संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|शतरुद्रसंहिता| अध्यायः ३१ शतरुद्रसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ विषयानुक्रमणिका शतरुद्रसंहिता - अध्यायः ३१ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ३१ Translation - भाषांतर नन्दीश्वर उवाच ॥अथ वक्ष्ये मुनिश्रेष्ठ शम्भोः शृण्ववतारकम् ॥स्वभक्तदयया विप्र नारीसन्देहभंजकम् ॥१॥आसीत्सत्यरथो नाम्ना विदर्भविषये नृपः ॥धर्म्मात्मा सत्यशीलश्च महाशैवजनप्रियः ॥२॥तस्य राज्ञस्सुधर्मेण महीं पालयतो मुने ॥महान्कालो व्यतीयाय सुखेन शिवधर्म्मतः ॥३॥कदाचित्तस्य राज्ञस्तु शाल्वैश्च पुररोधिभिः ॥महान्रणो बभूवाथ बहुसैन्यैर्बलोद्धतैः ॥४॥स विदर्भनृपः कृत्वा सार्धं तैर्दारुणं रणम् ॥प्रनष्टोरुबलः शाल्वैर्निहतो दैवयोगतः ॥५॥तस्मिन्नृपे हते युद्धे शाल्वैस्तु भयविह्वलाः ॥सैनिका हतशेषाश्च मन्त्रिभिस्सह दुद्रुवुः ॥६॥अथ तस्य महाराज्ञी रात्रौ स्वपुरतो मुने ॥संरुद्धा रिपुभिर्यत्नादन्तर्वत्नी बहिर्ययौ ॥७॥निर्गता शोकसंतप्ता सा राजमहिषी शनैः ॥प्राचीं दिशं ययौ दूरं स्मरन्तीशपदाम्बुजम् ॥८॥अथ प्रभाते सा राज्ञी ददर्श विमलं सरः ॥अतीता दूरमध्वानं दयया शङ्करस्य हि ॥९॥तत्रागत्य प्रिया राज्ञस्संतप्ता सुकुमारिणी ॥निवासार्थं सरस्तीरे छायावृक्षमुपाश्रयत् ॥१०॥तत्र दैववशाद्राज्ञी मुहूर्त्ते सद्गुणान्विते ॥असूत तनयं दिव्यं सर्वलक्षणलक्षितम् ॥११॥अथ तज्जननी दैवात्तृषिताति नृपाङ्गना ॥सरोवतीर्णा पानार्थं ग्रस्ता ग्राहेण पाथसि ॥१२॥स सुतो जातमात्रस्तु क्षुत्पिपासार्द्दितो भृशम् ॥रुरोद च सरस्तीरे विनष्ट पितृमातृकः ॥१३॥तस्मिन्वने क्रन्दमाने जातमात्रे सुते मुने ॥कृपान्वितो महेशोऽभूदन्तर्यामी स रक्षक. ॥१४॥प्रेरिता मनसा काचिदीशेन त्रासहारिणा ॥अकस्मादागता तत्र भ्रमन्ती भैक्ष्यजीविनी ॥१५॥सा त्वेकहायनं बालं वहन्ती विधवा निजम् ॥अनाथमेकं क्रंदन्तं शिशुन्तत्र ददर्श ह ॥१६॥सा दृष्ट्वा तत्र तम्बालं वने निर्मनुजे मुने ॥विस्मिताति द्विजस्त्री सा चिचिन्तं हृदये बहु ॥१७॥अहो सुमहदाश्चर्य्यमिदं दृष्टम्मयाधुना ॥असंभाव्यमकथ्यं च सर्वथा मनसा गिरा ॥१८॥अच्छिन्ननाभिनालोयं रसायां केवलं शिशुः ॥शेते मातृविहीनश्च क्रन्दंस्तेजस्विनां वरः ॥१९॥अस्य पित्रादयः केऽपि न सन्तीह सहायिनःकारणं किं बभूवाथ ह्यहो दैवबलं महत् ॥२०॥न जाने कस्य पुत्रोऽयमस्य ज्ञातात्र कोपि न ॥यतः पृच्छाम्यस्य जन्य जाता च करुणा मयि ॥२१॥इच्छाम्येनं पोषितुं हि बालमौरसपुत्रवत् ॥संप्रष्टुं नोत्सहेऽज्ञात्वा कुलजन्मादि चास्य वै ॥२२॥नन्दीश्वर उवाच ॥इति संचिन्त्यमानायां तस्यां विप्रवरस्त्रियाम् ॥कृपां चकार महतीं शंकरो भक्तवत्सल ॥२३॥दध्रे भिक्षुस्वरूपं हि महालीलो महेश्वरः ॥सर्वथा भक्तसुखदो निरुपाधिः स्वयं सदा ॥२४॥तत्राजगाम सहसा स भिक्षुः परमेश्वरः ॥यत्रास्ति संदेहवती द्विजस्त्री ज्ञातुमिच्छती ॥२५॥भिक्षुवर्य्यस्वरूपोऽसावविज्ञातगतिः प्रभुः ॥तामाह विप्रवनितां विहस्य करुणानिधिः ॥२६॥भिक्षुवर्य्य उवाच ॥सन्देहं कुरु नो चित्ते विप्रभामिनि मा खिद ॥रक्षैनम्बालकं प्रीत्या सुपवित्रं स्वपुत्रकम् ॥२७॥अनेन शिशुना श्रेयः प्राप्स्यसे न चिरात्परम् ॥पुष्णीहि सर्वथा ह्येनं महातेजस्विनं शिशुम् ॥२८॥नन्दीश्वर उवाच ॥इत्युक्तवन्तं तं भिक्षुस्वरूपं करुणानिधिम् ॥सा विप्रवनिता शम्भुं प्रीत्या पप्रच्छ सादरम् ॥२९॥विप्रवनितोवाच ॥त्वदाज्ञयैनं बालं हि रक्षिष्यामि स्वपुत्रवत् ॥पौक्ष्यामि नात्र सन्देहो मद्भाग्यात्त्वमिहागतः ॥३०॥तथापि ज्ञातुमिच्छामि विशेषेण तु तत्त्वतः ॥कोयं कस्य सुतश्चायं कस्त्वमत्र समागतः ॥३१॥मुहुर्मम समायाति ज्ञानं भिक्षुवर प्रभो ॥त्वं शिवः करुणासिन्धुस्त्वद्भक्तोयं शिशुः पुरा ॥३२॥केनचित्कर्मदोषेण सम्प्राप्तोयं दशामिमाम् ॥तद्भुक्त्वा परमं श्रेयः प्राप्स्यते त्वदनुग्रहात् ॥३३॥त्वन्माययैव साहं वै मार्गभ्रष्टा विमोहिता ॥आगता प्रेषिता त्वत्तो ह्यस्य रक्षणहेतुतः ॥३४॥ ॥नन्दीश्वर उवाच ॥इति तद्दर्शनप्राप्तविज्ञानां विप्रकामिनीम् ॥ज्ञातुकामां विशेषेण प्रोचे भिक्षुतनुश्शिवः ॥३५॥ ॥भिक्षुवर्य्य उवाच ॥शृणु प्रीत्या विप्रपत्नि बालस्यास्य पुरेहितम् ॥सर्वमन्यस्य सुप्रीत्या वक्ष्यते तत्त्वतोऽनघे ॥३६॥सुतो विदर्भराजस्य शिवभक्तस्य धीमतः ॥अयं सत्यरथस्यैव स्वधर्मनिरतस्य हि ॥३७॥शृणु सत्यरथो राजा हतः शाल्वे रणे परैः ॥तत्पत्नी निशि सुव्यग्रा निर्ययौ स्वगृहाद्द्रुतम् ॥३८॥असूत तनयं चैनं समायाता प्रगेऽत्र हि ॥सरोवतीर्णा तृषया ग्रस्ता ग्राहेण दैवतः ॥३९॥नन्दीश्वर उवाच ॥इति तस्य समुत्पत्तिं तत्पितुः संगरे मृतिम् ॥तन्मातृमरणं ग्राहात्सर्वं तस्य न्यवेदयत् ॥४०॥अथ सा ब्रह्माणी सा हि विस्मिताति मुनीश्वर ॥पुनः पप्रच्छ तं भिक्षुं ज्ञानिनं सिद्धरूपकम् ॥४१॥ब्राह्मण्युवाच ॥स राजोऽस्य पिता भिक्षो वरभोगान्तरेव हि ॥कस्माच्छाल्वैस्स्वरिपुभिस्स्वल्पेहैश्च विघातितः ॥४२॥कस्मादस्य शिशोर्माता ग्राहेणाशु सुभक्षिता ॥यस्मादनाथोयं जातो विबन्धुश्चैव जन्मतः ॥४३॥कस्मात्सुतो ममापीह सुदरिद्रो हि भिक्षुकः ॥भवेत्कथं सुखं भिक्षो पुत्रयोरनयोर्वद ॥४४॥नन्दीश्वर उवाच ॥इति तस्या वचः श्रुत्वा स भिक्षुः परमेश्वरः ॥विप्रपत्न्याः प्रसन्नात्मा प्रोवाच विहसंश्च ताम् ॥४५॥भिक्षुवर्य्य उवाच ॥विप्रपत्नि विशेषेण सर्वप्रश्नान्वदामि ते ॥शृणु त्वं सावधानेन चरित्रमिदमुत्तमम् ॥४६॥अमुष्य बालस्य पिता स विदर्भमहीपतिः ॥पूर्वजन्मनि पाण्ड्योऽसौ बभूव नृपसत्तमः ॥४७॥स शैवनृपतिर्धर्मात्पालयन्निखिला महीम् ॥स्वप्रजां रंजयामास सर्वोपद्रवनाशनः ॥४८॥कदाचित्स हि सर्वेशं प्रदोषे पर्यपूजयत् ॥त्रयोदश्यां निराहारो दिवानक्तव्रती शिवम् ॥४९॥तस्य पूजयतः शम्भुं प्रदोषे गिरिशं रते ॥महाञ्छब्दो बभूवाथ विकटस्सर्वथा पुरे ॥५०॥तमाकर्ण्य रवं सोऽथ राजा त्यक्तशिवार्चनः ॥रिप्वागमनशंकातो निर्ययौ भवनाद्बहिः ॥५१॥एतस्मिन्नेव काले तु तस्यामात्यो महाबली ॥गृहीतशस्त्रसामन्तो राजान्तिकमुपाययौ ॥५२॥तन्दृष्ट्वा शत्रुसामन्तं महाक्रोधेन विह्वलः ॥अविचार्य वृषन्तस्य शिरश्छेदमकारयत् ॥५३॥असमाप्ये शपूजान्तामशुचिर्नष्टधीर्नृपः ॥रात्रौ चकार सुप्रीत्या भोजनन्नष्टमंगलः ॥५४॥विदर्भे सोभवद्राजा जन्मनीह शिवव्रती ॥शिवार्चनान्तरायेण परैर्भोगांन्तरे हतः ॥९५॥तत्पुत्रो यः पूर्वभवे सोऽस्मिञ्जन्मनि तत्सुतः ॥अहमेव हतैश्वर्य्यः शिवपूजा व्यतिक्रमात् ॥५६॥अस्य माता पूर्वभवे सपत्नीं छद्मनाहरत् ॥भक्षिता तेन पापेन ग्राहेणाऽस्मिन्भवे हि सा ॥५७॥एषा प्रवृत्तिरेतेषां भवत्यै परिकीर्तिता ॥अनर्चिता शिवा भक्त्या प्राप्नुवन्ति दरिद्रताम् ॥५९एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ॥प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैस्सुकर्मभिः ॥५९॥अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ॥तद्दोषपरिहारार्थं शरणं शंकरं व्रज ॥६०॥एताभ्यां खलु बालाभ्यां शिवपूजाविधीयताम् ॥उपवीतानन्तरं हि शिवः श्रेयः करिष्यति ॥६१॥नन्दीश्वर उवाच ॥इति तामुपदिश्याथ भिक्षुवर्ण्यतनुः शिवः ॥स्वरूपं दर्शयामास परमं भक्तवत्सलः ॥६२॥अथ सा विप्रवनिता ज्ञात्वा तं शंकरम्प्रभुम् ॥सुप्रणम्य हि तुष्टाव प्रेम्णा गद्गदया गिरा ॥६३॥ततस्स भगवाञ्च्छम्भुर्धृतभिक्षुतनुर्द्रुतम् ॥पश्यन्त्या विप्रपन्त्यास्तु तत्रैवान्तरधीयत ॥६४॥अथ तस्मिन् गते भिक्षौ विश्रब्धा ब्राह्मणी च सा ॥तमर्भकं समादाय सस्वपुत्रा गृहं ययौ ॥६५॥एकचक्राह्वये रम्ये ग्राम्ये कृत निकेतना ॥स्वपुत्रं राजपुत्रं च वरान्नैश्च व्यवर्द्धयत् ॥६६॥ब्राह्मणै कृतसंस्कारौ कृतोपनयनौ च तौ ॥ववृधाते स्वगेहे च शिवपूजनतत्परौ ॥६७॥तौ शाण्डिल्यमुनेस्तात निदेशान्नियम स्थितौ ॥प्रदोषे चक्रतुः शम्भोः पूजां कृत्वा व्रतं शुभम् ॥६८॥कदाचिद्द्विजपुत्रेण विनाऽसौ राजनन्दनः ॥नद्यां स्नातुं गतः प्राप निधानकलशं वरम् ॥६९॥एवं पूजयतोः शम्भुं राजद्विजकुमारयोः ॥सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ॥७०॥एवमर्चयतोः शम्भुं भूयोपि परया मुदा ॥सम्वत्सरो व्यतीयाय तस्मिन्नेव तयोर्गृहे ॥७१॥सम्वत्सरे व्यतिक्रान्ते स राजतनयो मुने ॥गत्वा वनान्ते विप्रेण शिवस्यानुग्रहाद्विभोः ॥७२॥अकस्मादागतां तत्र दत्तां तज्जनकेन ह ॥विवाह्य गन्धर्वसुतां चक्रे राज्यमकण्टकम् ॥७३॥या विप्रवनिता पूर्वंतमपुष्णात्स्वपुत्रवत् ॥सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ॥७४॥इत्थमाराध्य देवेशं धर्मगुप्ताह्वयस्स वै ॥विदर्भ विषये राज्ञ्या तया भोगं चकार ह ॥७४॥भिक्षुवर्य्यावतारस्ते वर्णितश्च मयाधुना ॥शिवस्य धर्मगुप्ताह्व नृपबालसुखप्रदः ॥७६॥एतदाख्यानमनघं पवित्रं पावनं महत् ॥धर्मार्थकाममोक्षाणां साधनं सर्वकामदम् ॥७७॥य एतच्छ्रृणुयान्नित्यं श्रावयेद्वा समाहितः ॥स भुक्त्वेहाखिलान्कामान्सोन्ते शिवपुरम्व्रजेत् ॥७८इति श्री शिवमहापुराणे तृती०शतरुद्रसंहितायां भिक्षुवर्य्याह्वशिवावता रचरित्रवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : October 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP