संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|शतरुद्रसंहिता| अध्यायः ७ शतरुद्रसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ विषयानुक्रमणिका शतरुद्रसंहिता - अध्यायः ७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ७ Translation - भाषांतर ॥नन्दिकेश्वर उवाच ॥तत्र गत्वा मुनेऽहं वै स्थित्वैकान्तस्थले सुधीः ॥अतपं तप उग्रं सन्मुनीनामपि दुष्करम् ॥१॥हृत्पुण्डरीकसुषिरे ध्यात्वा देवं त्रियम्बकम् ॥त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदा शिवम् ॥२॥रुद्रजाप्यमकार्षं वै परमध्यानमास्थितः ॥सरितश्चोत्तरे पुण्ये ह्येकचित्तः समाहितः ॥३॥तस्मिञ्जाप्येऽथ संप्रीतः स्थितं मां परमेश्वरः ॥तुष्टोऽब्रवीन्महादेवः सोमः सोमार्द्धभूषणः ॥४॥शिव उवाच ॥शैलादे वरदोहं ते तपसानेन तोषितः ॥साधु तप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम् ॥५॥स एवमुक्तो देवेन शिरसा पादयोर्नतः ॥अस्तवं परमेशानं जराशोकविनाशनम् ॥६॥अथ मां नन्दिनं शम्भुर्भक्त्या परामया युतम् ॥अश्रुपूर्णेक्षणं सम्यक् पादयोः शिरसा नतम् ॥७॥उत्थाय परमेशानः पस्पर्श परमार्तिहा ॥कराभ्यां संमुखाभ्यान्तु संगृह्य वृषभध्वजः ॥८॥निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ॥उवाच मां कृपादृष्ट्या समीक्ष्य जगताम्पतिः ॥९॥वत्स नन्दिन्महाप्राज्ञ मृत्योर्भीतिः कुतस्तव ॥मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः ॥१०॥अमरो जरया त्यक्तोऽदुःखी गणपतिः सदा ॥अव्ययश्चाक्षयश्चेष्टः स पिता स सुहृज्जनः ॥११॥मद्बलः पार्श्वगो नित्यं ममेष्टो भवितानिशम् ॥न जरा जन्म मृत्युर्वै मत्प्रसादाद्भविष्यति ॥१२॥नन्दीश्वर उवाच ॥एवमुक्त्वा शिरोमालां कुशेशयमयीं निजाम् ॥समुन्मुच्य बबन्धाशु मम कण्ठे कृपानिधिः ॥१३॥तयाहं मालया विप्र शुभया कण्ठसक्तया ॥त्र्यक्षो दशभुजश्चासं द्वितीय इव शङ्कर ॥१४॥तत एव समादाय हस्तेन परमेश्वरः ॥उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम् ॥१५॥ततो जटाश्रितं वारि गृहीत्वा हार निर्मलम् ॥उक्त्वा नन्दी भवेतीह विससर्ज वृषध्वजः ॥१६॥ततः पञ्चमिता नद्यः प्रावर्तत शुभावहाः ॥सुतोयाश्च महावेगा दिव्य रूपा च सुन्दरी ॥१७॥जटोदका त्रिस्रोताश्च वृषध्वनिरितीव हि ॥स्वर्णोदका जम्बुनदी पञ्चनद्यः प्रकीर्तिताः ॥१८॥एतत्पञ्चनदं नाम शिवपृष्ठतमं शुभम् ॥जपेश्वरसमीपे तु पवित्रं परमं मुने ॥१९॥यः पञ्चनदमासाद्य स्नात्वा जप्त्वेश्वरेश्वरम् ॥पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ॥२०॥अथ शम्भुरुवाचोमामभिषिञ्चामि नन्दिनम्गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये ॥२१॥उमोवाच ॥दातुमर्हसि देवेश नन्दिने परमेश्वर ॥महाप्रियतमो नाथ शैलादिस्तनयो मम ॥२२॥नन्दीश्वर उवाच ॥ततस्स शङ्करः स्वीयान्सस्मार गणपान्वरान् ॥स्वतन्त्रः परमेशानस्सर्वदो भक्तवत्सलः ॥२३॥स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ॥असङ्ख्याता महामोदाश्शङ्कराकृतयोऽखिलाः ॥२४॥ते गणेशाश्शिवं देवीं प्रणम्याहुः शुभं वचः ॥ते प्रणम्य करौ बद्ध्वा नतस्कन्धा महाबलाः ॥२५॥गणेशा ऊचुः ॥किमर्थं च स्मृता देव ह्याज्ञापय महाप्रभो ॥किङ्करान्नः समायातांस्त्रिपुरार्दन कामद ॥२६॥किं सागराञ्शोषयामो यमं वा सह किंकरैः ॥हन्मो मृत्युं महामृत्युं विशेषं वृद्धपद्मजम् ॥२७॥बद्ध्वेन्द्रं सह देवैश्च विष्णुं वा पार्षदैः सह ॥आनयामः सुसंकुद्धान्दैत्यान्वा दानवैः सह ॥२८॥कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ॥कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥२९॥नन्दीश्वर उवाच ॥इत्याकर्ण्य वचस्तेषां गणानां वीरवादिनाम् ॥उवाच तान्स प्रशंस्य गणेशान्परमेश्वरः ॥३०॥शिव उवाच ॥नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः ॥प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम ॥३१॥सर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ॥अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ॥३२॥नन्दीश्वर उवाच ॥एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ॥एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ॥३३॥ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ॥मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ॥३४॥पितामहोपि भगवन्नियोगाच्छङ्करस्य वै ॥चकार नंदिनस्सर्व्वमभिषेकं समाहितः ॥३५॥ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ॥ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥३६॥स्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ॥३७॥प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः ॥३८॥एवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ॥नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ॥३९॥उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ॥महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ॥४०॥मरुतां च सुता देवी सुयशास्तु मनोहरा ॥पत्नी सा मेऽभवद्दिव्या मनोनयननन्दिनी ॥४१॥लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ॥चामरैश्चामरासक्तहस्ताग्रैः स्त्रीगणैर्युतम् ॥४२॥सिंहासनं च परमं तया चाधिष्ठितं मया ॥अलंकृतो महालक्ष्म्या मुकुटाद्यैस्सुभूषणैः ॥४३॥लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ॥वृषेन्द्रश्च शितो नागस्सिंहस्सिंहध्वजस्तथा ॥४४॥रथश्च हेमहारश्च चन्द्रबिंबसमः शुभः ॥अन्यान्यपि च वस्तूनि लब्धानि हि मया मुने ॥४५॥एवं कृतविवाहोऽहं तया पत्न्या महामुने ॥पादौ ववन्दे शम्भोश्च शिवाया ब्रह्मणो हरेः ॥४६॥तथाविधं त्रिलोकेशस्सपत्नीकं च माम्प्रभुः ॥प्रोवाच परया प्रीत्या स शिवो भक्तवत्सलः ॥४७॥ईश्वर उवाच ॥शृणु सत्पुत्र तातस्त्वं सुयशेयन्तव प्रिया ॥ददामि ते वरम्प्रीत्या यत्ते मनसि वाञ्छितम् ॥४८॥सदाहन्तव नन्दीश सन्तुष्टोऽस्मि गणेश्वर ॥देव्या च सहितो वत्स शृणु मे परमं वचः ॥४९॥सदेष्टश्च विशिष्टश्च परमैश्वर्य्यसंयुतः ॥महायोगी महेष्वासः स पिता स पितामहः ॥५०॥अजेयस्सर्वजेता च सदा पूज्यो महाबलः ॥अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥५१॥अयं च ते पिता पुत्र परमैश्वर्य्यसंयुतः ॥भविष्यति गणाध्यक्षो मम भक्तो महाबलः ॥५२॥पितामहोऽपि ते वत्स तथास्तु नियमा इमे ॥मत्समीपं गमिष्यन्ति मया दत्तवरास्तथा ॥५३॥नन्दीश्वर उवाच ॥ततो देवी महाभागा नन्दिनं वरदाब्रवीत् ॥वरं ब्रूहीति माम्पुत्र सर्व्वान्कामान्यथेसितान् ॥५४॥तच्छ्रुत्वा वचनं देव्याः प्रावोचत्साञ्जलिस्तदा ॥भक्तिर्भवतु मे देवि पादयोस्ते सदा वरा ॥५५॥श्रुत्वा मम वचो देवी ह्येवमस्त्विति साब्रवीत् ॥सुयशां ताञ्च सुप्रीत्या नन्दिप्रियतमां शिवाम् ॥५६॥देव्युवाच ॥वत्से वरं यथेष्टं हि त्रिनेत्रा जन्मवर्जिता ॥पुत्रपौत्रेस्तु भक्तिर्मे तथा च भर्तुरेव हि ॥५७॥नन्द्युवाच ॥तदा ब्रह्मा च विष्णुश्च सर्व्वे देवगणाश्च वै ॥ताभ्यां वरान्ददुः प्रीत्या सुप्रसन्नाश्शिवाज्ञया ॥५८॥सान्वयं मां गृहीत्वेशस्ततस्सम्बन्धिबान्धवैः ॥आरुह्य वृषमीशानो गतो देव्या निजं गृहम् ॥५९॥विष्ण्वादयः सुरास्सर्व्वे प्रशंसन्तो ह्यमी तदा ॥स्वधामानि ययुः प्रीत्या संस्तुवन्तः शिवं शिवम् ॥६०॥इति ते कथितो वत्स स्वावतारो महामुने ॥सदानन्दकरः पुंसां शिवभक्तिप्रवर्द्धनः ॥६१॥य इदन्नन्दिनो जन्म वरदानन्तथा मम ॥अभिषेकं विवाहं च शृणुयाच्छ्रावयेत्तथा ॥६२॥पठेद्वा पाठयेद्वापि श्रद्धावान्भक्तिसंयुतः ॥इह सर्व्वसुखम्भुक्त्वा परत्र लभते गतिम् ॥६३॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेश्वरावताराभिषेकविवाह वर्णनं नाम सप्तमोऽध्यायः ॥७॥इति त्रिचत्वारिंशोवतारः ॥४३॥ N/A References : N/A Last Updated : October 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP