मराठी मुख्य सूची|स्तोत्रे|पञ्चरत्नम् पञ्चकम्| उद्यद्भानुसहस्रकोटिसदृशां... पञ्चरत्नम् पञ्चकम् प्रातः स्मरामि ललितावदनार... करुणापूर्णसुधाब्धे कबलितघ... ज्ञानानन्दामलात्मा कलिकलु... कञ्जातपत्रायतलोचनाय कर्णा... लोकवीरं महापूज्यं सर्वरक्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... उद्यद्भानुसहस्रकोटिसदृशां... रक्ताम्भोरुहदर्पभञ्जनमहास... षडाननं चन्दनलेपिताङ्गं मह... अम्बा शंबरवैरितातभगिनी श्... मीनाक्षीपञ्चरत्नम् - उद्यद्भानुसहस्रकोटिसदृशां... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : panchakampancharatnamstotraपंचकम्पंचरत्नम्स्तोत्र श्री शंकराचार्यकृतम् Translation - भाषांतर उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलांबिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥१॥मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभांशिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥२॥श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलांश्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनींमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥३॥श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥४॥नानायोगिमुनीन्द्रहृत्सुवसतिंनानार्थसिद्धिप्रदांनानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥५॥ N/A References : N/A Last Updated : February 25, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP