संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|शतरुद्रसंहिता| अध्यायः २७ शतरुद्रसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ विषयानुक्रमणिका शतरुद्रसंहिता - अध्यायः २७ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २७ Translation - भाषांतर नन्दीश्वर उवाच ॥शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥द्विजेश्वरावतारं च सशिवं सुखदं सताम् ॥१॥यः पूर्वं वर्णितस्तात भद्रायुर्नृपसत्तमः ॥यस्मिन्नृषभरूपेणानुग्रहं कृतवाञ्छिवः ॥२॥तद्धर्मस्य परीक्षार्थं पुनराविर्बभूव सः ॥द्विजेश्वरस्वरूपेण तदेव कथयाम्यहम् ॥३॥ऋषभस्य प्रभावेण शत्रूञ्जित्वा रणे प्रभुः ॥प्राप्तसिंहासनस्तात भद्रायुः संबभूव ह ॥४॥चन्द्रांगदस्य तनया सीमन्तिन्याः शुभांगजा ॥पत्नी तस्याभवद्ब्रह्मन्सुसाध्वी कीर्तिमालिनी ॥५॥स भद्रायुः कदाचित्स्वप्रियया गहनं वनम् प्राविशत्संविहारार्थं वसन्तसमये मुने ॥६॥अथ तस्मिन्वने रम्ये विजहार स भूपतिः ॥शरणागतपालिन्या तमास्यप्रियया सह ॥७॥अथ तद्धर्मदृढतां प्रतीक्षन्परमेश्वरः ॥लीलां चकार तत्रैव शिवया सह शङ्करः ॥८॥शिवा शिवश्च भूत्वोभौ तद्वने द्विजदम्पती ॥व्याघ्रं मायामयं कृत्वाविर्भूतौ निजलीलया ॥९॥अथाविदूरे तस्यैव द्रवन्तौ भयविह्वलौ ॥अन्वीयमानौ व्याघ्रेण रुदन्तौ तौ बभूवतुः ॥१०॥अथ विद्धौ च तौ तात भद्रायुः स महीपतिः ॥ददर्श क्रन्दमानौ हि शरण्यः क्षत्रियर्षभः ॥११॥अथ तौ मुनिशार्दूलः स्वमायाद्विजदम्पती ॥भद्रायुषं महाराजमूचतुर्भयविह्वलौ ॥१२॥द्विजदम्पती ऊचतुः ॥पाहि पाहि महाराज नावुभौ धर्मवित्तम ॥एष आयाति शार्दूलो जग्धुमावां महाप्रभो ॥१३॥एष हिंस्रः कालसमः सर्वप्राणिभयङ्करः ॥यावन्न खादति प्राप्य तावन्नौ रक्ष धर्मवित् ॥१४॥नन्दीश्वर उवाच ॥इत्थमाक्रन्दितं श्रुत्वा तयोश्च नृपतीश्वरः ॥अति शीघ्रं महावीरः स यावद्धनुराददे ॥१५॥तावदभ्येत्य शार्दूलस्त्वरमाणोतिमायिकः ॥स तस्य द्विजवर्य्यस्य मध्ये जग्राह तां वधूम् ॥१६॥हे नाथनाथ हे कान्त हा शम्भो हा जगद्गुरो ॥इति रोरूयमाणां तां व्याघ्रो जग्रास भीषणः ॥१७॥तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ॥न स तैर्विव्यथे किंचिद्गिरीन्द्र इव वृष्टिभिः ॥१८॥स शार्दूलो महासत्त्वो राज्ञः स्वैरकृतव्यथः ॥बलादाकृष्य तां नारीमपाक्रमत सत्वरः ॥१९॥व्याघ्रेणापहृतां नारीं वीक्ष्य विप्रोतिविस्मितः ॥लौकिकीं गतिमाश्रित्य रुरोदाति मुहुर्मुहुः ॥२०॥रुदित्वा चिरकालं च स विप्रो माययेश्वरः ॥भद्रायुषं महीपालं प्रोवाच मदहारकः ॥२१॥द्विजेश्वर उवाच ॥राजन्क ते महास्त्राणि क्व ते त्राणं महद्धनुः ॥क्व ते द्वादशसाहस्रमहानागायुतम्बलम् ॥२२॥किन्ते खड्गेन शङ्खेन किं ते मंत्रास्त्रविद्यया ॥किं सत्त्वेन महास्त्राणां किं प्रभावेण भूयसा ॥२३॥तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ॥यस्त्वं वनौकसां घातं न निवारयितुं क्षमः ॥२४॥क्षत्रस्यायं परो धर्मो क्षताच्च परिरक्षणम् ॥तस्मिन्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम् ॥२५॥आर्तानां शरणाप्तानां त्राणं कुर्वन्ति पार्थिवाः ॥प्राणैरर्थैश्च धर्मज्ञास्तद्विना च मृतोपमा ॥२६॥आर्तत्राणविहीनानां जीवितान्मरणं वरम् ॥धनिनान्पानहीनानां गार्हस्थ्याद्भिक्षुता वरम् ॥२७॥वरं विषाशनं प्राज्ञैर्वरमग्निप्रवेशनम् ॥कृपणानामनाथानां दीनानामपरक्षणात् ॥२८॥नन्दीश्वर उवाच ॥इत्थं विलपितं तस्य स्ववीर्य्यस्य च गर्हणम् ॥निशम्य नृपतिः शोकादात्मन्येवमचिन्तयत् ॥२९॥अहो मे पौरुषं नष्टमद्य देवविपर्ययात् ॥अद्य कीर्तिश्च मे नष्टा पातकम्प्राप्तमुत्कटम् ॥३०॥धर्मः कुलोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ॥नूनं मे सम्पदो राज्यमायुष्यं क्षयमेष्यति ॥३१॥अद्य चैनं द्विजन्मानं हतदारं शुचार्दितम् ॥हतशोकं करिष्यामि दत्त्वा प्राणानतिप्रियान् ॥३२॥इति निश्चित्य मनसा स भद्रायुर्नृपोत्तमः ॥पतित्वा पादयोस्तस्य बभाषे परिसान्त्वयन् ॥३३॥भद्रायुरुवाच ॥कृपां कृत्वा मयि ब्रह्मन् क्षत्रबन्धौ हतौजसि ॥शोकन्त्यज महाप्राज्ञ दास्याम्यद्य तु वाञ्छितम् ॥३४॥इदं राज्यमियं राज्ञी ममेदञ्च कलेवरम् ॥त्वदधीनमिदं सर्वं किन्तेऽभिलषितं वरम् ॥३५॥ब्राह्मण उवाच ॥किमादर्शेन चान्धस्य किं गृहेर्भैक्ष्यजीविनः ॥किम्पुस्तकेन मूढस्य निस्त्रीकस्य धनेन किम् ॥३६॥अतोऽहं हतपत्नीको भुक्तभोगो न कर्हिचित् ॥इमान्तवाग्रमहिषीं कामये दीयतामिति ॥३७ ॥भ० उ०॥दाता रसान्तवित्तस्य राज्यस्य गजवाजिनाम् ॥आत्मदेहस्य यस्यापि कलत्रस्य न कर्हिचित् ॥३८॥परदारोपभोगेन यत्पापं समुपार्जितम् ॥न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि ॥३९॥ब्राह्मण उवाच ॥आस्तां ब्रह्मवधं घोरमपि मद्यनिषेवणम् ॥तपसा विधमिष्यामि किं पुनः पारदारिकम् ॥४०॥तस्मात्प्रयच्छ भार्यां स्वामियां कामो न मेऽपरः ॥अरक्षणाद्भयार्तानां गन्तासि निरयन्ध्रुवम् ॥४१॥नन्दीश्वर उवाच ॥इति विप्रगिरा भीतश्चिन्तयामास पार्थिवः ॥अरक्षणान्महापापं पत्नीदानन्ततो वरम् ॥४२॥अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ॥सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च विदिता भवेत् ॥४३॥इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ॥तमाहूय द्विजं चक्रे पत्नीदानं सहोदकम् ॥४४॥स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ॥तमग्निं त्रिः परिक्रम्य शिवं दध्यौ समाहितः ॥४५॥तमथाग्निं पतिष्यन्तं स्वपदासक्तचेतसम् ॥प्रत्यषेधत विश्वेशः प्रादुर्भूतो द्विजेश्वरः ॥४६॥तमीश्वरं पञ्चमुखं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ॥प्रलम्बपिंगासुजटाकलापं मध्याह्नसद्भास्करकोटितेजसम् ॥४७॥मृणालगौरं गजचर्मवाससं गंगातरङ्गोक्षितमौलिदेशकम् ॥नागेन्द्रहारावलिकण्ठभूषणं किरीटकाच्यंगदकंकणोज्ज्वलम् ॥४८ ॥शूलासिखट्वांगकुठारचर्ममृगाभयाष्टांगपिनाकहस्तम् ॥वृषोपरिस्थं शितिकण्ठभूषणं प्रोद्भूतमग्रे स नृपो ददर्श ॥४९॥ततोम्बराद्द्रुतं पेतुर्द्दिव्याः कुसुमवृष्टयः ॥प्रणेदुर्देवतूर्य्याणि देव्यश्च ननृतुर्जगुः ॥५०॥तत्राजग्मुः स्तूयमाना हरिर्ब्रह्मा तथासुराः ॥इन्द्रादयो नारदाद्या मुनयश्चापरेऽपि च ॥५१॥तदोत्सवो महानासीत्तत्र भक्तिप्रवर्धनः ॥सति पश्यति भूपाले भक्तिनम्रीकृताञ्जलौ ॥५२॥तद्दर्शनानन्दविजृम्भिताशयः प्रवृद्धवाष्पाम्बुविलिप्तगात्रः ॥प्रहृष्टरोमा स हि गद्गदाक्षरस्तुष्टाव गीर्भिर्मुकुलीकृतांजलिः ॥५३॥ततस्स भगवान्राज्ञा संस्तुतः परमेश्वरः ॥प्रसन्नः सह पार्वत्या तमुवाच दयानिधिः ॥५४॥राजंस्ते परितुष्टोहं भक्त्या त्वद्धर्मतोऽधिकम् ॥वरं ब्रूहि सपत्नीकम्प्रयच्छामि न संशयः ॥५५॥तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ॥व्याघ्रेण या परिग्रस्ता साक्षाद्देवी शिवा हि सा ॥५६॥व्याघ्रो मायामयो यस्ते शरैरक्षत विग्रहः ॥धीरतान्द्रष्टुकामस्ते पत्नी याचितवानहम् ॥५७॥नन्दीश्वर उवाच ॥इत्याकर्ण्य प्रभोर्वाक्यं स भद्रायुर्महीपतिः ॥पुन प्रणम्य संस्तूय स्वामिनं नतकोऽब्रवीत् ॥५८॥भद्रायुरुवाच ॥एक एव वरो नाथ यद्भवान्परमेश्वरः ॥भवतापप्रतप्तस्य मम प्रत्यक्षतां गतः ॥५९॥यद्ददासि पुनर्नाथ वरं स्वकृपया प्रभो ॥वृणेहं परमं त्यक्तो वरं हि वरदर्षभात् ॥६०॥वज्रबाहुः पिता मे हि सप त्नीको महेश्वर ॥सपत्नीकस्त्वहं नाथ सदा त्वत्पादसेवकः ॥६१॥वैश्यः पद्माकरो नाम तत्पुत्रस्सनयाभिधः ॥सर्वानेतान्महेशान सदा त्वं पार्श्वगान्कुरु ॥६२॥नन्दीश्वर उवाच ॥अथ राज्ञी च तत्पत्नी प्रमत्ता कीर्तिमालिनी ॥भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम् ॥६३॥सत्युवाच ॥चन्द्रांगदो मम पिता माता सीमन्तिनी च मे ॥तयोर्याचे महादेव त्वत्पाश्वे सन्निधिं मुदा ॥६४॥नन्दीश्वर उवाच ॥एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ॥तयोः कामवरन्दत्त्वा क्षणादन्तर्हितोऽभवत् ॥६५॥भद्रायुरपि सुप्रीत्या प्रसादम्प्राप्य शूलिनः ॥सहितः कीर्तिमालिन्या बुभुजे विषयान्बहून् ॥६६॥कृत्वा वर्षायुतराज्यमव्याहतपराक्रमः ॥राज्यं विक्षिप्य तनये जगाम शिवसन्निधिम् ॥६७॥चन्द्रांगदोपि राजेन्द्रो राज्ञी सीमन्तिनी च सा ॥भक्त्या संपूज्य गिरिशं जग्मतुः शाम्भवं पदम् ॥६८॥द्विजेश्वरावतारस्ते वर्णितः परमो मया ॥महेश्वरस्य भद्रायुपरमानन्ददः प्रभो ॥६९॥इदं चरित्रं परमं पवित्रं शिवावतारस्य पवित्रकीर्त्तेः ॥द्विजेशसंज्ञस्य महाद्भुतं हि शृण्वन्पठञ्शम्भुपदम्प्रयाति ॥७०॥य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥न श्चोतति स्वधर्मात्स परत्र लभते गतिम् ॥७१इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां द्विजेशनाम शिवावतारवर्णनं नाम सप्तविंशोऽध्यायः ॥२७ ॥( ७७) N/A References : N/A Last Updated : October 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP