संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|क्रियाखण्डः| अध्यायः ११ क्रियाखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ क्रियाखण्डः - अध्यायः ११ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११ Translation - भाषांतर व्यास उवाच-जैमिने विधिना येन पूजितव्यो हरिः सदातमहं वच्मि विप्रर्षे शृणु वत्स समाहितः ॥१॥कल्य उत्थाय पर्यंकाद्गृहीत्वा पात्रमंभसाम्बहिर्देशं व्रजेत्प्राज्ञः शीर्षमाच्छाद्य वाससा ॥२॥तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोःकृत्वोपविष्टः प्राज्ञस्तु मलमूत्रं विसर्जयेत् ॥३॥देवतायतने मार्गे गोष्ठेषु चत्वरेषु चरथ्यायां कृष्टभूमौ च दर्भमूले तथांगणे ॥४॥तटिनी पुलिने चैत्त्यवृक्षमूले तथा वनेतडागवापीगर्भेषु मलमूत्रं च न त्यजेत् ॥५॥रविं चंद्रमसं चैव द्विजान्गाश्च दिशो दशमलमूत्रं त्यजेद्यावत्तावत्प्राज्ञो न पश्यति ॥६॥खनितां मूषिकाद्यैश्च बिलाभ्यंतरवर्तिनीम्फालकृष्टां मृदं चैव न गृह्णीयाच्छौचहेतवे ॥७॥जलाज्जलं समानीय शौचं कुर्याद्विचक्षणःपादं जलेषु वै दत्वा न शौचं कुरुते बुधः ॥८॥दक्षिणाभिमुखो रात्रौ कुर्यात्प्राज्ञो बहिःक्रियाम्शिरः प्रावृत्य वस्त्रेण ततः शौचं समाचरेत् ॥९॥मृत्तिकैका प्रदातव्या लिंगे तिस्रस्तु वै गुदेसप्त सव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश ॥१०॥पादयोः षट्प्रदातव्या मृत्तिका च विचक्षणैःकृतशौचक्रियः प्राज्ञः कुर्याद्दंतस्य धावनम् ॥११॥जिह्वपामार्जनं चैव दशनाच्छादनादिभिःदक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा ॥१२॥न दंतधावनं कुर्यात्कुर्याच्चेन्नारकी भवेत्मध्यमानामिकाभ्यां च वृद्धांगुष्ठेन च द्विज ॥१३॥दंतस्य धावनं कुर्यान्न तर्जन्या कदाचनअश्वत्थवटवृक्षाणां धात्र्या कैथिकया बुधः ॥१४॥न दंतधावनं कुर्यात्तथेंद्रस्यसुरस्य चनित्यं क्रियाफलं तस्य सर्वमेव विनश्यति ॥१५॥यः स्नानसमये कुर्याज्जैमिने दंतधावनम्निराशाः पितरो यांति तस्य देवाः सुरर्षयः ॥१६॥दंतस्य धावनं कुर्याद्यो मध्याह्नापराह्णयोःतस्य पूजां न गृह्णंति देवताः पितरो जलम् ॥१७॥स्नानकाले पुष्करिण्यां यः कुर्याद्दंतधावनम्ततो ज्ञेयः स चांडालो यावद्गंगां न पश्यति ॥१८॥भगवत्युदिते सूर्ये यः कुर्याद्दंतधावनम्तद्दंतकाष्ठं पितरो भुक्त्वा गच्छंति दुःखिनः ॥१९॥उपवासदिने विप्र पितृश्राद्धदिने तथान तत्फलमवाप्नोति दंतधावनकृन्नरः ॥२०॥प्रभाते मार्जयेद्दंतान्वाससा रसनां तथाकुर्याद्द्वादश विप्रेंद्र कल्लोलानि जलैर्बुधः ॥२१॥उपवासे पितृश्राद्धे विधिनाऽनेन जैमिनेदंतधावनकृन्मर्त्यः संपूर्णं लभते फलम् ॥२२॥अनेन विधिना कृत्वा दीर्घदर्शी बहिः क्रियाम्ततो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेत् ॥२३॥ततो देवगृहद्वारे चोपविष्टो बुधः शुचिःस्मरेन्नारायणं देवमनंतं परमेश्वरम् ॥२४॥रामश्यामतनो विष्णो नारायण दयामयजनार्दन जगद्धाम पापं मे हर केशव ॥२५॥पीतांबरधरानंत पद्मनाभ जगन्मयवामन प्रणतस्येश विभो त्वं शरणं भव ॥२६॥दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णवकमलेक्षण देवेंद्र वासुदेव कृपां कुरु ॥२७॥गरुडध्वज गोविंद विश्वंभर गदाधरशंखपाणे चक्रपाणे पद्महस्त हरापदः ॥२८॥लक्ष्मीविलास वैकुंठ हृषीकेश सुरोत्तमपुरुषोत्तम कंसारे कैटभारे भयं हर ॥२९॥श्रीपते श्रीधर विभो श्रीद श्रीकर माधवपरंब्रह्म परंधाम शरणं मे भवाव्यय ॥३०॥इत्थं कृत्वा द्विजश्रेष्ठ श्रीविष्णुस्मरणं बुधःबद्धांजलिरिति ब्रूते प्रविश्य निलयं गतः ॥३१॥ईश्वर श्रीपते कृष्ण देवकीनंदन प्रभोनिद्रां मुंच जगन्नाथ प्रभातसमयोऽभवत् ॥३२॥अथोस्थितमिव प्राज्ञः पर्यंके देवकीसुतम्निद्रां त्यक्त्वा सलक्ष्मीकं चिंतयेन्निज चेतसा ॥३३॥ततः कृतच्छदं दिव्यं पात्रं च जलपूरितम्मुखप्रक्षालनार्थाय दद्यात्कृष्णाय वैष्णवः ॥३४॥ईश्वरं वर्तनार्थाय सेवंते सेवका यथातथैव मतिमंतोपि सेवंते परमेश्वरम् ॥३५॥यस्तु सेवकरूपेण सेवते जगदीश्वरम्अचिरेणैव विप्रर्षे तस्य सिध्यति वांछितम् ॥३६॥यथेश्वरस्य सभयाः सेवां कुर्वंति चेटकाःप्राज्ञास्तथैव सेवंते सर्वदैव हरिं प्रभुम् ॥३७॥निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरःकुसेवकः स एवास्ति तदा नहि भवेद्द्विज ॥३८॥अतएव द्विजश्रेष्ठ त्वरया कमलापतेःकर्त्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना ॥३९॥निर्माल्यं रात्रिवस्त्रं च गंधं पर्युषितं तथाहरेरुत्तारयेदंगात्प्रभाते वैष्णवो जनः ॥४०॥ततो देवालये तस्मिन्स्वयमेव हि मार्जयेत्कुर्याच्छनैःशनैः प्राज्ञः संमार्जन्या परिष्क्रियाम् ॥४१॥यावंतो निलयात्तस्माद्गच्छंति रेणवो बहिःतावन्मन्वंतरशतं तिष्ठेद्विष्णुगृहे नरः ॥४२॥यस्तु संमार्जनं कुर्याद्ब्रह्महापि हरेर्गृहेसोपि याति परं धाम किमन्यैर्बहुभाषितैः ॥४३॥तथोपलेपनं कुर्यादूर्णकैर्गोमयैर्द्विजतस्मिन्विष्णुगृहे प्राज्ञः स्मरेन्नारायणं प्रभुम् ॥४४॥यस्तूपलेपनं कुर्यात्केशवस्य च मंदिरेतस्य पुण्यमहं वच्मि संक्षेपाच्छृणु जैमिने ॥४५॥रजांसि तत्र यावंति विनश्यंति द्विजोत्तमतावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी ॥४६॥संमार्जनं विष्णुगृहे जनः कृत्वोपलेपनम्लभते परमं धाम किं पूजाफलवित्प्रभोः ॥४७॥देव राज विरोधेन न शक्नोति यदा स्वयम्तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेत् ॥४८॥अथवा तनयं भक्तं सुचरित्रं तथात्मनःभ्रातरं भगिनीं वापि देवागारे नियोजयेत् ॥४९॥हरेः सपर्यावस्तूनि सप्तधा शुद्धवारिभिःप्रक्षालयेत्त्रिधा वापि स्वयमेवातियत्नतः ॥५०॥अम्लेन ताम्रपात्राणि कांस्यपात्राणि भस्मनावह्निना लोहपात्राणि शुध्यंति नात्र संशयः ॥५१॥धनाढ्यो लोहपात्रस्थैर्यः स्नापयति वारिभिःनारायणं जगन्नाथं तस्य तुष्टो न केशवः ॥५२॥अज्ञानाद्वापि चेत्तर्हि गंगास्नानेन शुद्ध्यतिसंपदि ब्राह्मणश्रेष्ठ कर्त्तव्यो नियमः सदा ॥५३॥विपत्त्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयःयत्नात्प्रक्षालितः शङ्खो यदा भूमिं स्पृशेत्पुनः ॥५४॥तदा स शङ्खो विप्रेंद्र शतधौतेन शुध्यतिइत्थं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः ॥५५॥गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेत्अकृत्वा स्नानकर्माणि गृहमायाति यः पुनः ॥५६॥तस्मिन्दिने पितृगणस्तस्य नाप्नोति तर्पणम्स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृद्भवेत् ॥५७॥यस्तु मोहाद्द्विजश्रेष्ठ स नूनं नारकी भवेत्स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः ॥५८॥पितरस्तस्य विण्वमूत्रभोजिनः स्युर्न संशयःततः कृत्वा विधानेन स्नानं च तर्पणादिकम् ॥५९॥स्वकीयं गृहमागच्छेत्स्मरेन्नारायणं बुधःततश्च प्रांगणे विप्र प्रक्षाल्य चरणद्वयम् ॥६०॥प्रविशेद्देवतागारं शुचिर्ब्राह्मणसत्तमःअप्रक्षालितपादो यः प्रविशेन्निलयं जनः ॥६१॥संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणात्स्नानं कृत्वा समागत्य प्रांगणेषु विचक्षणः ॥६२॥तस्मात्प्रक्षाल्य चरणौ प्रविशेद्देवतागृहम्उपविश्य पादयुग्मं बुधः सव्येन पाणिना ॥६३॥यत्नात्प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनःपादेन पादं विप्रेंद्र तथा दक्षिणपाणिना ॥६४॥यश्च प्रक्षालयेन्मूढस्तं लक्ष्मीस्त्यजति ध्रुवम्अथोपविष्टो मतिमान्केशवार्चनमारभेत् ॥६५॥अनन्यमानसो भूत्वा सर्वकामफलप्रदम्मृगचर्मासने शुद्ध व्याघ्रचर्मासनेऽपि वा ॥६६॥वस्त्रासने केवले च तथा कुशमयासनेपुष्पासने चोपविष्टः पूजयेत्कमलापतिम् ॥६७॥काष्ठासने द्विजो विद्वान्न कुर्य्याद्विष्णुपूजनम्विष्णुना त्वं धृता पृथ्वि सर्वेलोकास्त्वया धृताः ॥६८॥अतः सर्वसहे देहि वस्तुं मे स्थानमुत्तमम्इत्युक्त्वासनमास्तीर्य वसेन्नारायणार्चकः ॥६९॥दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनम्शङ्खे कृत्वा तु पानीयं मंत्रपूतं सुवासितम् ॥७०॥स्नापयेत्कमलाकांतं कमलासहितं प्रभुम्शङ्खेन स्नापयेद्यस्तु भगवंतं जनार्दनम् ॥७१॥तत्फलं तस्य वक्ष्यामि शृणु विप्रेंद्र जैमिनेविप्र गो स्त्री भ्रूणहत्या सुरापानादिपातकैः ॥७२॥विमुक्तो याति वैकुंठं भुंक्ते हि सकलं सुखम्यदि दृष्ट्वा हृषीकेशं पूजयेन्मानवो द्विज ॥७३॥लभते तत्तदेवाशु प्रसादात्कमलापतेःशंखाभावे तु विप्रेंद्र सुगंधितोयकं बुधः ॥७४॥कृत्वा च तुलसीं पात्रे स्नापयेत्केशवं बुधःततो देवं स्नापयित्वा संस्थाप्य च वरासने ॥७५॥सुगन्धैश्चंदनैस्तस्य कुर्यात्सर्वांगलेपनम्तुलसीकाष्ठपंके च चक्रिणो देहपालनम् ॥७६॥यः करोति जनस्तस्य प्रसन्नः सततं हरिःतुलसीपत्रमालेयं निजगन्धसुखप्रदा ॥७७॥दीयते ते जगन्नाथ सुप्रीतो भव सर्वदामंत्रेणानेन विप्रेंद्र तुलसीपत्रमालया ॥७८॥अलंकृतो महाविष्णुः प्रसन्नो न ददाति किम्ततस्तु वैदिकैर्मंत्रैः कर्तव्यं स्वस्तिवाचनम् ॥७९॥दिग्बंधनं च कर्तव्यं मंत्रैः पौराणिकैर्बुधैःकृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः ॥८०॥याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनःविदिक्षु रक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः ॥८१॥अधो रक्षतु विश्वात्मा कूर्ममूर्तिः कृपामयःये विघ्नकारकाः सर्वे पूजाकाले भवंति ह ॥८२॥दूरं गच्छंतु ते सर्वे हरिनामास्त्रताडिताःइत्थं दिग्बंधनं कृत्वा ततः प्रह्वः कृतांजलि ॥८३॥वक्ष्यमाणेन मंत्रेण संकल्पं कुरुते दृढम्मयारब्धामिमां पूजां देवदेव जनार्दन ॥८४॥सिंद्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वरततस्तु कृतसंकल्पो वैष्णवः सर्वतत्ववित् ॥८५॥अंगन्यासादिकं कृत्वा ध्यायेन्नारयणं हृदानवीनमेघसंकाशं पुंडरीकनिभेक्षणम् ॥८६॥पीतांबरधरं देवं स्मितचारुतराननम्कदंबपुष्पमालाभिर्भूषितं सुमहाभुजम् ॥८७॥बर्हिबर्ह(?)श्रेणिबद्धशिखंडधृतकुंडलम्वंशी मधुरनादेन मोहयंतं दिशो दश ॥८८॥आवृतं गोपनारीभिश्चारुवृंदावने स्थितम्एवं संचिंत्य देवेशं गोविंदं सर्वकामदम् ॥८९॥ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवःआवाहिताय कृष्णाय चतुर्वर्गप्रदायिने ॥९०॥पाद्यार्घ्याचमनीयानि तत्र दद्याद्विचक्षणःकोमलैस्तुलसीपत्रै रम्यैर्वा कुसुमैर्बुधः ॥९१॥पूजयेत्सर्वदेवेशं श्रीकृष्णं देवकीसुतम्नमो मत्स्याय कूर्माय वराहाय नमोनमः ॥९२॥नमोऽस्तु हरये तुभ्यं वामनाय नमोनमःनमो रामाय रामाय रामाय बलिने नमः ॥९३॥नमो बुद्धाय शुद्धाय सकृपाय नमोनमःनमोस्तु कल्किने तुभ्यं नमस्ते बहुमूर्त्तये ॥९४॥नारायणाय कृष्णाय गोविंदाय च शार्ङ्गिणेदामोदराय देवाय देवदेवाय ते नमः ॥९५॥हृषीकेशाय शांताय व्योमपादाय वै नमःनमोस्तु पद्मापतये नमस्ते पद्मचक्षुषे ॥९६॥अनंताय नमस्तुभ्यं गदाहस्ताय वै नमःतार्क्ष्यध्वजाय वै तुभ्यं नमस्ते चक्रपाणये ॥९७॥पद्महस्ताय वै तुभ्यमच्युताय नमो नमःनमो दैत्यारये तुभ्यं सर्वकामप्रदायिने ॥९८॥माधवाय सुरेशाय विष्णवे परमात्मनेकिरीटिने कुण्डलिने नमोऽस्तु हरये सदा ॥९९॥नमो भगवते तुभ्यं वाहनं गरुडाह्वयम्ॐनमो गरुडायेति मंत्रेणैव विचक्षणः ॥१००॥नमः शंखाय चक्राय गदायै च नमोनमःनमः पद्माय खड्गाय नंदकाय नमोनमः ॥१०१॥इति संपूज्य देवेशं सदारं च सवाहनम्सायुधं च ततो मंत्रं जपेदष्टाक्षरं बुधः ॥१०२॥निजभक्त्या ततो जप्त्वा मंत्रमष्टाक्षरं बुधःगोविंदाय ततो दद्यान्नानानैवेद्यमुत्तमम् ॥१०३॥धूपं दीपं च तांबूलं देवदेवाय विष्णवेअन्यान्यप्युपहाराणि प्रदद्याद्वैष्णवो जनः ॥१०४॥यस्तु धूपं द्विजश्रेष्ठ चंदनागरुवासितम्दद्यान्मुरारये तस्य द्रुतं सिध्यति वांछितम् ॥१०५॥धूपं यच्छति यो विप्र हरये घृतवासितम्स गच्छेद्विष्णुभवनं विमुक्तः पापकोटिभिः ॥१०६॥नारायणाय यो धूपं दद्याद्गुग्गुलुवासितम्स याति परमं धाम दुर्ल्लभं यत्सुरैरपि ॥१०७॥घृतेन दीपं यो दद्यात्तिलतैलेन वा पुनःनिमेषात्सकलं तस्य पापं हरति केशवः ॥१०८॥कर्पूरवासितं यस्तु तांबूलं चक्रपाणयेदद्यात्तस्य द्विजश्रेष्ठ मुक्तिर्भवति जैमिने ॥१०९॥यस्तु यच्छति तांबूलं खदिरेण समन्वितम्इह भुक्त्वाखिलान्भोगानंते याति हरेः पदम् ॥११०॥षष्ठी मधुरिकायुक्तं तथा जातिफलादिभिःतांबूलं हरये दत्वा स्वर्गमाप्नोति मानवः ॥१११॥शङ्खे कृत्वा तु पानीयं कुर्याद्विष्णुप्रदक्षिणाम्वक्ष्यमाणेन मंत्रेण जैमिने वैष्णवो जनः ॥११२॥जनार्दन जगद्बंधो शरणागतपालकत्वद्दासदासदासत्वं दासस्य देहि मे प्रभो ॥११३॥मंत्रेणानेन यः कुर्यान्नारायणप्रक्षिणाम्तस्य पुण्यफलं वच्मि संक्षेपाच्छृणु जैमिने ॥११४॥ब्रह्महत्यादिपापानि यानि यानि महांति चतानि तानि प्रणश्यंति प्रदक्षिणपदे पदे ॥११५॥यावत्पादं नरो भक्त्या गच्छेद्विष्णुप्रदक्षिणेतावत्कल्पसहस्राणि विष्णुना सह मोदते ॥११६॥हरिप्रदक्षिणे यावत्पदं गच्छेच्छनैः शनैःपदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥११७॥प्रदक्षिणीकृत्य सर्वं संसारे यत्फलं भवेत्हरिं प्रदक्षिणीकृत्य तस्मात्कोटिगुणं फलम् ॥११८॥अंगं प्रदक्षिणीकृत्य यस्तु नारायणाग्रतःसोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ॥११९॥न लंघयेत्सोमसूत्रं धीमाञ्शंभुप्रदक्षिणेलंघयित्वा यदा विप्र सा पूजा निष्फला भवेत् ॥१२०॥प्रदक्षिणा कारतया वारैकं यो हरिं व्रजेत्जन्मजन्मनि विप्रेंद्र सार्वभौमो भवेद्ध्रुवम् ॥१२१॥यस्तु वारद्वयं विप्र कुर्याद्विष्णुप्रदक्षिणाम्ऐंद्रं पदमवाप्नोति त्रिदिनेनात्र संशयः ॥१२२॥विष्णुप्रदक्षिणं यस्तु कुर्याद्वारद्वयं जनःविमुक्तः सकलैः पापैः प्रविशेन्माधवीं तनुम् ॥१२३॥भ्रामयेत्सोदकं शङ्खं केशवोपरि जैमिनेअंते देवालयं गत्वा सभवेत्सुरवंदितः ॥१२४॥प्रणमेद्दंडवद्भूमौ सप्तधा यस्तु केशवम्पातकं तच्छरीरस्थं भस्मीभवति तत्क्षणात् ॥१२५॥शिरस्यंजलिमाधाय प्रणमेद्यो जनार्दनम्तस्मै लक्ष्मीपतिर्विष्णुर्ददाति परमं पदम् ॥१२६॥भूमौ निपात्य सर्वांगं हरिं प्रणमतां नृणाम्पुण्यप्रभावं विप्रर्षे वदतो मे निशामय ॥१२७॥यावद्भूरेणुभिर्नृणां भूषितं स्यात्कलेवरम्तावत्कल्पसहस्राणि तिष्ठंति हरिसंनिधौ ॥१२८॥ततः केशवनिर्माल्यं वैष्णवेभ्यः प्रदीयतेवैष्णवांस्तान्प्रवक्ष्यामि शृणु सत्तम जैमिने ॥१२९॥शुकः सूतस्तथा व्यासो नारदः कपिलो मुनिःप्रह्लादश्चांबरीषश्च तथाक्रूरोद्धवावपि ॥१३०॥बिभीषणो हनूमांश्च तथैवान्येऽपि वैष्णवाःनिर्माल्यं वासुदेवस्य गृह्णंतु सर्वकामदम् ॥१३१॥इत्युक्त्वा विष्णुनिर्माल्यं निक्षिपेद्भुवि वैष्णवःततस्तु हरिनिर्माल्यं स्वयं गृह्णाति भक्तितः ॥१३२॥मस्तके दृश्यते यस्य हरिनिर्माल्यमुत्तमम्स विज्ञेयो द्विजश्रेष्ठ साक्षादेव हरिः स्वयम् ॥१३३॥दुर्लभं विष्णुनैवेद्यं निर्माल्यं पापनाशनम्गृह्णंति त्रिदशाः सर्वे मनुष्याणां च का कथा ॥१३४॥जैमिने तुलसीपत्रं यस्तु जिघ्रति वैष्णवःतस्य देहांतरस्थं हि सर्वं पापं विनश्यति ॥१३५॥तुलसीपत्रगंधस्तु प्रविशेद्यस्य नासिकाम्आपदस्तच्छरीरस्थाः सद्यो गच्छंति संक्षयम् ॥१३६॥तुलसीछदनघ्राणमाघ्राय योऽभिनंदतितस्यालये भवेन्नित्यमानंदो द्विजसत्तम ॥१३७॥स्तवैः स्तुत्वा जगन्नाथं कमलाप्रियमच्युतम्कृतांजलिस्ततः प्राज्ञ इमं मंत्रमुदीरयेत् ॥१३८॥नारायण जगद्रूप गच्छ धाम जगत्पतेगच्छ देव निजस्थानं प्रसन्नो भव सर्वदा ॥१३९॥येयं स्वशक्त्या देवेंद्र तव पूजा कृता मयाअच्छिद्रास्तु जगन्नाथ त्वत्प्रसादाज्जगन्मय ॥१४०॥ततः पादोदकं प्राज्ञो महाविष्णोः परात्मनःसमस्तपातकध्वंसि गृह्णीयाद्भक्तिभावतः ॥१४१॥कणमात्रं वहेद्यस्तु विष्णोः पादोदकं शुभम्स स्नातः सर्वतीर्थेषु जैमिने सत्यमुच्यते ॥१४२॥स्पृशेत्पादोदकं विष्णोर्गंगास्नानफलं भवेत्गांगेयं सलिलं विप्र विष्णुपादोदकं यतः ॥१४३॥अकालमरणं नास्ति नास्ति व्याधिभयं तथायः स्पृशेत्पादसलिलं केशवस्य महात्मनः ॥१४४॥पापव्याधिविनाशार्थं विष्णुपादोदकौषधम्पापिनोऽपि नरास्ते च पिबंतु प्रतिवासरम् ॥१४५॥विष्णुपादोदकं विप्र यः पिबेद्वैष्णवो जनःपातकं तच्छरीरस्थं क्षणादेव तु नश्यति ॥१४६॥यथौषधेन देहस्थं हन्यते देहिनो भृशम्तथैव पातकं सर्वं विष्णुपादोदकेन च ॥१४७॥विष्णुपादोदकं शुद्धं तुलसीपत्रसंयुतम्यो वहेच्छिरसा विप्र तस्य पुण्यं वदाम्यहम् ॥१४८॥ब्रह्महत्यादिभिः पापैर्विमुक्तो विष्णुरूपधृक्अंते विष्णुपुरं गत्वा विष्णुना सह मोदते ॥१४९॥मेरुप्रमाण हेमानि दत्वा भवति यत्फलम्विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् ॥१५०॥अश्वकोटिप्रदानेन तत्फलं प्राप्यते जनैःसप्तद्वीपां महीं दत्वा द्विजेभ्यो यत्फलं लभेत् ॥१५१॥तत्फलं लभते मर्त्यो विष्णुपादोदकं स्पृशन्अश्वमेधसहस्राणि कृत्वा भवति यत्फलम् ॥१५२॥विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम्दीर्घिकाशतदानेन यत्पुण्यं परिकीर्तितम् ॥१५३॥तस्मादप्यधिकं पुण्यं लभेत्पादोदकं स्पृशन्बहुनात्र किमुक्तेन संक्षेपादुच्यते मया ॥१५४॥विष्णुपादोदकस्पर्शान्मुक्तो भवति मानवःभूयोभूयोपि विप्रेंद्र सुदृढं कथ्यते मया ॥१५५॥पुनर्न लभते जन्म स्पृशन्पादोदकं हरेःविष्णुनैवेद्यशेषं यः सर्वपापविनाशनम् ॥१५६॥योऽश्नाति भक्तिभावेन स गच्छेत्परमं पदम्दुर्लभं विष्णुनैवेद्य भुंजते द्विजसत्तम ॥१५७॥देहं त्यजति पापानि ब्रह्महत्यामुखान्यपिभुंजतो हरिनैवेद्यं दासीव वशगा भवेत् ॥१५८॥मुक्तिभूमिः सुरश्रेष्ठ दैवतैरपि दुर्लभासंपूज्य कमलाकांतं किंचिन्नैवेद्यमत्यजन् ॥१५९॥अचिरेणैव तं विष्णुर्नयति स्वां तनुं प्रतिनैवेद्यस्य महाविष्णोर्गुणं किं कथयाम्यहम् ॥१६०॥यद्भुंजतः केशवोऽपि स्यादधीनो द्विज प्रभोअनेन विधिना विप्र प्रतिमासे जनार्दनम् ॥१६१॥विधिहीनामपि श्रेष्ठां पूजां श्रीकमलापतेःयः कुर्याद्भक्तिभावेन सोऽपि स्यात्केशवप्रियः ॥१६२॥विधिज्ञो विधिना विष्णुमभ्यर्च्य यत्फलं लभेत्यथोक्तविधिना विप्र नैवेद्यैर्बहुभिः प्रभो ॥१६३॥पूजितोऽपि न तुष्टः स्याद्यदि भक्तिर्न तिष्ठतियस्य वै यावती भक्तिर्देवदेवे जनार्दने ॥१६४॥तावदेव फलावाप्तिस्तस्य नास्त्यत्र संशयःअभक्त्याया हरेः पूजा क्रियते भुवि मानवैः ॥१६५॥सा पूजा ब्राह्मणश्रेष्ठ पूजाकाले भवेत्किलज्ञानमूलं हरेर्भक्तिर्भक्तिमूलं जगत्पतेः ॥१६६॥पूजा मोक्षद्रुमोत्पत्तौ मूलमाराधनं हरेःअल्पमात्रमपि प्राज्ञ श्रद्धया कुरुते हि यत् ॥१६७॥तदक्षयं भवेत्सर्वं श्रद्धायुक्ताखिला क्रियाभक्त्या यः पूजयेद्विष्णुं वारिमात्रमपि द्विज ॥१६८॥संस्थानं लभते विष्णोर्यतो भक्तवशो हरिः ॥१६९॥असारमेतद्भुवनं समस्तं सारं हरेः पूजनमेव विप्रतस्मान्मनुष्यो निजमंगलैषी भक्त्या यजेत्कृष्णमनंतमूर्तिम् ॥१७०॥इति श्रीपद्मपुराणे क्रियायोगसारे हरिपूजाविधिर्नाम एकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : October 31, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP