संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः २३ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः २३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २३ Translation - भाषांतर व्यास उवाच-पूर्वं कोचरशोनाम राजाऽभूत्क्षितिमंडलेशांतः परमधर्मज्ञो राजनीतिविदांवरः ॥१॥सत्यवादी जितक्रोधो जितवैरि समुच्चयःनारायणार्चनपरो हरिसेवा रतः परः ॥२॥सुप्रज्ञा नाम महिषी तस्यासीत्प्रियवादिनीसर्वलक्षणसंपन्ना पतिसेवापरायणा ॥३॥एकादशीव्रतरता सर्वप्राणिहितैषिणीजातिस्मरा महाभागा सुशीला वरवर्णिनी ॥४॥स राजा दशमीं कृत्वा सदारः परमार्थवित्एकादशीं निशीथिन्यां जागरं कर्तुमुद्यतः ॥५॥तत्रांतरे द्विजः कश्चिच्छौरिर्नाम महीपतेःआजगाम महातेजास्तस्य जागरमण्डपम् ॥६॥तमायांतं स भूपालो नारायणपरायणःपाद्याद्यैः पूजयामास सदारोऽत्यंतहर्षितः ॥७॥तेषां मध्ये सूपविष्ठः स विप्रोऽखिलतत्ववित्विष्णुपूजापरांस्तत्र ददर्श व्रतिनो बहून् ॥८॥पूजयंति हरिं केचिन्नानापुष्पैर्मनोरमैःगंधैर्धूपैस्तथादीपैरुपहारैरनुत्तमैः ॥९॥गङ्गामृद्भूषिताकेचित्तुलसीपत्रमालयाअलंकृता हरेरग्रे नृत्यंति व्रतिनो मुदा ॥१०॥केचिद्गायंति गीतानि ललितानि हरेः पुनःकरतालं समादाय व्रतिनो भगवत्प्रियाः ॥११॥स्तवैरनुत्तमैः केचिन्नारायणमनामयम्स्तुवंति जगतामीशं दिव्यार्थैः कोमलाक्षरैः ॥१२॥श्वेतचामरवातेन शीतलेन जगत्पतेःवीजयंति हरेः प्रीतिं केचिच्च महतीं तथा ॥१३॥केचिद्वीणादिकं वाद्यं ललितं शुचिमंगलम्वादयंतो महात्मानः केचिद्गायंति केशवम् ॥१४॥स राजा राजमहिषी द्वावप्यत्यंतहर्षितौगायतां ललितं गीतं नृत्यतां नृत्यमुत्तमम् ॥१५॥तौ दंपती महात्मानौ नृत्यगीतादिकारिणौवाचा मधुरया प्राह स शौरिर्ब्राह्मणोत्तमः ॥१६॥शौरिरुवाच-धन्योऽसि त्वं महीपाल धन्या च महिषी तवचरित्रं युवयोरेतन्मङ्गलं भुविदुर्ल्लभम् ॥१७॥त्वां वक्ष्यामि यतः कश्चिन्न दृष्टो वैष्णवोत्तमःत्वया भूमिभुजा पृथ्वी धन्येयं नात्र संशयः ॥१८॥एकादशीव्रतमिदं पवित्रं भगवत्प्रियम्सदारः कुरुषे भूप तस्मात्त्वं वैष्णवाग्रणीः ॥१९॥सप्तद्वीपैकनाथश्च सदारस्त्वं नृपोत्तमनारायणाग्रतः प्रीत्या यतो नृत्यसि गायसि ॥२०॥चरित्रं युवयोरेतद्दंपत्योर्दृष्टमद्भुतम्कस्माद्बुद्धिरियं जाता युवयोरतिनिर्मला ॥२१॥व्यास उवाच-तस्येदं वाक्यमाकर्ण्य शौरिनाम्नो द्विजन्मनःईषद्धास्यमुखीप्राह सुप्राज्ञा तमथो द्विजम् ॥२२॥सुप्राज्ञोवाच-एकादशीप्रभावेन पूर्वमावां द्विजोत्तमअतिपातकिनौ मुक्तौ सूर्यजेन महात्मना ॥२३॥जातिस्मृतिप्रभावेण दिव्यमेकादशीव्रतम्कुर्वः संप्रति विप्रेन्द्र परमस्थानकाङ्क्षया ॥२४॥शौरिरुवाच-यदि नूनं वरारोहे पूर्वां जातिं त्वमात्मनःवेत्सि मे ब्रूहि तां श्रोतुं जायते कौतुकं हृदि ॥२५॥पूर्वं स्थिता का भवती पतिर्वा कः स्थितस्तवकथं भास्करिणा त्यक्तौ युवां पातकिनावपि ॥२६॥सुप्राज्ञोवाच-अप्रकाश्यमिदं वाक्यं यद्यपि द्विजसत्तमस्थितास्मि वारमुख्याऽहं रतिशास्त्रविशारदा ॥२७॥तस्मिञ्जन्मनि पापानि घोराणि सुबहूनि चमया कृतानि विप्रेन्द्र नरकक्लेशदानि वै ॥२८॥अयं नित्योदयो नाम शूद्र स्वाःचारवर्जितःपरदारहरः क्रूरः परद्रव्यापहारकः ॥२९॥सुरापो मित्रहंता च भ्रूणहा परहिंसकःअत्यहंकारयुक्तश्च धर्मनिंदाकरः सदा ॥३०॥एकदा ज्ञातिभिः सर्वैः परित्यक्तो हि सद्व्रतैःआजगाम ममागारं वेश्याविभ्रमलोलुपः ॥३१॥युवानं सुंदरं दृष्ट्वा तमेनं द्विजसत्तममयापि प्रीतिमासाद्य संतुष्टः सुरतैरपि ॥३२॥ततोऽनुभूय सुरतं मया सह तपोधनअयमाह च मां प्रेम्णा विनयावनतो वचः ॥३३॥अहं सुरतशास्त्रज्ञः परित्यक्तः स्वबंधुभिःयदि त्वं मन्यसे तस्मिंस्तिष्ठाम्यत्र त्वया सह ॥३४॥विनयावनतं वाक्यमिदं शुश्राव तद्दिवजदंपतीभावमासाद्य सहानेन स्थितास्म्यहम् ॥३५॥कदाचिद्दिवजशार्दूल एकादश्यां तिथौ हरेःमहद्भिः पीडिताहं च देहदेहावघातकैः ॥३६॥तस्मिन्नेव द्विजश्रेष्ठ ज्वरजर्जरदेहयान पीतमुदकं नान्नं भुक्तं च परया भिया ॥३७॥ममस्नेहोदयोऽयं च तस्मिन्नेव दिने हरेःतत्याजान्नं च तोयं च विषण्ण इव जन्मना ॥३८॥अथ रात्रौ द्विजश्रेष्ठ दीपं प्रज्वाल्य सर्पिषामया कृतं जागरणं ज्वरापहतचेतसा ॥३९॥नारायण हरेकृष्ण रक्ष मामिति जल्पतामुहुर्मुहुरनेनापि कृतं जागरणं निशि ॥४०॥उपवासप्रभावेण केशवोच्चारणेन चआवयोः सकलं पापं विनष्टमभवद्दिवज ॥४१॥ततः प्रभाते विमले भगवत्युदिते रवौज्वरार्दिताहं पंचत्वं गता ब्राह्मणसत्तम ॥४२॥संप्राप्तपंचतां दृष्ट्वा मामयं च ततः शुचिःसहत्या मरणं भेजे निंदितः सकलैर्जनैः ॥४३॥सूर्य्यजस्य ततः प्रेष्यैर्ज्वलदग्निनिभेक्षणैःबद्ध्वा दृढेन पाशेन नीतौ दुर्गमवर्त्मना ॥४४॥शुभकर्मा शुभं वापि चित्रगुप्तो यमाज्ञयासर्वं विचारयामास मूलात्स तु विचक्षणः ॥४५॥चित्रगुप्त उवाच-यद्यप्येतौ महाबाहो महापातकिनां वरौतथापि पातकैर्मुक्तौ ह्येकादश्यामुपोषणात् ॥४६॥अनिच्छयापि यः कुर्यात्पुण्यमेकादशीव्रतम्सोऽपि गच्छेत्परंस्थानं सर्वपापविवर्जितः ॥४७॥इत्युक्तश्चित्रगुप्तेन धर्मराजो महायशाःआसनात्सहसोत्थाय ववंदे ताममुंच सः ॥४८॥सुगंधैश्चंदनैर्दिव्यैर्धूपैः पुष्पैश्च मृत्युनासुवर्णाभरणैरेव मंडितौ पापवर्जितौ ॥४९॥फलैर्नानाविधैस्तत्र मधुरैरमृतोपमैःभास्करिः कारयामास प्रीत्या भोजनमावयोः ॥५०॥अथ स्तुत्वा स्तवैर्दिव्यैः स्वयमावां यमः प्रभुःसमारोप्य रथे दिव्ये प्रोवाचेति कृताञ्जलि ॥५१॥यम उवाच-युवां पुण्यवतां श्रेष्ठौ सर्वपापविवर्जितौयत्रास्ते भगवान्विष्णुर्गंच्छेतां तत्र संप्रति ॥५२॥इत्युक्तौ धर्मराजेन विनयावनतेन वैअथैतदुक्तमावाभ्यां नत्वा तत्पादपङ्कजे ॥५३॥गंतव्यं नान्यथा देव तद्विष्णोः परमं पदम्किंत्वस्ति नरकं द्रष्टुं त्वद्गृहस्थं स्पृहावयोः ॥५४॥यमाज्ञया ततो विप्र रथमारुह्य शोभनम्दुष्प्रेक्ष्या निरया दृष्टा आवाभ्यां तत्र विस्तराः ॥५५॥ब्राह्मण उवाच-तत्रावस्था पापवतां या या दृष्टाः पतिव्रतेविस्तरेण समाख्यातुं तास्ताः सर्वास्त्वमर्हसि ॥५६॥पुण्यात्मानः पथा येन व्रजन्ति यममंदिरम्पापात्मानश्च सुश्रोणि तन्मे कथय विस्तरात् ॥५७॥पुण्यात्मा कीदृशं पश्येत्तत्र वैवस्वतं प्रभुम्पुण्यात्मनां पापिनां च पंथानं सुखदुःखदम् ॥५८॥सुप्राज्ञोवाच-आदौ ब्रवीमि पंथानं नृणां पुण्यवतामहम्शृणुष्व द्विजशार्दूल शृण्वतां प्रीतिवर्द्धनम् ॥५९॥प्रस्तरैर्विस्तरैर्बद्धो दिव्यवस्त्रैः समावृतःभाति पुण्यवतां पंथाः सर्वोपद्रववर्जितः ॥६०॥क्वचिद्गंधर्वकन्याभिर्गीयते गानमद्भुतम्क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते ॥६१॥क्वचिद्वीणाक्वणं नाना वाद्यं चक्रुर्मनोरमम्क्वचित्कुसुमवृष्टिश्च क्वचिद्वायुश्च शीतलः ॥६२॥क्वचित्प्रपा शीततोया क्वचिच्च भुक्तिशालिकाःक्वचिद्देवाश्च गंधर्वाः पठंति स्तवमुत्तमम् ॥६३॥क्वचित्क्वचिद्दीर्घिकाश्च फुल्लपद्माः सुशोभनाःसुच्छायाः पादपाः क्वापि पुष्पिता वंजुलादयः ॥६४॥ततस्तु सुखसम्पन्नाः पथि गच्छंति मानवाःपुण्यात्मानो द्विजश्रेष्ठ सुखमृत्युमवाप्य च ॥६५॥केचित्तुरंगमारूढा नानालंकारभूषिताःउद्दण्डधवलच्छत्रैर्गच्छंत्यावृत्य मस्तकम् ॥६६॥केचिद्यांति गजारूढा रथारूढाश्च केचनयानारूढा जनाः केचित्सुखेन यममंदिरम् ॥६७॥केचिद्देवाङ्गना हस्त न्यस्तचामरवायुभिःगच्छंति वीजिता मर्त्याः स्तूयमानाः सुरर्षिभिः ॥६८॥केचिद्दिव्यायुधधराः स्रक्चन्दनविभूषिताःभुंजंतो यांति तांबूलं पुण्यात्मानो यमालयम् ॥६९॥निजगात्रत्विषा केचिज्ज्वालयंतो दिशो दशव्रजंति शमनागारं जलग्रहनिवासिनः ॥७०॥केचिच्च पायसं दिव्यं भुंजतो यांति सत्तमसुभक्षणं प्रकुर्वंतः पथि यांतः सुखेन च ॥७१॥केचिद्दुग्धं पिबंतश्च केचिदिक्षुरसं तथाकेचित्तक्रं पिबंतश्च गच्छंति यममंदिरम् ॥७२॥केचिद्दधीनि भक्षंतः केचिन्नानाफलानि चकेचिन्मधुपिबंतश्च पुण्यवंतो व्रजंति वै ॥७३॥तानागतांस्ततो दृष्ट्वा बहून्धर्मपरायणान्भास्करीं प्रीतिमासाद्य स्वयं नारायणो भवेत् ॥७४॥चतुर्बाहुः श्यामवर्णः प्रफुल्लकमलेक्षणःशङ्खचक्रगदापद्मधारी गरुडवाहनः ॥७५॥स्वर्णयज्ञोपवीती च स्मरचारुमहाननःकिरीटी कुण्डली चैव वनमालाविभूषितः ॥७६॥चित्रगुप्तो महाप्राज्ञश्चंडाद्या यमकिंकराःसर्वे नारायणाकारा बभूवुर्मधुरोक्तयः ॥७७॥ततः स्वयं धर्मराजस्तान्सर्वान्मनुजोत्तमान्परमां प्रीतिमासाद्य मित्रवच्चार्चयेद्द्विज ॥७८॥दिव्यरत्नैः फलैश्चैव तेषां पुण्यवतां नृणाम्भोजनं कारयित्वा तु तानुवाचाथ भास्करिः ॥७९॥यम उवाच-यूयं सर्वे महात्मानो नरकक्लेशभीरवःनिजकर्मप्रभावेण गम्यतां परमं पदम् ॥८०॥ संसारे जन्म संप्राप्य पुण्यं यः कुरुते नरःस मे पिता स मे भ्राता स मे बंधुसमः सुहृत् ॥८१॥इत्युक्ता धर्मराजेन ते सर्वे द्विजसत्तमदिव्यं रथं समारुह्य नारायणपुरं गताः ॥८२॥पुण्यात्मनां गतिः प्रोक्ता समासेन द्विजोत्तमपापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् ॥८३॥षडशीतिसहस्राणि योजनानि दुरात्मनाम्प्रोक्तो मार्गस्य विस्तारः सर्वदुःखान्वितः स च ॥८४॥कुत्रचिद्वह्निवृष्टिश्च कुत्रचिच्चाश्मवर्षणम्क्वचित्क्वचिद्द्विजश्रेष्ठ संतप्तं तप्तवालुकम् ॥८५॥क्वचित्क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथाक्वचित्क्वचिच्छस्त्रवृष्टिः क्वचिदंगारवर्षणम् ॥८६॥क्वचिदग्निरिवातीव संतप्ता वांति मारुताःगंभीरांधकराः क्वापि तृणावर्तमुखा द्विज ॥८७॥क्वचित्कंटकवृष्टिश्च नाराचमयकंटकैःपाषाणश्रेणयः क्वापि दुःखरोहाः सपन्नगाः ॥८८॥गच्छंति पापिनस्तत्र शुष्ककंठोष्ठतालुकाःएवं बहुविधक्लेशे छायाजलविवर्जिते ॥८९॥तस्मिन्मार्गे द्विजश्रेष्ठ पापिनो यांति दुःखिताःनाम्ना विमुक्तकेशाश्च प्रेताकारा भयंकराः ॥९०॥रुधिरौघप्लुताः केचित्केचित्कर्दमभूषिताःकेचित्केचिच्च कृष्णांगाः पथि गच्छंति पापिनः ॥९१॥क्रंदंतो व्यथया केचित्स्रवद्बाष्पाकुले क्षणाःशोचंतः स्वानि कर्माणि केचिद्गच्छंति पापिनः ॥९२॥कस्यचिच्चर्मपाशस्य बंधनं पापिनां गलेकंकाले कस्यचिद्बद्धाः कस्यचिच्च पदद्वये ॥९३॥गले सूचीसमुत्कीर्णे पाशं दत्वा दृढं रुषाआकृष्यंते यमप्रेष्याः केषांचिच्च कृतैनसाम् ॥९४॥वर्त्मस्थान्गुरुपाषाणान्वहंतः कर्णरन्ध्रकैःअयोभारांश्च शीर्षाग्रैर्व्रजंति पथि पापिनः ॥९५॥कांश्चिद्भुजेषु पाशेषु नयंति यमकिंकराःग्रीवासु पापिनः केचित्करप्रहरणैर्दृढैः ॥९६॥क्षिप्तक्षिप्ता यमप्रेष्या नयंति यमकिंकराःयांत्यधः शिरसः केचिदूर्ध्वपादास्तथापरे ॥९७॥गच्छंति बाहुभिः केचिदेकपादाश्च केचनइत्येवं विकृताकारा आर्तरावविरावणाः ॥९८॥यमदूतैस्ताड्यमानाः पापिनो यांति तत्पथेतेष्वागतेषु सर्वेषु पापात्मा सुरुषा यमः ॥९९दिव्यां मूर्तिं परित्यज्य बभूवात्यंतभैरवः॥त्रिंशद्योजनदीर्घांगो वापीसदृशलोचनः ॥१००॥धूम्रवर्णो महातेजाः प्रलंबो घर्घरध्वनिःसुदीर्घदशनश्रेणिः शूर्पोपम नखावलिः ॥१०१॥प्रचण्डमहिषारूढः संदष्टदशनच्छदःदंडहस्तश्चर्मपाशो भ्रुकुटी कुटिलाननः ॥१०२॥चित्रगुप्तो महामायः क्रोधारुणितलोचनःअट्टाट्टहासं कुर्वाणः समवर्ती विराजते ॥१०३॥चंडाद्याः किंकराः सर्वे पाशमुद्गरपाणयःबभूवुर्भैरवाः क्रुद्धा गर्जंतो जलदा इव ॥१०४॥जहि जह्याशु पापिष्ठान्भिन्धि च्छिंदय विंधयसमंतादेव धावंतो वल्गंति यमकिंकराः ॥१०५॥तानाह पततः सर्वान्पापिनो धर्मराट्प्रभुःतर्जयेत्कालदंडेन त्यजन्हुंकारनिःस्वनम् ॥१०६॥यम उवाच-रेरे पापा दुराचारा युष्माभिरविवेकिभिःअहो कृतानि पापानि आत्मपीडाकराण्यपि ॥१०७॥मस्तकोपरि तिष्ठंतं नेक्षध्वं समवर्तिनम्ज्ञात्वापि मां जीवितेशं युष्माभिः पातकं कृतम् ॥१०८॥पुण्यात्मनामहं बंधुरहं पापात्मनां रिपुःइति कुत्रापि युष्माभिर्न श्रुतं श्रवणैः स्वकैः ॥१०९॥निरया दुःसहाः संति नानादुःखसमन्विताःपापिनो भुंजते तांश्च युष्माभिर्नेति विश्रुतम् ॥११०॥मत्वा मिथ्यैव युष्माभिश्चर्चा मम दुराशयाःअद्य सैव स्वकैर्नेत्रैर्दृश्यतां कृतपातकाः ॥१११॥वित्तांध्येन वचो मत्ता यूयं सर्वे सदैव हिचक्रिरे पापजालानि युष्माभिः सततं यथा ॥११२॥तथा पापफलं दुष्टा भुंजतां क्रंदनेन किम्सुप्राज्ञोवाच-इत्युक्त्वा भास्करिर्देवश्चित्रगुप्तमुवाच ह ॥११३॥एतेषां पापकर्माणि महाभाग विचारयधर्मराजवचः श्रुत्वा चित्रगुप्तो महत्तदा ॥११४॥तेषां यावंति पापानि तावंति प्राह चोदितःततस्ते पापिनः सर्वे क्रंदंति द्विजसत्तम ॥११५॥इत्यूचुः शमनं भीताश्चर्मपाशे नियंत्रिताःपापिन ऊचुःअस्माभिर्यानि पापानि कृतानि भास्करात्मज ॥११६॥के स्थिताः साक्षिणस्तत्र के वा यूयं निवेदिताःअशुभं वा शुभं वापि यतोऽस्माभिः कृतं पुरा ॥११७॥तथा च दृष्टं केनात्र पुरोऽस्माकं निगद्यताम्ततः प्रहस्य भगवान्कोपेन महता द्विज ॥११८॥आहूय साक्षिणः सर्वानिदं वचनमब्रवीत्यम उवाच-यूयं सर्वे यथावृत्तं संनिधौ साक्षिणस्तथा ॥११९॥आकाशं पृथिवीं चैव जलं च तिथयस्तथादिनं रात्रिरुभे संध्ये धर्मश्चैते तु साक्षिणः ॥१२०॥तेषां पापात्मनामूचुः सर्वं कर्मशुभाशुभम्यस्य यस्य च वेलायां कर्म यद्यदिकारितम् ॥१२१॥स स साक्षी तस्य तस्य जगाद यमसन्निधौतच्छ्रुत्वा पापिनः सर्वे साध्वसा कृष्टमानसाः ॥१२२॥सकंपहृदयास्तस्थुर्मेघं दृष्ट्वा मृगा इवततस्तु दंतावलिभिः कुर्वन्कडकडध्वनिम् ॥१२३॥धर्मराट्कालदंडेन ताञ्जघान पृथक्पृथक्ताडिता धर्मराजेन ते सर्वे कृतपातकाः ॥१२४॥क्रंदंति निजकर्माणि शोचंतः प्राप्तसाध्वसाःततस्तान्पापिनः सर्वान्दूताश्चंडादयो रुषा ॥१२५॥नरकेषु यमादेशाद्रौरवादिषु चिक्षिपुःतपने चिक्षिपुः कांश्चिदवीचौ कृतपातकान् ॥१२६॥संघाते कालसूत्रे च महारौरवके तथासंतप्ते वालुकाकुंडे कुंभीपाके तथापरान् ॥१२७॥निरुच्छ्वासे महाघोरे चिक्षिपुश्च प्रमर्द्दनेअसिपत्रवने घोरे नानाभक्षेषु पापिनः ॥१२८॥वैतरण्यां तथा केऽपि चिक्षिपुर्यमकिंकराःघोरे विष्ठाह्रदे कांश्चित्तुषांगारास्थिकंटकैः ॥१२९॥पूर्णे नितांतसंतप्ते चिक्षिपुर्यमकिंकराःपुरीषलेपने चैव पुरीषभोजने तथा ॥१३०॥स्वमांसभोजने चैव स्थापिता यमकिंकरैःश्लेष्माणं भुंजते केचित्केचिद्वीर्यं च भुंजते ॥१३१॥पिबंति केचिन्मूत्राणि केचिद्रक्तानि पापिनःकेषांचिद्वदनेष्वेव जलौकाः पन्नगोपमाः ॥१३२॥पूर्यंते पन्नगाश्चैव यमदूतैर्भयंकरैःउत्पाद्यंतेऽतिसंतप्तैर्जिह्वाश्च द्विजसत्तम ॥१३३॥केषांचित्कर्णरंध्रेषु मुखेषु च कृतैनसाम्तप्ततैलानि पूर्यंते निर्द्दयैर्यमकिंकरैः ॥१३४॥केषांचित्खङ्गधाराभिर्बाहुं च चरणं तथाकर्णादिनासिकाश्चैव च्छिंदंति च दुरात्मनाम् ॥१३५॥शयनं कुर्वते केचिज्ज्वलदंगारसंचयेकेचिन्नाराचतुल्येषु शयनं कंटकेषु च ॥१३६॥कर्दमेषु च तप्तेषु कांश्चिच्छमनकिंकराःपातयंति द्विजश्रेष्ठ केशेष्वाकृष्य पापिनः ॥१३७॥वमनेषु च केषांचिन्नखसंधिषु पापिनाम्तप्तसूचीसहस्राणि प्रक्षिपंति मुहुर्मुहुः ॥१३८॥संतप्तलोहशूलाग्रे कांश्चिदारोपयंति वैक्रंदंति कंटकैस्तीक्ष्णैः केषांचिन्मस्तकानि वै ॥१३९॥गृहीत्वा हस्तपादेषु शाल्मलिद्रुमकंटकैःनिष्कुषंति रुषा कांश्चिदार्त्तरावविराविणः ॥१४०॥बद्ध्वा गलेषु पाषाणं कांश्चिच्छमनकिंकराःरक्तगर्ते पयोगर्ते पातयंति पुनः पुनः ॥१४१॥याम्यैर्दूतैरुद्गिरंति शिरांसि पापिनां नृणाम्चूर्णयंत्युपलैर्याम्या मुहुर्मुहुरतिक्रुधा ॥१४२॥वक्षोमध्येषु केषांचिल्लोहकीलकसंचयान्आरोपयंति लोकानां क्रंदतां दुरितात्मनाम् ॥१४३॥चक्षूंषि बडिशैः केषामुत्पाट्यंते कृतैनसाम्केषांचिन्नासिका एव पूर्य्यंते वृश्चिकैर्द्विज ॥१४४॥केषांचिद्वृक्षशाखायां बद्ध्वा पादांश्च पाशकैःज्वालयंति तले वह्निं सधूमं यमकिंकराः ॥१४५॥धूमपानं प्रकुर्वन्ति ते तत्र कृतकिल्विषाःअधोमुखा ऊर्ध्वपादास्तस्थुराचन्द्र तारकम् ॥१४६॥मुसलैर्मुद्गरैः केचित्ताड्यमानाः पुनः पुनःयाम्यैर्दूतैरुद्गिरन्ति शोणितानि व्यथाकुलाः ॥१४७॥अन्धकारमये गेहे पूतिगन्धवति द्विजदंशैश्च मशकैश्चैव केचित्सीदंति पापिनः ॥१४८॥भस्मानि भुञ्जते केचित्कृमीन्केचिच्च भुञ्जतेकेचिद्दुर्गन्धमांसानि केचिच्च पूतिमृत्तिकाम् ॥१४९॥श्वभिर्व्याघ्रैः शृगालैश्च वज्रदन्तनखैस्तथाऋक्षैः केचिद्भक्ष्यमाणाः क्रंदन्ति रुधिराप्लुताः ॥१५०॥नितांतोग्रविषैः सर्पैर्भक्ष्यमाणास्तथापरेअन्ये महिषशृंगाग्रनिर्भिन्नवक्षसो द्विज ॥१५१॥पतन्ति मूर्च्छिताः पृथ्वीं सिंचंतो रुधिरैर्महीम्यमदूतधनुर्मुक्तैर्घोरैराशीविषोपमैः ॥१५२॥जर्जराखिलदेहाश्च लुठंत्यन्ये महीतलेतप्तायः पिण्डनिलयं तप्तपाषाणमेव च ॥१५३॥दंशशस्त्रेण केषांचित्कुष्णंति वदनेषु चनासारन्ध्रेषु केषांचिद्यमदूता मुखेषु च ॥१५४॥श्वासानिलनिरोधार्थं नासारन्ध्रं वयंति वैकेषांचित्तीक्ष्णधाराभिर्यमशाक्तिभिरुद्धतैः ॥१५५॥उत्पाट्यंतेंगचर्माणि यमदूतैर्महाबलैःकांश्चिद्गृहीत्वा केशेषु निपात्य पृथिवीतले ॥१५६॥कीलैः पादादिभिर्घातैस्ताडयंति सदैव हिकेचित्क्षारांबुधाराभिः संतप्ताः कृतपातकाः ॥१५७॥क्षारांबुपानं कुर्वंति क्रंदंतो बहुधा द्विजपित्तपानं महाभाग केचित्कुर्वन्ति पापिनः ॥१५८॥स्नुहीक्षीराणि केचिच्च पिबंति पापिनां वराःकेषांचित्स्वपतां भूमौ वक्षःसु यमकिंकरैः ॥१५९॥दीयंते गुरुपाषाणाः संतप्ताः पर्वतोपमाःकाष्ठखंडद्वयं दत्वा ग्रीवायां च गले तथा ॥१६०॥उदग्रमुखं बध्नन्ति केषांचिद्दृढपाशकैःआरोप्य वृक्षशाखायां कांश्चिद्भूमौ क्षिपंति च ॥१६१॥उत्थापयंति भूमौ च प्रक्षिपंति पुनः पुनःएवं ते पापिनः सर्वे क्षुधितास्तृषितास्तथा ॥१६२॥त्राहि त्राहीति जल्पंतो रुदंति यातनागृहेयुगकल्पांतपर्यंतं भुक्त्वा निरययातनाम् ॥१६३॥नातिभुक्त्वा पापशेषे जायंते पापयोनिषुपापयोनौ समुत्पन्ना भवंति व्याधिपीडिताः ॥१६४॥हीनांगा अधिकांगाश्च दुःखिनः पापसेवकाःअपुत्रा अतिमूर्खाश्च परहिंसापरायणाः ॥१६५॥अल्पायुषोऽल्पमतयः कुभार्यापतयस्तथानित्यं पापानि कर्माणि कर्मणा मनसा गिरा ॥१६६॥पुनः पापप्रभावेन निरयं यांति पूर्ववत्तस्मात्पापं न कर्तव्यं कदाचिदपि सत्तमैः ॥१६७॥नराणां कृतपापानां नरकान्नास्ति निष्कृतिःसंक्षेपात्पापिनां दुःखं निरुक्तं द्विजसत्तम ॥१६८॥सम्यग्वक्तुं कः क्षमोस्ति वर्षायुतशतैरपिदुर्गतीनां ततो दृष्ट्वा मनुजानां कृतैनसाम् ॥१६९॥आवां विमानमारुह्य नारायणपुरं गतौकल्पकोटिसहस्राणि भुक्त्वा भोगान्हरेर्गृहे ॥१७०॥जातौ वै राजवंशेऽस्मिन्विशुद्धे द्विजसत्तमअत्र भुक्त्वाखिलान्भोगान्सर्वसंपत्समन्वितान् ॥१७१॥सुखमृत्युं समासाद्य गंतव्यं परमं पदम्एकादशीव्रतसमं व्रतं नास्ति जगत्त्रये ॥१७२॥अनिच्छयापि यत्कृत्वा गतिरेवंविधाऽवयोःएकादशीव्रतं ये तु भक्तिभावेन कुर्वते ॥१७३॥न जाने किं भवेत्तेषां वासुदेवानुकम्पयाइति ते कथितं सर्वं पृष्टं ब्राह्मणसत्तम ॥१७४॥विष्णोर्दिवसमाहात्म्यं किमन्यच्छ्रोतुमर्हसिव्यास उवाच-तस्यैतद्वचनं श्रुत्वा स विप्रः परमार्थवित् ॥१७५॥एकादशीव्रते चित्तं चकार सुदृढं निजम्स राजा राजमहिषी चिरं भुक्त्वा वसुंधराम् ॥१७६॥अंते विष्णुपुरं गत्वा प्राप्तवंतौ परं पदम्व्रतराजस्य माहात्म्यं ये शृण्वंति पठंति च ॥१७७॥पापजालैर्विनिर्मुक्ता लभंते हरिसन्निधौ ॥१७८॥इति श्रीपद्मपुराणे क्रियायोगसारे एकादशीमाहात्म्ये त्रयोविंशतितमोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP