शतरुद्रसंहिता - अध्यायः २

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नन्दीश्वर उवाच ॥
शृणु तात महेशस्यावतारान्परमान्प्रभो ॥
सर्वकार्यकराँल्लोके सर्वस्य सुखदान्मुने ॥१॥
तस्य शंभोः परेशस्य मूर्त्यष्टकमयं जगत् ॥
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥२॥
शर्वो भवस्तथा रुद्र उग्रो भीमः पशो पतिः ॥
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥३॥
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥
अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि ॥४॥
धत्ते चराचरं विश्वं रूपं विश्वंभरात्मकम् ॥
शंकरस्य महेशस्य शास्त्रस्यैवेति निश्चयः ॥५॥
संजीवनं समस्तस्य जगतः सलिलात्मकम् ॥
भव इत्युच्यते रूपं भवस्य परमात्मनः ॥६॥
बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ॥
उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ॥७॥
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ॥
रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ॥८॥
सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ॥
रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ॥९॥
सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ॥
ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ॥१०॥
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥
महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ॥११॥
आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ॥
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥१२॥
शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ॥
तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात ॥१३॥
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥
तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः ॥१४॥
क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ॥
अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः ॥१५॥
अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ॥
भजस्व सर्वभावेन रुद्रं परमकारणम् ॥१६॥
इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ॥
सर्वोपकारनिरताः सेव्याः श्रेयोर्थिभिर्नरैः ॥१७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP