॥११॥भवन्ति वेधाः सम्पूर्णसद्गुणोपास्तिमानिह ।काले मुक्तो भवत्येव मुच्यते नैकदैव हि ॥१२॥एवञ्च ब्रह्ममानेन कल्पद्विशतकेन च ।पूर्णशक्तिः पूर्णगुणोपास्तिः मुक्ता भवत्यलं ॥१३॥मुक्तेः पूर्वक्षणे भोग्यसुप्रारब्धक्षयेपि च ।एवमेवोत्तरत्रापि संख्या नियमतः सुराः ॥१४॥मुच्यन्ते तात्विका वक्ष्यमाणैः कल्पैरजस्य तु ।द्विपञ्चाशत्कल्पमिताः शेषाद्यास्तु सभार्यकाः ॥१५॥विंशत्कल्पमितास्त्विन्द्रजीवाः द्विनवकल्पकाः ।अहंप्राणपदार्हश्च गुर्वाद्याद्व्यष्टकल्पकाः ॥१६॥प्रवाहस्तु द्विषट्कल्पैः सूर्याद्याः दशकल्पकाः ।मित्रादीनां च नवभिस्तूक्त शेषगणस्य तु ॥१७॥अष्टभिः सप्तभिः कल्पैः सनकादि गणस्य तु ।षड्भिः पर्जन्यमारभ्य पुष्करान्तगणस्य वै ॥१८॥अपरोक्षतः कर्मदेवाः पञ्चकल्पापरोक्षिणः ।चतुर्भिराजानजानान्तु सार्धकल्पत्रयेण तु ॥१९॥कृष्णाङ्गसङ्गगोपीनां त्रिभिः पितृगणस्य तु ।गन्धर्वाणान्तु कल्पाभ्यां मर्त्यानां तु तथैकतः ॥२०॥अर्धकल्पं तृणान्तानां योग्यानां हरिदर्शने ।नियमोऽयंसर्वकल्पेष्वेवमेव न चान्यथा ॥२१॥क्ल्पसंख्या ब्रह्ममानाद्विज्ञेया योग्यचेतनैः ।असुराणां तमःप्राप्तिः ब्रह्मणो दिनकल्पतः ॥२२॥भवत्येव जगद्धातुराज्ञयेत्थं सदैव तु ।इन्द्रादिपुष्करान्तानां गुणोपासनयोचितैः ॥२३॥प्रोक्तैः कल्पैर्विमुच्यन्ते तावत्कल्पैस्तु साधनं ।तत्पूर्वमपरोक्षस्य कर्तव्यमिति निश्चयः ॥२४॥अण्डान्तराले पद्मोत्थब्रह्मा यावद्धि तिष्ठति ।तावत्संवत्सरगतप्रतिप्रतिदिनेष्वपि ॥२५॥सांशा अतात्विकाः सर्वे संख्यया वक्ष्यमाणया ।मितास्तु प्रतिकल्पेऽपि पदस्था ह्यपरोक्षिणः ॥२६॥उर्वश्याद्याप्सरसः शतान्तांश्चाष्टसंख्यया ।मिता आजानजैस्तुल्याः कर्मदेवैः समाः पराः ॥२७॥शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ।अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योऽवराः क्रमाथ् ॥२८॥गन्धर्वास्तु शतं तेषु अष्टौ तुल्यास्तु कर्मजैः ।शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ॥२९॥ऋषीणां च शतं कर्मदेवैस्तल्यमुदीरितं ।हर्यावेशाश्च तन्मध्ये विंशदीषद्गुणोत्तमाः ॥३०॥तेष्वेव तात्विकाश्चाष्टौ शतकं कर्मजैः समं ।तदन्येऽजानजेभ्यस्तु तुल्या अग्निसुता अपि ॥३१॥द्व्यष्टौसहस्राणिशतन्त्रिंशच्चारणरक्षसां ।साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ॥३२॥आजानजास्तेस्वन्यूनं पितृगन्धर्वसंयुताः ।प्रतीकालम्बनाः सांशाः निरंशास्तु ततोऽवराः ॥३३॥प्रतीकालम्बनस्तेषु श्रेष्ठाः मानुषगायकाः ।ततो न्यूनास्तु राजानो मर्त्योच्चास्तु ततोऽधमाः ॥३४॥मर्त्यगन्धर्वराश्यादि सर्वजीवगणेष्वपि ।ये मुक्तियोग्यास्ते सर्वे प्रतीकस्थावलम्बिनः ॥३५॥निरंशा अपरोक्षात्प्राकूर्ध्वमप्यण्ड एव हि ।सृज्यानूर्ध्वं यथा सांशाः अपरोक्षविवर्जिताः ॥३६॥अपरोक्षिणान्तु सांशानां तात्विकैर्भिन्नचेतसाम् ।अतात्विकानां कर्मादि सुरगन्धर्वमानुषां ॥३७॥एतावदन्तजीवानां सूक्ष्माप्तिरनिरुद्धतः ।अजोत्पत्तेः पुराजाण्डे स्थूलाप्तिरिति निश्चयः ॥३८॥तात्विकानां बहिश्चाण्डात्सूक्ष्मस्थूलाप्तिरिष्यते ।असंसृष्टशरीरास्तेऽण्डोत्पत्तेः पुराःसुराः ॥३९॥अण्डान्तराले सर्वेऽपि संसृष्टाः स्थूलदेहकाः ।लये सर्वे लिङ्गबद्धाः शून्यकुक्षा वसन्ति हि ॥४०॥तेषु मुक्तेतरे संख्या नियमात्सृष्टिसंमताः ।ये च तान्निखिलान्वासुदेवः स्रष्टुमुपाक्रमथ् ॥४१॥जडाख्या प्रकृतिः सर्वजीवानां लिङ्गरूपिणी ।प्रकृतेर्गर्भगा जीवाः लिङ्गदेहयुता मताः ॥४२॥अनादिकालमारभ्य जीवाः संसृतिबन्धगाः ।तत्र पूर्वानन्तकल्पे जीवाः सत्साधनेन च ॥४३॥मिश्रेण विपरीतेन ज्ञानेनात्यक्तबन्धनाः ।जीवाश्च त्रिविधा आसन्शतकोटिसहस्रशः ॥४४॥सृज्येषु लिङ्गबद्धेषु पूर्वसृज्यश्चतुर्मुखः ।न चैककाले सर्वेषां सृष्टिः सा कालभेदतः ॥४५॥भवत्यतः पूर्वजाताः उत्तमान्ये ततोऽवराः ।लयाख्य परकालान्ते व्यतीते सृष्टिसंमते ॥४६॥परकालादिमेऽजस्य सृष्टिरन्यस्य कालतः ।ब्रह्मणः सृष्टितः पश्चाद्वायोः सृष्टिः शताब्दतः ॥४७॥ततः शताब्दतो वाण्याः भारत्यास्तच्छताब्दतः ।ततः सहस्राब्दतश्च सृष्टिस्तु विपशेषयोः ॥४८॥नीलादीनां सहस्रश्च वत्सरैस्तावता पुनः ।वारुण्यादेर्दशसाहस्राब्दतस्तु ततः परं ॥४९॥सृष्टिरिन्द्रस्य कामस्याप्ययुताब्दास्तथापरे ।सृष्टास्युर्हरिणा ये च नीचास्तेऽनुत्तमोत्तमैः ॥५०॥पुष्करान्तास्तात्विकाश्च तथैवातात्विकाः परे ।निरंशा नित्यबद्धाश्च तमोयोग्याश्च राक्षसाः ॥५१॥अयुताब्दाद्धेवमानात्पूर्वपूर्वव्यवस्थया ।सृष्टिर्भवति सा सूक्ष्मस्थूलभेदाद्विधा मता ॥५२॥तात्विकानां पदस्थानां सर्वेषामपरोक्षिणां ।अण्डात्पूर्वैव भवति तदन्येषां तदन्तरे ॥५३॥अण्डाद्बहिरथाण्डान्तर्जायमानजनस्य तु ।पूर्वोक्तकालनियमात्सृष्टिः ज्ञेया यथाक्रमं ॥५४॥लिङ्गबद्धस्य तु यदा सूक्ष्मदेहाप्तिरिष्यते ।ततः पूर्वक्षणे लिङ्गे गुणवैषम्यमिष्यते ॥५५॥लिङ्गदेहस्य मध्यस्थो रजोभागः प्रकीर्तितः ।भूर्नामकेन्दिरा तत्र चेष्टका तस्य मानिनी ॥५६॥सत्वभागस्पृष्टरजः पार्श्वगा राजसाणवः ।दशप्रलयकाले तु भूम्या सत्वस्य पार्श्वगाः ॥५७॥भवन्ति लयकालान्ते तत्र तिष्ठन्ति सर्वशः ।राजसाणुः सात्विकांशगतस्त्वेकैकशः पृथक् ॥५८॥दशैव तादृशा एते मिलिता द्वादशाणवः ।सात्विकेषु शतमितान्रक्तवर्णान्करोत्यलं ॥५९॥स्वभावतःसत्वभागाः शुक्लास्ते सत्वसंस्थिताः ।रक्तासहस्रसंख्याकाः दशभीराजसाणुभिः ॥६०॥भवन्ति च रजः स्पृष्टाः सत्वपार्श्वगता लये ।एवमेको राजसाणुः राजसांशापसव्यगं ॥६१॥तामसांश भुवानीतः स्वशतांशन्तु तामसं ।अत्यल्पं नीलवर्णं ते रक्तोरक्ती करोत्यलं ॥६२॥एकः शुद्धो राजसांशः परिच्छेदे तु राजसे ।मध्ये तिष्ठन्त्यपि लये राजसाणु समा इमे ॥६३॥तमः परिच्छेदगताः तामसाणुस्तु यादृशाः ।लये सत्वपरिच्छेदपार्श्वगा राजसाणवः ॥६४॥तामसास्तादृशा एते मिलिता द्वादशाणवः ।राजसा तामसात्यल्प परमाणु प्रमाणतः ॥६५॥अधिकं गुणितास्तत्र शतद्वादशसंमिताः ।दशराजससंयुक्त सहस्रसात्विकाणवः ॥६६॥लक्षाभवन्ति कार्योपयुक्ता एते भवन्ति हि ।तामसात्तु परिच्छेदाद्विगुणो राजसस्मृतः ॥६७॥राजसात्तु परिच्छेदा द्विगुणःसात्विकः स्मृतः ।एकैकस्मन्परिच्छेदेप्यनन्ताः परमाणवः ॥६८॥सन्ति तत्र नियन्ताजो विष्णुब्रह्मशिवात्मकः ।नारायणोनन्तगुणः श्री स्त्रीरूपाभिमानिनी ॥६९॥जडायां प्रकृतौ चापि लिङ्गदेहे तथैव च ।सन्त्यानन्ताणवस्तेषु पूर्वोक्ताः कार्यसाधकाः ॥७०॥सत्वङ्गता राजसांशाः लये राजससात्विकान् ।वदन्ति तामसगतं रजोराजसतामसं ॥७१॥रजः परिच्छेदगतं सन्तो राजसतामसं ।वदन्त्येव लये योगो भवति श्रीहरीच्छया ॥७२॥साम्यावस्थां बुधाः प्राहुः एतां प्रकृतिलिङ्गयोः ॥७३॥इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP