क्रियाखण्डः - अध्यायः १

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


लक्ष्मीनाथपदारविंदयुगलं
ब्रह्मेश्वराद्यामरश्रेणीनम्रशिरोलिरोलिमा अमलं वंदामहे संततम्
भक्त्या योगिमनस्तडागसुषमासंदोहपुष्यत्तमं गङ्गाम्भोमकरं दविन्दुनिकरं संसारदुःखापहम् ॥१॥
यो मूर्तीर्बहुधा विधाय भगवान्रक्षन्नशेषं जगद्यत्पादार्चनतत्परा न हि पुनर्मज्जंति विश्वार्णवे
सर्वप्राणिहृदंबुजेषु वसतिर्यस्य प्रभोः संततं रम्यक्रोडवपुर्धराय हरये देवाय तस्मै नमः ॥२॥
वेदेभ्य उद्धृत्य समस्तधर्मान्योऽयं पुराणेषु जगाद देवः
व्यासस्वरूपेण जगद्धिताय वंदेतमेतं कमला समेतम् ॥३॥
एकदा मुनयः सर्वे सर्वलोकहितैषिणः
सुरम्ये नैमिषारण्ये गोष्ठींचक्रुर्मनोरमाम् ॥४॥
तत्रांतरे महातेजा व्यासशिष्यो महायशाः
सूतः शिष्यगणैर्युक्तः समायातो हरिं स्मरन् ॥५॥
तमायांतं समालोक्य सूतं शास्त्रार्थपारगम्
नेमुः सर्वे समुत्थाय शौनकाद्यास्तपोधनाः ॥६॥
सोऽपि तान्सहसा भक्त्या मुनीन्परमवैष्णवान्
ननाम दंडवद्भूमौ सर्वधर्मविदांवरः ॥७॥
वरासने महाबुद्धिस्तैर्द्दत्ते मुनिसत्तमैः
उवास ह मुनिर्मध्ये सर्वैः शिष्यगणैर्वृतः ॥८॥
तत्रोपविष्टं तं सूतं शौनको मुनिसत्तमः
बद्धाञ्जलिरिमां वाचमुवाच विनयान्वितः ॥९॥
शौनक उवाच-
महर्षे सूत सर्वज्ञ कलिकाले समागते
केनोपायेन भगवन्भूरिभक्तिर्भवेन्नृणाम् ॥१०॥
कलौ सर्वे भविष्यंति पापकर्मरता जनाः
वेदविद्याविहीनाश्च तेषां श्रेयः कथं भवेत् ॥११॥
कलावन्नगताः प्राणा लोकाः स्वल्पायुषस्तथा
निर्धनाश्च भविष्यंति नानादुःखप्रपीडिताः ॥१२॥
प्रयाससाध्यं सुकृतं शास्त्रेषु क्रियते द्विज
तस्मात्केऽपि करिष्यंति कलौ न सुकृतं जनाः ॥१३॥
सुकृतेषु विनष्टेषु प्रवृत्ते पापकर्मणि
सवंशाः प्रलयं सर्वे गमिष्यंति दुराशयाः ॥१४॥
स्वल्पश्रमैरल्पवित्तैरल्पकालैश्च सत्तम
यथा भवेन्महापुण्यं तद्वै कथय सूतज ॥१५॥
यस्योपदेशतः पुण्यं पापं वा कुर्वते जनाः
स तद्भागी भवेन्मर्त्य इति शास्त्रेषु निश्चितम् ॥१६॥
पुण्योपदेशः सदयः कैतवैश्च विवर्जितः
पापमार्गविरोधी च चत्वारः केशवोपमाः ॥१७॥
ज्ञानं संप्राप्य संसारे यः परेभ्यो न यच्छति
ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते ॥१८॥
ज्ञानरत्नैश्च रत्नैश्च परसंतोषकृन्नरः
स ज्ञेयः सुमतिर्नूनं नररूपधरो हरिः ॥१९॥
त्वमेव मुनिशार्दूल वेदवेदाङ्गपारगः
त्वदृते न हि वक्ताऽन्यो यतस्त्वं व्यासशासितः ॥२०॥
सूत उवाच-
धन्योऽसि त्वं मुनिश्रेष्ठ त्वमेव वैष्णवाग्रणीः
यतः समस्तलोकानां हितं वाञ्छसि सर्वदा ॥२१॥
शृणु शौनक वक्ष्यामि यत्त्वया श्रोतुमिच्छितम्
सर्वलोकहितार्थाय वैष्णवानां विशेषतः ॥२२॥
पृष्टो जैमिनिना सर्वं यदुवाच शृणुष्व तत्
महर्षिर्जैमिनिर्नाम योगाभ्यासरतः सदा ॥२३॥
प्रणम्य शिरसा व्यासं पप्रच्छ मुनिसत्तमः
जैमिनिरुवाच-
भगवन्सर्वधर्मज्ञ व्यास सत्यवती सुत ॥२४॥
कलौ कस्माद्भवेन्मोक्षस्तन्ममाचक्ष्व मूलतः
सूत उवाच-
जैमिनेर्वचनं श्रुत्वा व्यासः संतुष्टमानसः ॥२५॥
प्रारेभे मुनिशार्दूल कथां मंगलसंयुताम्
व्यास उवाच-
जैमिने मुनिशार्दूल धन्योऽसि त्वं महामते ॥२६॥
नारायणकथां श्रोतुं यतो वांछसि सर्वदा
सत्कथाश्रवणे बुद्धिर्यस्य यस्य प्रवर्तते ॥२७॥
तस्य तस्य भवेज्ज्ञानं ज्ञानं मोक्षप्रदं विदुः
न वैष्णवकथा यस्मै रोचते पापिने भुवि ॥२८॥
वृथैव सृष्ट्वा विधिना भूमिर्भारवती कृता
कथायै जगती वक्तुं श्लाघ्यते वैष्णवैर्जनैः ॥२९॥
तां मिथ्यामिव यो वक्ति स ज्ञेयः पापिनां वरः
यस्मिन्दिने मुनिश्रेष्ठ श्रूयते न हरेः कथा ॥३०॥
तद्दिनं दुर्दिनं मन्ये घनच्छन्नं न दुर्दिनम्
यत्र यत्र महीभागे वैष्णवी वर्तते कथा ॥३१॥
सांनिध्यं तत्र भगवान्न जहाति कदाचन
यो वैष्णवकथारम्भे विघ्नकृन्मानवो भवेत् ॥३२॥
तमेव शप्त्वा भगवान्दैवतैः सह गच्छति
प्रभावं वासुदेवस्य श्रुत्वा हृष्यंति ये जनाः ॥३३॥
ज्ञेयास्त एव देवांशाः पूज्या दृश्याश्च सत्तमाः
नारायणप्रभावं ये श्रुत्वा चोपहसंति वै ॥३४॥
ते विज्ञेया दानवांशा नरा नरकभागिनः
तत्र तीर्थानि सर्वाणि गङ्गादीनि द्विजोत्तम ॥३५॥
देवर्षयश्च देवाश्च मुनयश्च तपोधनाः
शृण्वतां लोकसंघानां पापव्याधिविनाशनी ॥३६॥
नारायणकथा यत्र वर्तते प्रतिवासरम्
मुने क्रियायोगसारं बह्वर्थं पापनाशनम् ॥३७॥
नारायणकथोपेतं सेतिहासं निशामय ॥३८॥

इति श्रीपाद्मे महापुराणे क्रियायोगसारे जैमिनिव्याससंवादे प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : October 31, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP