संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः ६ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः ६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ६ Translation - भाषांतर राजोवाच-तिष्ठात्रैव महाबाहो मम राज्ये सुशोभनेकर्तव्या ते मया वृत्तिः संशयो नात्र विद्यते ॥१॥ततो वीरवरस्तस्य सन्निधौ धरणीपतेःउवास सततं विप्र तत्सेवा गतमानसः ॥२॥अथैकदा तस्य पुरे जैमिने सकलाः प्रजाःभीमनादो नाम खड्गः क्षोभयामास संततम् ॥३॥तद्वधाय ततो राजा प्रेषयामास तं रुषाततोऽसौ गंडकं हंतु ययौ वीरवरो जनैः ॥४॥ददर्श पर्वताकारं सुप्तं तं धरणीतलेदंष्ट्राकरालवदनं खड्गिनं तं सशक्तिधृक् ॥५॥नभसि भ्रामयन्सप्तिं स च वीरवरो रुषाखड्गिनं तमिति प्राह मेघगंभीरया गिरा ॥६॥उपार्जितास्त्वया ये ये दुरात्मन्पापपादपाःबभूवुः फलिनस्ते ते ऋतुं प्राप्य यथा द्रुमाः ॥७॥खादिताः प्राणिनो ये ये राज्येऽस्मिन्पापिना त्वयायमालये समस्तैस्तैर्दर्शनं ते भविष्यति ॥८॥मुंच निद्रामरे दुष्ट मां पश्यान्तकरं निजम्अनया निद्रया किन्ते महानिद्र भविष्यति ॥९॥ततः सोऽपि समुत्तस्थौ क्रोधसंरक्तलोचनःधूलिधूसरसर्वाङ्गस्त्यक्तनिद्रो महाबलः ॥१०॥भीमनाद उवाच-गर्वं मा कुरु दुर्बुद्धे तवायुः शेषतां गतम्तत्संदर्शनमात्रेण प्राप्तः कोनु विमुच्यते ॥११॥ज्वलदग्निशिखाश्रेणीं प्रविशेच्छलभो यथामत्कोपानलराशौ त्वं तथैव निपतिष्यसि ॥१२॥इति ब्रुवंतं तं द्रष्टुं शक्त्या निशितया तयास जज्वाल महाकोपात्कृत्वा हुंकारनिःस्वनम् ॥१३॥स पपात महीपृष्ठे गतायुर्गंडकस्ततःचालयन्पृथिवीं सर्वां स्वनितौघ परिप्लुतः ॥१४॥खड्गिनं पतितं दृष्ट्वा गङ्गाब्धिरोधसि द्विजसमीपं तस्य भूपस्य स गंतुमुपचक्रमे ॥१५॥स गच्छन्पथिविप्रर्षे ददर्शैकं महाशयम्जाज्वल्यमानं तेजोभिर्द्वितीयमिव भास्करम् ॥१६॥विष्णुदूतगणैर्युक्तं तुलसीमाल्यभूषितम्दिव्याम्बरधरं दिव्यं रथारूढं स्मिताननम् ॥१७॥पप्रच्छेति ततो भक्त्या स च वीरवरश्च तम्कस्त्वं कुत इहायातः क्व गच्छसि वदस्व नः ॥१८॥पुरुष उवाच-कन्येविधृतपुंवेशे मद्वृत्तांतं निशामयकथयामि समासेन श्रोतुमिच्छसि चेन्मुदा ॥१९॥अहमासं पुरा राजा चौरवंशवनानलःधर्मबुद्धिरिति ख्यातः सर्वधर्मपरायणः ॥२०॥मया यज्ञाः कृताः सर्वे दानानि सकलानि चचतुर्वर्षसहस्राणि पालिता च वसुन्धरा ॥२१॥पाखण्डजनवाक्येन मया भूमिर्द्विजन्मनःलंघिता कोपमासाद्य दोषिता न हि कुत्रचित् ॥२२॥मया तेनापराधेन स्वयमेव विधिस्ततःजहार तत्क्षणादेव सर्वां राजश्रियं रुषा ॥२३॥अथाहं गतसंपत्तिः शोकाग्निदग्धमानसःकियिद्भिर्दिवसैः साध्वि यमराजवशं गतः ॥२४॥मां दृष्ट्वा चित्रगुप्तेन तत्कर्मप्रकटीकृतम्उक्तश्च भास्करिर्देवश्चारुहासगतिः प्रभुः ॥२५॥धर्मबुद्धिरयं राजा कृतपुण्यक्रियः सदाअस्त्यस्य दुरितं किञ्चित्तन्निशामय वच्म्यहम् ॥२६॥पाखण्डैर्बोधितोऽयं तु जहार द्विजशासनम्तेनैव कर्मणा स्थानं नरके चास्यदुत्तरे ॥२७॥वृत्तिच्छेदः सूर्यपुत्र यस्य येन विधीयतेस तस्य वधमाप्नोति शास्त्रेषु इति निश्चितम् ॥२८॥तस्मादयं पापकर्मा ब्रह्महा पृथिवीपतिःएतस्य निरये स्थानं कल्पकोटिशतावधि ॥२९॥आत्मदत्तां हरेद्यस्तु परदत्तां च मेदिनीम्स कोटिकुलसंयुक्तः प्रयाति नरकं विभो ॥३०॥यो हरेच्च महीं तावद्देवस्य ब्राह्मणस्य चन तस्य निष्कृतिर्दृष्टा कल्पकोटिशतावधि ॥३१॥परदत्तां क्षितिं यस्तु रक्षितुर्यस्तु रक्षतिस कोटिगुणमाप्नोति पुण्यं दातृगुणादपि ॥३२॥ततोऽहं शमनादेशाद्भुक्त्वा वै पूतिमृत्तिकाम्कल्पयोनौ प्राणिहिंसा सर्वदैव मया कृता ॥३३॥गावश्च ब्राह्मणाश्चैव तथैवान्येऽपि जीविनःमया दुष्टेन निहताः कोटिकोटिसहस्रशः ॥३४॥कालेन प्रेरिता साध्वि मां सर्वक्षयिताश्रयम्खड्गयोनिं समुत्पन्नं भवती प्रजघान ह ॥३५॥गङ्गाब्धिसङ्गमं तीर्थं दुर्ल्लभं दैवतैरपिस्थलेऽपि मृत्युमासाद्य यत्रेयं मम सद्गतिः ॥३६॥गच्छ सुश्रोणि भद्रं ते भविष्यति न संशयःअचिरेणैव पतिना दर्शनं ते भविष्यति ॥३७॥व्यास उवाच-तस्यैतद्वचनं श्रुत्वा सा कन्या परमाद्भुतम्ववंदे चरणौ तस्य धर्मबुद्धिर्महीपतिः ॥३८॥ततो रथं समारुह्य स राजा त्रिदिवं ययौसोऽपि वीरवरो विप्र जगाम नृपतेः सभाम् ॥३९॥राजा च तं मृतं श्रुत्वा खड्गिनं भीमविक्रमम्तस्यै ददौ विवाहेन जयंतीं निजकन्यकाम् ॥४०॥जयंतीं तां समादाय सा कन्या पुरुषाकृतिःतपस्तप्तुं मनश्चक्रे गङ्गासागरसङ्गमे ॥४१॥गङ्गाब्धिसंगमे स्नात्वा प्रभाते द्विजसत्तमगीतैर्वाद्यैश्च नृत्यैश्च यजेन्नारायणं प्रभुम् ॥४२॥निरामिषं हविष्यं च फलाहारं द्विजोत्तमकदाचिदुपवासं सा कुरुते च वराङ्गना ॥४३॥एकाकिनीं समालोक्य कोऽग्रहीदत्र भूतलेमां नीचमिति मत्वासौ समारुह्य च वाजिनम् ॥४४॥भूय एव निजं राज्यं साजगाम वराङ्गनामाधवस्य वियोगेन तस्य विद्याधरस्य वा ॥४५॥मृता सा राजतनया यतोऽन्यं न भजत्यपितस्यां मृतायां भृत्योऽसौ निर्जगाम यदृच्छया ॥४६॥विलप्य बहुधा तत्र प्रचेष्टोऽत्यंत शोकभाक्जगाम मरणार्थाय गङ्गासागरसङ्गमम् ॥४७॥गङ्गाब्धिसङ्गमे स्नात्वा तुलसीमृद्विभूषितःकृताञ्जलिरिति प्राह प्रचेष्टो भीष्ममातरम् ॥४८॥पवित्रे त्वज्जले मातस्त्यजाम्यत्र कलेवरम्सुलोचना मे कांतास्याद्यथातत्त्वं करिष्यसि ॥४९॥भूयोभूयो ब्रुवंतं तमिति तस्याश्च किंकराःबध्वा पाशेन तं निन्युर्निरुक्तां तत्सभां प्रति ॥५०॥ तप्ता वीरवरादेशात्किंकरास्ते सुदारुणाःकारायां स्थापयामासुः प्रचेष्टमनुविह्वलम् ॥५१॥एतस्मिन्नेव काले तु दृष्ट्वा तत्कार्यमद्भुतम्हाहाकारो महानासीत्तद्राज्ये द्विजसत्तम ॥५२एतच्छ्रुत्वाद्भुतं कर्म स च राजा गुणाकरःआयातोऽत्यंत संतप्तो वदतीति द्विजोत्तम ॥५३॥निषंगिणश्च रथिनश्चर्मिणः खड्गिनस्तथाधानुष्काश्च कौंतकाश्च कोटिकोटिसहस्रशः ॥५४॥स्थाने स्थाने पुरे तस्मिन्राजा वै शोकविह्वलःनियोजयामास तदा रक्षायै द्विजसत्तम ॥५५॥तेनाज्ञप्तास्ततः सर्वे योद्धारोऽमितविक्रमाःसत्वराः पतिरक्षासु तस्थुस्तस्मिन्पुरे रुषा ॥५६॥गीतानि गायकैः सर्वैर्नृत्यानि नर्तकैस्तथावाद्यानि वादकैश्चैव तत्र त्यक्तानि साध्वसैः ॥५७॥ततः स राजा विप्रर्षे समाहूय स्वमंत्रिणःकिमेतदिति पप्रच्छ शोकोपहतमानसः ॥५८॥मंत्रिण ऊचुः-देवाद्भुतमिदं कर्म न दृष्टं न श्रुतं क्वचित्एतावतां नृणां मध्ये पश्यतां क्व जगाम सा ॥५९॥कोऽपि जल्पति सा लक्ष्मीः शापेनागत्य भूतलेत्वदीयं सौधमेतर्हि स्वयमंतरधीयत ॥६०॥मायामयी सा रमणी मायया त्वद्गृहे स्थितामायां स्वकीयां दर्शित्वा गतेत्यन्ये वदंति वै ॥६१॥केचिद्वदंति रमणी सर्वलक्षणसंयुताआगमिष्यति भूयोऽपि भगाङ्गो मघवा यतः ॥६२॥तन्मुखंचन्द्रवन्मत्वा विचिंत्यात्मानमात्मनाकेचिद्वदंति चन्द्रेण नीता सुप्रतिपत्तये ॥६३॥वदंति केऽपि सा कन्या सद्गुणा दीर्घवासनाभ्रान्त्या चन्द्रमसा ग्रस्ता पूर्णचंद्रनिभानना ॥६४॥दिग्गजैर्नलिनी भ्रान्त्या प्रफुल्लकमलाननाविषदण्डप्रहस्ता च नीरजा कलिकाकुचा ॥६५॥केचिद्वदंति सृष्ट्वा सा स्रष्टुमन्यां स्त्रियं नृपंतद्रूपादर्शनालोक्ये नीता रूपगुणास्थिता ॥६६॥केचिद्वदंति भूपाल त्वया सर्वदिशो जिताःरूपैर्दैवांगना जेतुं गता सा त्रिदिवं प्रति ॥६७॥अथ ते मंत्रिणोऽन्योन्यमालोक्येति मुखश्रियःस्तब्धा इवाभवन्सर्वे निरुत्साहाः ससाध्वसाः ॥६८॥भूपः सुलोचने पुत्रि क्व गतासि विहाय माम्इत्युक्त्वा स महीपालः पृथिव्यां मूर्च्छितोऽपतत् ॥६९॥राजानं पतितं दृष्ट्वा शोकेन महता ततःजज्ञे हाहारवस्तस्मिन्नगरे द्विजसत्तम ॥७०॥तत्क्रंदनध्वनिं विप्र प्रतिश्रुत्वा च जायतेउत्प्रेक्षते तत्र लोके क्रंदंति ककुभो दश ॥७१॥धूलिधूसरतां गंतुं नृपतिं मुक्तकेशकम्विधृत्य मंत्रिणः सर्वे तरसा सौधमाययुः ॥७२॥अथ विद्याधरस्तत्र श्रीविक्रमदेवजःतस्याः पीठं समालिङ्ग्य रुरोद करुणस्वनैः ॥७३॥हा प्रिये चंचलापाङ्गि सुवर्णकुसुमप्रभेशोकाब्धौ पातयित्वा मां क्व गतासि वरानने ॥७४॥मम किं दूषणं दृष्टं त्वया निर्दोषया प्रियेन ददासि कथं भद्रे दर्शनं कमलानने ॥७५॥न जीविष्याम्यंहं भद्रे क्षणमात्रं त्वया विनाअतो मे दर्शनं दत्वा क्रियतां प्राणरक्षणम् ॥७६॥किं धनैः किं जनैः किं मे मित्रैः किं वा धनैर्गृहैःनाप्नोमि यदि भद्रे त्वां प्राणेभ्योऽपि गरीयसीम् ॥७७॥एतच्चान्यच्च विप्रर्षे स कृत्वा करुणं महत्शोकान्मृत्युं विनिश्चिंत्य ययौ गङ्गाब्धिसङ्गमम् ॥७८॥तत्र गङ्गाम्भसि स्नात्वा समुद्रजलमिश्रितेनिवेद्य भास्करायार्घं गंगां नत्वाह मातरम् ॥७९॥गंङ्गे देवि जगन्मातस्त्वज्जले विमले तनुम्त्यजामि तां यथा भूयः प्राप्नोमि तत्करिष्यसि ॥८०॥इति ब्रुवंतं तं विप्र तत्किंकरवरास्ततःविधिं विनिन्युः सदृशं क्रुद्धा वीरवरस्य च ॥८१॥ततो वीरवरः प्राह कस्त्वं भोः कुत आगतःकथमत्र तनुत्यागं कुरुषे तद्वदस्व मे ॥८२॥तद्वाक्यमेतदाकर्ण्य ततो विद्याधरोऽखिलाम्तां कथां कथयामास शृण्वतां विस्मयप्रदाम् ॥८३॥अथ त्वं मूर्खलोकानां प्रवरोसि न संशयःगान्धर्वी राक्षसी वापि पन्नगी वापि किन्नरी ॥८४॥शापागतेव सा कन्या तस्मादन्तर्हिता स्वयम्सा देवरूपिणी कन्या देवानां निलयं गता ॥८५॥कथं तया समं भूयो दर्शनं ते भविष्यतिचकोरपेयं पीयूषं गगने रोहिणीपतेः ॥८६॥किं शक्नुवंति तं पापा वायसा बलिनोऽपि चयदप्राप्यं न तत्प्राप्यं प्राप्यं यत्तच्च लभ्यते ॥८७॥जानंति तज्जनं कश्चिन्मोहं प्रति न गच्छतिकेनापि दीयते कन्या कन्या केनापि गृह्यते ॥८८॥पूर्वजन्मनि या कन्या तां कन्यां लभते पतिःपुत्रप्रयोजना भार्या पुत्राः पिण्डप्रयोजनाः ॥८९॥कुर्वंति दारग्रहणमतएव मनीषिणःयथेह दीयते नार्या तथा नारी समश्नुते ॥९०॥क्रंदन्रजन्यामप्येष भृङ्गः कुमुदिनीं सहेत्सद्रूपोऽपि पतिः स्त्रीणां संतोषाय भवेन्नहि ॥९१॥रवौ स्थितेऽपि पद्मिन्या मधूनि भ्रमरः पिबेत्नारीषु सततं चित्तं विष्णुभक्तिष्वनादरः ॥९२॥शोकैः कैश्चित्तनुत्यागस्तिस्रः पुंसां विडंबनाःदाराः पुत्रास्तथा भ्राता देशाश्च बांधवास्तथा ॥९३॥पुनर्लभ्या इमे सर्वे पुनर्लभ्या न चासवःन मुक्तो विषयो धर्मो न च कर्म कृतं त्वया ॥९४॥वर्तमाने गते मूढ भविष्यं जन्म दुर्ल्लभम्मम माता मम पिता भार्या भ्राता धनं मम ॥९५॥निष्फलं याति वै जन्म नृणां ममतया तयाएवं प्रबोधितः सम्यक्तेन धीरवरेण सः ॥९६॥दौर्मनस्यं परित्यज्य तस्थौ तत्रैव जैमिनेततस्तु गन्धिनी प्रीत्या हसंती स्वगृहं गता ॥९७॥गत्वा च माधवं मंचे स्वपंतं सा ददर्श हगन्धिन्युवाच-उत्तिष्ठोत्तिष्ठ दुर्बुद्धे भ्रमस्ते विफलोऽभवत् ॥९८॥विवाहकाले सा कन्या बभूवांतर्हिता स्वयम्एवं तस्या वचः श्रुत्वा समुत्तस्थौ स माधवः ॥९९॥विललापाकुलः शोकैर्महद्भिः क्ष्मातले लुठन्कन्याया दूषणं नास्ति नास्ति विद्याधरस्य वा ॥१००॥ इति श्रीपद्मपुराणे क्रियायोगसारे षष्ठमोऽध्यायः ॥६॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP