शनैश्चरस्तवराजः - नारद उवाच- ध्यात्वा गणपति...

मनुष्य आपल्या पूर्व जन्मींच्या कर्मानुसार हा जन्म भोगत असतो, पण या जन्मीच्या सर्व पीडा नवग्रहांच्या पूजा अर्चा करून जीवन सुखमय बनवू शकतो.


नारद उवाच-
ध्यात्वा गणपतिं राजा धर्मराजा युधिष्ठिरः ।
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् ॥१॥
शिरो मे भास्करः पातु भालम् छायासुतोऽवतु ।
कोटराक्षो दृशौ पातु शितिकण्ठनिभःश्रुती ॥२॥
घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु ।
स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु ॥३॥
सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु ।
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः ॥४॥
पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः ।
रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम् ॥५॥
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः ।
सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ॥६॥
शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः
शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः ॥७॥
कालदृष्टिःकोटराक्षः स्थूलरोमावलीमुखः ।
दीर्घोनिर्मांसगात्रस्तु शुष्को घोरो भयानकः ॥८॥
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुजटाधरः ।
मन्दो मन्दगतिः खञ्जस्तृप्तः संवर्तको यमः ॥९॥
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी ।
कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः ॥१०॥
केतुर्देवपतिर्बाहुः कृतान्तो नैऋतस्तथा ।
शशी मरुत् कुबेरश्च ईशानः सुर आत्मभूः ॥११॥
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः ।
कर्ता हर्ता पालयिता राज्येशो राज्यदायकः ॥१२॥
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः ।
क्रूरकर्मविधाता च सर्वधर्मावरोधकः ॥१३॥
तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः ।
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ॥१४॥
स्थिरासनः स्थिरगतिर्महाकायो महाबलः ।
महाप्रभो महाकालः कालात्मा कालकालकः ॥१५॥
आदित्यभयदाता च मृत्युरादित्यनन्दनः ।
शतभिङृक्षदयितः त्रयोदशीतिथिप्रियः ॥१६॥
तिथ्यात्मकस्तिथिगणो नक्षत्रगणनायकः ।
योगराशिमुहूर्तात्मा कर्ता दिनपति प्रभुः ॥१७॥
शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः ।
नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः ॥१८॥
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः ।
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः ॥१९॥
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् ।
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान् यः स्वयं सदा ॥२०॥
विशेषतः शनिदिने पीडा तस्य विनश्यति ।
जन्मलग्ने स्थितेवापि गोचरे क्रूरराशिगे ॥२१॥
दशासु च गते सौरौ तदा स्तवमिमं पठेत् ।
पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः ॥२२॥
विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते ।
बाधयाऽन्यग्रहाणां च यः पठेत्तस्य नश्यति ॥२३॥
भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् ।
रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् ॥२४॥
पुत्रवान् धनवान् श्रीमान् जायते नात्र संशयः ॥२५॥

नारद उवाच-
स्तोत्रं निशम्य पार्थस्य प्रत्यक्षोऽभूत् शनैश्चरः ।
दत्वा राज्ञे वरं कामं शनिश्चान्तर्दधे तदा ॥२६॥

॥इति श्रीभविष्यत्पुराणे शनैश्चरस्तवराजः समाप्तः॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP