गणपति और गौरीकी पूजा

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


गणपति और गौरीकी पूजा
(पूजामें जो वस्तु विद्यमान न हो उसके लिये ‘मनसा परिकल्प्य समर्पयामि’ कहे । जैसे, आभूषणके लिये ‘आभूषणं मनसा परिकल्प्य समर्पयामि’ ।
हाथमें अक्षत लेकर ध्यान करे-
भगवान गणेश का ध्यान -
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम्‍ ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपड्कजम्‍ ॥

भगवती गौरीका ध्यान -
नमो देव्यै महादेव्यै शिवायै सततं नम: ।
नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम्‍ ॥
श्रीगणेशाम्बिकाभ्यां नम:, ध्यानं समर्पयामि ।

भगवान्‍ गणेशका आवाहन -
ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम्‍ ॥ (यजुर्वेद २३।१९)
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष ।
माड्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन्‍ नमस्ते ॥
ॐ भूर्भव: स्व: सिद्धिबुद्धिसहिताय गणपतये नम:, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।
हाथमे अक्षत गणेशजीपर चढा दे । फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे ।
भगवती गौरीका आवाहन -
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वक: सुभद्रिकां काम्पीलवासिनीम्‍ ॥
हेमाद्रितनयां देवीं वरदां शड्करप्रियाम्‍ ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम्‍ ॥
ॐ भूर्भव: स्व: गौर्यै नम:, गौरीमावाहयामि, स्थापयामि, पूजयामि च ।

प्रतिष्ठा-ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ म्प्रतिष्ठ ॥
(यजुर्वेद २।१३)
अस्यै प्राणा: प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम्‍ ।
प्रतिष्ठापूर्वकम्‍ आसनार्थे अक्षतान्‍ समर्पयामि गणेशाम्बिकाभ्यां नम: ।
(आसनके लिये अक्षत समर्पित करे) ।
पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय
ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‍ ॥ (यजु १।१०)
एतानि पाद्यार्घ्याचमनीयस्नानीपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नम: । (इतना कहकर जल चढा दे) ।

दुग्धस्नान-
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम्‍ ॥ (यजुर्वेद १८।३६)
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्‍ ।
पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, पय:स्नानं समर्पयामि ।
(दूधसे स्नान कराये) ।

दधिस्नान-
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखा करत्प्र ण आयू षि तारिषत्‍ ॥
(यजु० २३।३२)
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्‍ ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, दधिस्नानं समर्पयामि ।
(दधिसे स्नान कराये) ।

घृतस्नान-
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम्‍ ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्‍ ॥ (यजु० १७।८८)
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्‍ ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, घृतस्नानं समर्पयामि ।
(घृतसे स्नान करे)

मधुस्नान-
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥
नक्तमुतोषसो मधुमत्पार्थिव रज: । मधु द्यौरस्तु न: पिता ॥
(यजु १३।२७-२८)
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेज: पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, मधुस्नानं समर्पयामि । (मधुसे स्नान कराये)

शर्करास्नान-ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम्‍ ।
अपा रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टताम्‍ ॥
(यजु०९।३)
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्‍ ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, शर्करास्नानं समर्पयामि ।
(शर्करासे स्नान कराये)

पञ्चामृतस्नान-
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्त्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित्‍ ॥ (यजु०३४।११)
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, पञ्चामृतस्नानं समर्पयामि । (पञ्चामृतसे स्नान कराये ।)

गन्धोदकस्नान-
ॐ अ शुना ते अ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥ (यजु०२०।२७)
मलयाचलसम्भूतचन्दनेन विनि:सृतम्‍ ।
इदं गन्धोदकस्नानं कुडकुमाक्तं च गृह्यताम्‍ ॥
ॐ भूर्भूव: स्व: गणेशाम्बिकाभ्यां नम:,गन्धोदकस्नानं समर्पयामि । (गन्धोदकसे स्नान कराये ।)

शुद्धोदकस्नान-
ॐ शुद्धवाल: सर्वशुद्धवालो मणिवालस्त आश्विना:
श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरुपा: पार्जन्या: ॥
(यजु०२४।३)
गड्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, शुद्धोदकस्नानं समर्पयामि । (शुद्ध जलसे स्नान कराये ।)

आचमन-
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

वस्त्र-
ॐ युवा सुवासा: परिवीत आगात्‍ स उ श्रेयान्‍ भवति जायमान: ।
तं धीरास: कवय उन्नयति स्वाध्यो३ मनसा देवयन्त: ॥
(ऋग्‍०३।८।४)
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्‍ ।
देहालड्करणं वस्त्रमत: शान्तिं प्रयच्छ मे ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, वस्त्रं समर्पयामि । (वस्त्र समर्पित करे ।)
आचमन-
वस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

उपवस्त्र-
ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्व: ।
वासो अग्ने विश्वरुप सं व्ययस्व विभावसो ॥ (यजु०११।४०)
यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम्‍ समर्पयामि) ।
(उपवस्त्र समर्पित करे ।)
आचमन-
उपवस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

यज्ञोपवीत-
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्‍ ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज: ॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्‍ ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भूव: स्व: गणेशाम्बिकाभ्यां नम:, यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत समर्पित करे ।)
आचमन-यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
(आचमनके लिये जल दे ।)

चन्दन-
ॐ त्वां गन्धर्वा अखनँस्त्वामिद्रस्त्वां बृहस्पति: ।
त्वामोषधे सोमो राजा विद्वान्‍ यक्ष्मादमुच्यत ॥
(यजु०१२।९८)
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्‍ ।
विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, चन्दनानुलेपनं समर्पयामि । (चन्दन अर्पित करे )

अक्षत-
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्रते हरी ॥
(यजु०३।५१)
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता: सुशोभिता: ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
ॐ भूर्भव स्व: गणेशाम्बिकाभ्यां नम:, अक्षतान्‍ समर्पयामि । (अक्षत चढाये ।)

पुष्पमाला-
ॐ औषधी: प्रति मोदध्वं पुष्पवती: प्रसूवरी: ।
अश्वा इव सजित्वरीर्वीरुध: पारयिष्णव: ॥ (यजु०१२।७७)
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, पुष्पमालां समर्पयामि ।
(पुष्पमाला समर्पित करे ।)

दूर्वा-
ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥ (यजु०१३।२०)
दूर्वांकुरान्‍ सुहरितानमृतान्‍ मंगलप्रदान्‍ ।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, दूर्वाड्कुरान्‍ समर्पयामि ।
(दुर्वाड्कुर चढाये ।)

सिन्दूर-
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमिय: पतयन्ति यह्णा: ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥ (यजु०१७।९५)
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्‍ ।
शुभदं कामदं चैव सिन्दुरं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, सिन्दूरं समर्पयामि । (सिन्दूर अर्पित करे ।)

अबीर-गुलाल आदि नाना परिमल द्रव्य-
ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो विश्वा वयुनानि विद्वान्‍ पुमान्‍ पुमा सं परि पातु विश्वत: ॥ (यजु०२९।५१)
अबीरं च गुलालं च हरिद्रादिसमन्वितम्‍ ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, नानापरिमलद्रव्याणि समर्पयामि ।
(अबीर आदि चढाये ।)

सुगन्धिद्रव्य-
ॐ अहिरिव --------- विश्वत: ॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्‍ ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, सुगन्धिद्रव्यं समर्पयामि । (सुगन्धित द्रव्य अर्पण करे ।)

धूप-
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्‍ धूर्वति तं धूर्व यं वयं धूर्वाम: ।
देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्‍ ॥ (यजु०१।८)
वनस्पतिरसोद्भूतो गन्धाढ्यो उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, धूपमाघ्रापयामि । (धूप दिखाये ।)

दीप-
ॐ अग्निर्ज्योतिर्ज्योतिरग्नि: स्वाहा सूर्यो ज्योतिर्ज्योति: सूर्य: स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्च: स्वाहा सूर्यो वर्चो ज्योतिर्वर्च: स्वाहा ॥
ज्योति: सूर्य: सूर्यो ज्योति: स्वाहा ॥ (यजु० ३।९)
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्‍ ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद्‍ घोराद्‍ दीपज्योतिर्नमोऽस्तु ते ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, दीपं दर्शयामि । (दीप दिखाये ।)

हस्तप्रक्षालन-
‘ॐ हृषीकेशाय नम:’ कहकर हाथ धो ले ।

नैवेद्य-
नैवेद्यको प्रोक्षित कर गन्ध-पुष्पसे आच्छादित करे । तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवान्‍के आगे रखे ।
ॐ नाभ्या आसीदन्तरिक्ष शीर्ष्णो द्यौ: समवर्तत ।
पद्‍भ्यां भूमिर्दिश: श्रोत्रात्तथा लोकाँ२ अकल्पयन्‍ ॥
(यजु० ३१।१३)
ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा ।
ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करे ।)
नैवेद्यान्ते आचमनीयं जलं समर्पयामि । (जल समर्पित करे ।)

ऋतुफल-
ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस: ॥ (यजु० १२।८९)
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, ऋतुफलानि समर्पयामि । (ऋतुफल अर्पित करे ।)
फलान्ते आचमनीयं जलं समर्पयामि । (आचमनीय जल अर्पित करे ।)

उत्तरापोऽशन-उत्तरापोऽशनार्थे जलं समर्पयामि । गणेशाम्बिकाभ्यां नम: । (जल दे )

करोद्वर्तन-
ॐ अ शुना ते अ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो अच्युत: ॥
(यजु० २०।२७)
चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम्‍ ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, करोद्वर्तनकं चन्दनं समर्पयामि । (मलयचन्दन समर्पित करे ।)

ताम्बूल-
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्म: शरद्धवि: ॥ (यजु० ३१।१४)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्‍ ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‍ ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, मुखवासार्थम्‍ एलालवंगपूगीफलसहितं ताम्बूलं समर्पयामि । (इलायची,लौंग-सुपारीके साथ ताम्बूल अर्पित करे ।)

दक्षिणा-
ॐ हिरण्यगर्भ: समवर्तताग्रे भूतस्य जात: पतिरेक आसीत्‍ ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ (यजु० १३।४)
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो: ।
अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, कृताया: पूजाया:
साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । (द्रव्य दक्षिणा समर्पित करे ।)

आरती-
ॐ इद हवि: प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्नि: प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥ (यजु० १९।४८)
ॐ आ रात्रि पार्थिव रज: पितुरप्रायि धामभि: ।
दिव: सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तम: ॥ (यजु० ३४।३२)
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्‍ ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, आरार्तिकं समर्पयामि ।
(कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे ।)
पुष्पाञ्जलि-
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‍ ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा : ॥
(यजु० ३१।१६)
ॐ गणानां त्वा ............ ॥ (पृ०१७४)
ॐ अम्बे अम्बिके ..........॥ (पृ०१७४)

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, पुष्पाञ्जलिं समर्पयामि । (पुष्पाञ्जलि अर्पित करे ।)

प्रदक्षिणा-
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषंगिण: ।
तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि । (यजु) १६।६१)
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पद ॥
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, प्रदक्षिणां समर्पयामि ॥
(प्रदक्षिणा करे ।)

विशेषार्घ्य-
ताम्रपात्रमें जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढे -
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्‍ ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।
ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, विशेषार्घ्य समर्पयामि ।
(विशेषार्घ्य दे ।)

प्रार्थना-
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय
भक्तार्तिनाशनपराय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय
भक्तप्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरुपाय विष्णुरुपाय ते नम:
नमस्ते रुद्ररुपाय करिरुपाय ते नम: ।
विश्वरुपस्वरुपाय नमस्ते ब्रह्मचारिणे
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति
भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
तेभ्यो गणेश वरदो भव नित्यमेव ॥
त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्‍
त्वं वै प्रसन्ना भुवि मुक्तिहेतु: ॥

ॐ भूर्भव: स्व: गणेशाम्बिकाभ्यां नम:, प्रार्थनापूर्वकं नमस्कारान्‍ समर्पयामि ।
(साष्टांग नमस्कार करे ।)

गणेशपूजने कर्म यत्र्यूनमधिकं कृतम्‍ ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया गणेशाम्बिके प्रीयेताम्‍, न मम ।
(ऐसा कहकर समस्त पूजनकर्म भगवान्‍को समर्पित कर दे)
तथा पुन: नमस्कार करे ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP