संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|प्रकाशसंहिता|प्रथमपरिच्छेदः| तृतीयोऽध्यायः प्रथमपरिच्छेदः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमपरिच्छेदः - तृतीयोऽध्यायः प्रकाशसंहिता Tags : prakasha samhitasamhitaप्रकाश संहितासंहिता तृतीयोऽध्यायः Translation - भाषांतर श्रीहंस उवाचजालरन्ध्रात्ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि ।यदा भवन्ति तस्याः समीपे तिर्गास्थितः ॥१॥केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः ।मर्त्योत्तमो भक्तिपाकात्महरादिषु संस्थितः ॥२॥यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः ।तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ॥३॥भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः ।तच्छतांशो देवलोके स्थितस्य परमाणुकः ॥४॥तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः ।परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ॥५॥परमाणुद्वयात्मातु कालो द्व्यणुकरिरितः ।परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ॥६॥त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु ।लवोवेधत्रयात्मास्यात्निमेषस्तु त्रिभिर्लवैः ॥७॥क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् ।काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ॥८॥लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता ।विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ॥९॥ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितं ।अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ॥१०॥सपादसप्तभिर्वापि सार्धसप्तभिरेव वा ।यामः कालोष्टभिर्वापि कालभेदेन चोदितः ॥११॥यामैश्चतुर्भिः अहः स्यात्तावद्भिर्यामिनीमता ।अहोरात्रत्रिंशता च मासः पक्षद्वयात्मकः ॥१२॥ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितं ।कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ॥१३॥दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकं ।यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ॥१४॥उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः ।अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ॥१५॥षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः ।अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ॥१६॥क्ळ्प्तः कृतयुगस्तस्मात्त्रेतापादोनमुच्यते ।सहस्रषण्णवत्येतलक्षद्वादश संमितः ॥१७॥त्रेतायुगस्ततः पादन्यूनो द्वापररिरितः ।चतुःषष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ॥१८॥द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः ।द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ॥१९॥कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः ।चतुर्युगात्मकः कालो महायुग इतीर्यते ॥२०॥विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः ।क्ळ्प्तः कालः कालदृग्भिः महायुग इतीर्यते ॥२१॥षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्दरिरितः ।तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ॥२२॥त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसंमितः ।द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ॥२३॥कृतस्यादौ कृतान्ते च पृथगब्दश्चतुःशतं ।सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयं ॥२४॥सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयं ।शताब्दःसंमितः कालः सन्धिराद्यन्तयोः कलेः ॥२५॥एवं दैवेन मानेन द्वदशाब्दाःसहस्रतः ।क्ळ्प्तः कालः कालविद्भिः महायुग इतीर्यते ॥२६॥सार्धाष्टादशलक्षाब्दे युगानां एकसप्तति ।मिलितो मनुसन्धातभोगकाल उदीरितः ॥२७॥द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः ।स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ॥२८॥पञ्चादशशताब्दात्मा लयः काल उदीरितः ।चतुर्दशशताब्दात्मा लयः काल उदाहृतः ॥२९॥तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु ।चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ॥३०॥रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा ।षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ॥३१॥एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः ।वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ॥३२॥यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु ।मासत्रयाधिकादब्दषट्कात्पूर्वतनादभूथ् ॥३३॥सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः ।सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवथ् ॥३४॥नारायणादजाद्रुद्रात्क्रमात्कालानुसारतः ।यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ॥३५॥अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः ।आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ॥३६॥दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् ।तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ॥३७॥नाभ्युत्थिताल्लोकमयात्प्राकृतात्पद्मकोशतः ।पाद्मः ब्रह्मोत्थितःसार्धं सप्तत्रिंशच्चतन्मये ॥३८॥दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः ।व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनं ॥३९॥एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी ।स्वयं चात्मस्वरूपाणां एकीभावं करोत्यजः ॥४०॥यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता ।एकीभूतेपि रमति तथैकीभूतमायया ॥४१॥तावत्कालं ततः पश्चात्सुप्तवत्स्वापयत्यजः ।सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ॥४२॥भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः ।करोति पुरुषस्तस्य नायुर्मानं विधीयते ॥४३॥एवं विधापरिमितानन्तानन्तपरात्मके ।काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ॥४४॥स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते ।लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरं ॥४५॥येऽनन्तकालतस्तस्य मृतिजन्मजरादयः ।आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ॥४६॥अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः ।कृशतारोगदुरितपुण्यलेपादयस्तथा ॥४७॥आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा ।नासन्दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ॥४८॥तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः ।तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः ॥४९॥तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः ।यः कालः परमाण्वादि द्विपरार्धावसानकः ॥५०॥तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः ।तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ॥५१॥नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः ।नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमाथ् ॥५२॥अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः ।शताब्दःसंमितः कालो ब्रह्मणः परसंज्ञकः ॥५३॥सकालस्तु निमेषाख्यः अहश्च परमेशितुः ।इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ॥५४॥अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरं ।अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ॥५५॥अङ्गीकरोति तं कालमहोयदखिलेश्वरः ।रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ॥५६॥रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः ।निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ॥५७॥करोति पुरुषस्तस्य आयुर्मानं विधीयते ।एवं विधापरिमितानन्तानन्तपरात्मकः ॥५८॥कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः ।स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ॥५९॥पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि ।उत्तरत्रायास्यमानपरमाणुप्रवाहतः ॥६०॥संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः ।घटिकायाममासाद्या नैकदा सम्भवन्ति हि ॥६१॥आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः ।विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकं ॥६२॥वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च ।रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजां ॥६३॥समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा ।एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनां ॥६४॥कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकं ।अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणां ॥६५॥आयुर्माने शरीराणां कालज्ञनं प्रयोजकं ।एवं कालगतिं जानन्कालभीतिं तरिष्यति ॥६६॥एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः ।दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ॥६७॥नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः ।ब्रह्माणं गरुडं शेषं इद्रं प्राणं रविं सुरान् ॥६८॥एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः ।तथाप्यजाण्डानन्तानां नियन्ताजाण्डरूपवान् ॥६९॥हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः ।रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ॥७०॥तादृशानन्तरूपाणां अनन्त्यानन्त्ययोगतः ।अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ॥७१॥रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः ।अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ॥७२॥निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः ।समशक्तिः समज्ञानबलादिशुभसद्गुणः ॥७३॥समाधिकविहीनश्च रमयानन्तरुपया ।सहस्वाधीनया सत्याशेषचिज्जडभृद्धरिः ॥७४॥स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः ।भिन्नैर्नित्यजडैःसत्यैः भिन्नैः जीवेश्वरैः सदा ॥७५॥विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः ।अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ॥७६॥पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ॥७७॥इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः N/A References : N/A Last Updated : January 15, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP