संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| चतुर्दश: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - चतुर्दश: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत पद्मपादतीर्थयात्रावर्णनम् Translation - भाषांतर अथाब्जपात् कर्तुमना: स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे बहुतीर्थयुक्तान् ॥१॥स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयाड् घ्रिजलं तीर्थम् ।गुरुपदेशेन यदात्मदृष्टि: सैव प्रशस्ताऽखिलदेवदृष्टि: ॥२॥शुश्रूषमाणेन गुरो: समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३॥व्दिधा हि संन्यास उदीरितोऽयं विबुध्दतत्त्वस्य च तद्बुभुत्सो: ।तत्त्वपदार्थैक्य उदीरितोऽयं यत्नात्त्वमर्थ: परिशोधनीय:॥४॥संभाव्यते क च जलं क च नास्ति पाथ: शय्यास्थलं कचिदिहास्ति न च क चास्ति ।शय्यास्थलीजलनिरीक्षणसक्तचेता:पान्थो न शर्म लभते कलुषीकृतात्मा ॥५॥ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपाय: ।स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुश्चतीमम् ॥६॥स्रानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधय: ।क चाशनं कुत्र च मित्रसंगति: पान्थो न शाकं लभते क्षुधातुर:॥७॥नास्त्युत्तरं गुरुगिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपाश्चवास: ।श्रेयानिति प्रथमसंयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥८॥सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु ।मार्गो हि विद्येत न सुव्यवस्थ: सुखेन पुण्यं क नु लभ्यतेऽधुना ॥९॥जन्मान्तरार्जितमघं फलदानहेतो -र्व्याध्यात्मना जनिमुपैति न नो विवाद: ।साधारणादिह च वा परदेशके वाकर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥१०॥इह स्थितं वा परत: स्थितं वा कालो न मुश्चेत् समयागतश्चेत् ।तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥११॥मन्वादयो मुनिवरा: खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिप्रवृध्दम् ।देशाद्यवेक्ष्य न तु तत्सरणिं गतानां शौचाद्यतिक्रमकृतं प्रभवेदघं न : ॥१२॥दैवेऽनुकुले विपिनं गतो वा समप्रुयाव्दाञ्छितमन्नमेष: ।ह्रियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥१३॥गृहं परित्यज्य विदेशगो ना सुखं समगच्छति तीर्थदृश्वा ।गृहं गतो याति मृतिं पुरस्तात्तदागमदत्न च किं निमित्तम् ॥१४॥देशे कालेऽवस्थितं तव्दिमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।चित्तैकाग्र्ये विद्यमाने समाधि: सर्वत्रासौ दुर्लभो नेति मन्ये ॥१५॥सत्तीर्थसेवा मनस: प्रसादिनी देशस्य वीक्षा मनस: कुतूहलम् ।क्षिणोत्यनर्थान् सुजनेन सडमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥१६॥अटाटयमानोऽफि विदेशसडतिं लभेत विव्दान् विदुषाऽभिसडतिम् ।बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥१७॥समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद हृदयेन धारयेत् ।समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥१८॥सुजन: सुजनेन संगत: परिपुष्णाति मतिं शनै: शनै: ।परिपुष्ट्मातिर्विवेकवाञ्शनकैर्हेयगुणं विमुश्चति ॥१९॥यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्रो मयाऽत्र न खलु क्रियते पुमर्थे ।चित्तस्थिरत्वगतये विहितो निषेधो मा भूव्दिशेषगमनं त्वतिदु:खहेतु: ॥२०॥नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।विप्राग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष न्नो चेत्सार्धं परिचितजनै: शीघ्रमुद्दिष्टदेशम् ॥२१॥सद्भि: सडो विधेय: स हि सुखनिचयं सूयते सज्जनाना मध्यात्मैक्ये कथास्ता घटितबहुरसा: श्राव्यमाणा: प्रशान्तै: ।कायक्लेशं विभिन्द्यु: सततभयभिद: श्रान्तविश्रामवृक्षा:स्वान्तश्रोत्राभिरामा: परिमृषिततृष: क्षोभितक्शुत्कलका: ॥२२॥सत्सडोऽयं बहुगुणयुतोऽप्येकदोषेण दुष्टो यत् स्वान्तेऽयं तपति च परं सूयते दु:खजालम् ।खल्वासडो वसतिसमये शर्मद: पूर्वकाले प्रायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥२३॥मार्गे यास्यन्न बहुदिवसान् पाथस: संग्रही स्या -त्तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्रस्तत: स्यात् ।प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिध्दे र्मूलाद्भ्रंशोऽभिलषितपदप्राप्त्यभावोऽन्यथा हि ॥२४॥मार्गे चोरा निकृतिवपुष: संवसेयु: सहैवछन्नात्मानो बहुविधगुणै: संपरीक्ष्या: प्रयत्नात् ।देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा विश्वासोऽतोऽपरिचितनृषु प्रोज्ज्ञनीयो न कार्य: ॥२५॥मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भिक्षवस्तेऽभिगम्या: ।पूज्या: पूज्यास्तव्दयतिक्रान्तिरुग्रा श्रेयस्कार्य निष्फलीकर्तुमीशा: ॥२६॥यदापदपं सदा यतिवर स्थितं वस्तु त -न्मतं भज मितंपचान् मनसि मा कृथा: प्राकृतान् ।कषायकलुषाशयक्षतिविनिर्वृत: सन्मत: सुखी चर सुखे चिरात् स्फुरति संततानन्दता ॥२७॥इत्थं गुरोर्मुखगुहोदितवाक्सुधां तामापीय हृष्टहृदय: स मुनि: प्रतस्थे ।प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यै: कालं कियन्तमनयत् सह श्रृडकुध्रे ॥२८॥अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्य: ।अव्लंबिततारकापथोऽसावचिरादन्तिकमाससाद मातु: ॥२९॥तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।सा चैनमुव्दीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥३०॥असावसडोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।अम्बायमस्त्यत्र शुचं जहीहि प्रब्रूहि किं ते करवाणि कृत्यम् ॥३१॥दृष्ट्रा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।अस्यां दशायां कुशली मया त्वं दिष्टयाऽसि दृष्ट: किमतोऽस्ति कृत्यम् ॥३२॥इत: परं पुत्रक गात्रमेतव्दोढुं न शक्रोमि जरातिशीर्णम् ।संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृत्त मां प्रापय पुण्यलोकान् ॥३३॥सुतानुगां सूक्तिमिमां जनन्या: श्रुत्वाऽथ तस्मै सुखरुपमेकम् ।मायामयाशेषविशेषशून्यं मानातिगं स्वप्रभमप्रमेयम् ॥३४॥उपादिशब्रह्म परं सनातनं न यत्र हस्ताड् घ्रिविभागकल्पना ।अन्तर्बहि: संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥३५॥सौम्यागुणे मे रमते न चित्तं रम्य रम्यं वद त्वं सगुणं तु देवम् ।न बुध्दिमारोहति तत्त्वमात्रं यदेकमस्थूलमनण्वगोत्नम् ॥३६॥निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।वृर्तैभुजडोपपदै: प्रसन्न: प्रस्थापयामास स च स्वदुतान् ॥३७॥विलोक्य ताञ्शूलपिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् ।तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥३८॥भुजगाधिपभोगतल्पभाजं कमलाकस्थलकल्पिताड् घ्रिपद्मम् ।अभिवीजितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ॥३९॥विहिताज्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।धृतमूर्तिभिरस्रदेवताभि: परित: पश्चभिरश्चितोक्पकण्ठम् ॥४०॥महनीयतमालकोमलाडं मुकुटीरत्नचयं महार्हयन्तम् ।शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥४१॥तत्तादृशं निजसुतो दितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि ।चित्तेन कज्जनयनं हृदि भावयन्ती तत्याज देहमबला किल योगिवत्सा ॥४२॥तत: शरचन्द्रमरीचिरोचिर्विचित्रपारिलवकेतनाढयम् ।विमानमादाय मनोज्ञरुपं प्रादुर्बभूवु: किल विष्णुदूता: ॥४३॥वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।विमानमारोप्य विराजमानमनायि तै: सा बहुमानपूर्वम् ॥४४॥इयमर्चिरहर्वलक्षपक्षान् षडुदडमासमानिलार्कचन्द्रान् ।चपलावरुणेन्द्रधातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥४५॥स्वयमेव चिकीर्षुरेष मातुश्वरमं कर्म समाजुहाव बन्धून ।किमिहास्ति यते तवाधिकार: कितवेत्येनममी निनिन्दुरुचै: ॥४६॥अनलं बहुधाऽर्थिताऽपि तस्मै वत नाऽऽदत्त च बन्धुता तदीया ।अथ कोपपरीवृतान्तरोऽसावखिलांस्तानशपच निर्ममेन्द्र: ॥४७॥सश्चित्य काष्ठान सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्र: ।स दक्षिणे दोष्णि ममन्थ वह्रिं ददाह तां तेन च संयतात्मा ॥४८॥न याचिता वह्रिमदुर्यदस्मै शशाप तान् स्वीयजनान सरोष: ।इत: परं वेदबहिष्कृतास्ते व्दिजा यतीनां न भवेच्च भिक्षा ॥४९॥गृहोपकण्ठेषु च व: श्मशासनद्यप्रभृत्यस्त्विति ताञ्शशाप ।अद्यापि तद्देशभवा न वेदमधीयते नो यमिनं च भिक्षा ॥५०॥तदाप्रभृत्येव गृहोपकण्ठेष्वासीच्छमशानं किल हन्त तेषाम् ।महत्सु धीपूर्वकृतापराधो भवेत् पुन: कस्य सुखाय लोके ॥५१॥शान्त: पुमानिति न पीडनमस्य कार्य शान्तोऽपि पीडनवशात् क्रुधमुव्दहेत् स: ।स्तीव्राहुताशजनको भवति क्षणेन ॥५२॥यद्यप्यशास्त्रीयतया विभाति तेजस्विनां कर्म तथाऽप्यनिन्द्यम् ।विनिन्द्यकृत्यं किल भार्गवस्य ददु: स्वपुत्रान् कतिचिदृकाय ॥५३॥इति स्वजननीमसौ मुनिजनैरपि प्रार्थितां पुन: पतनवर्जितामतनुसौख्यसंदोहिनीम् ।यतिक्षितिपतिर्गतिं वितमसं स नीत्वा तत स्ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥५४॥अथ तत्सहायजलजाड घ्रयुपागमेच्छुरभीप्सितेऽत्न विललम्ब एषक: ।जलाजाड घ्रिरप्यथ पुरा निज ज्ञया कृतवानुदीच्यबहुतीर्थसेवनम् ॥५५॥आससाद शनकैर्दिश मुनिर्यस्य जन्म वसुधाघटी स्मृता ।सा श्रुति: सकलरोगनाशिनी योऽपिबज्जलधिमेक बिन्दुवत् ॥५६॥अद्राक्षीत्सुभगाहिभूषिततनुं श्रीकालहस्तीश्वरं लिडे सन्निहितं दधानमनिशं चान्द्री कलां मस्तके ।पार्वत्या करुणारसार्द्रमनसाऽऽश्लिष्टं प्रमोदास्पदं देवैरिन्द्रपुरोगमैर्जय जयेत्याभाष्यमाणं मुनि: ॥५७॥स्रात्वा सुवर्णमुखरीसलिलाशयेऽन्तर्गत्वव पुन: प्रणमति स्मं शिवं भवान्या ।आनर्च भावकुसुमैर्मनसा नुनाव स्तुत्वा च तं पुनरयाचत तीर्थयात्राम् ॥५८॥लब्ध्वाऽनुज्ञां तज्ज्ञराट् कालह्स्तिक्षेत्रात् काश्चीक्षेत्रमागात् पवित्रम् ।संसाराब्धिं संतितीर्षो: प्रसिध्दं वृध्दा: प्राहुर्यध्दि लोके ह्यमुष्प्रिन् ॥५९॥तत्रैकाम्राधीश्वरं विश्वनाथं नत्वा गम्यं स्वीयभाग्यतिशीत्या ।देवीं धामान्तर्गतामन्तकारेर्हार्द रुद्रस्येव जिज्ञासमानाम् ॥६०॥कलालेशं द्राक्ततो नातिदूरे लक्ष्मीकान्तं संवसन्तं पुराणम् ।कारुण्यार्द्रस्वान्तमन्तादिशून्यं दृष्ट्रा देवं संतुतौषैकभक्त्या ॥६१॥पुण्डरीकपुरमाययौ मुनिर्यत्र नृत्यति सदाशिवोऽनिशम् ।वीक्षते प्रकृतिरादिमा हृदा पार्वतीपरिणति: शुचिस्मिता ॥६२॥ताण्डवं मुनिजनोऽत्र वीक्षते दिव्यचक्षुरमलाशयोऽनिशम् ।जन्ममृत्युभयभेदि दर्शनान्नेत्रमानसविनोदकारकम् ॥६३॥किंचात्र तीर्तमिति भिक्षुगणेन कश्चित् ।पृष्टोऽब्रवीच्छिवपदाम्बुजसक्तचित्त: ।संप्रार्थित: करुणयाऽस्मरदत्र गडां देवोऽथ संन्यधित दिव्यसरित् सुतीर्थम् ॥६४॥शिवाज्ञयाऽभूदिति तीर्थमेतच्छिवस्य गडा प्रवदन्ति लोके ।स्रानादमुष्यां विधुतोरुपापा: शनै : शनैस्ताण्डवमीक्षमाणा: ॥६५॥शिवस्य नाटयश्रमकशिंतस्य श्रमापनोदाय विचिन्तयन्ती ।शिवेति गडापरिणामगाऽभूत्ततोऽथवैतत्प्रथितं तदाख्यम् ॥६६॥नृत्यत्तीरहतस्खलज्जलगते: पर्यापतव्दिन्दुकं पार्श्वे स्वावसतेर्विनोदवशतो यज्जह्रुकन्यापय: ।नृत्यं तन्वति धूर्जटौ विगलितं प्रेखज्जटामण्डला त्तेनैतच्छिवजाह्रवीति कथयन्त्यन्ये विपश्चिज्जना: ॥६७॥स्रायंस्रायं तीर्थवर्येऽत्र नित्यं वीक्षंवीक्षं देवपादाब्जयुग्मम् ।शोधंशोधं मानसं मानवोऽसौ वीक्षेतेदं ताण्डवं शुध्दचेता: ॥६८॥शुध्दं महव्दर्णयितुं क्षमेत पुण्यं पुरारि: स्वयमेव तस्य ।निमज्ज्य शम्भुद्युसरित्यमुष्यां दाक्षायणिनाथमुदीक्षते य:॥६९॥इतीरित: शकरयोजितात्मा केनापि भिक्षुर्मुदितो जगाहे ।तीर्थ तदाप्लुत्य ननाम शम्भोरड् घ्रि जितात्मा भुवनस्य गोप्तु: ॥७०॥रामसेतुगमनाय संदधे मानसं मुनिरनुत्तम: पुन: ।वर्त्मनि प्रयतमानसो व्रजन् संददर्श सरितं कवेरजाम् ॥७१॥यत्पवित्रपुलिनस्थलं पय: सिन्धुवासरसिकाय विष्णवे ।अभ्यरोचत हिरण्यवाससे पद्मनाभमुखनामशालिने ॥७२॥सह्यपर्वतसुतातिनिर्मलाम्भोभिषिक्तभगवत्पदाम्बुजे ।आकलय्य बहुशिष्यसंवृत्त: प्रास्थिताभिरुचितस्थलाय स:॥७३॥गच्छन गच्छन् मार्गमध्येऽभियातं गेहं भिक्षुर्मातुलस्याऽऽजगाम ।दृष्टा शिष्यैस्तं चिरेणाभियातं मोदं प्रावन्मातुल: शास्त्रवेदी ॥७४॥शुश्राव तं बन्धुजन: सशिष्य स्वमातुलागाग्मुपेयिवांमम् ।आगत्य दृष्ट्रा चिरमागतं तं जहर्ष हर्पातिशयेन साक्षु: ॥७५॥रुरोद कश्चिन्मुमुदेऽत्र कश्चिज्जहास पूर्वावरितं बभाषे ।कश्चित्प्रमोदातिशयेन किश्चिव्दच: स्खलद्री: प्रणनाम कश्चित् ॥७६॥ऊचेऽथ तं ज्ञातिजन: प्रमोदी दृष्ट्रा चिरायाक्षिपथं गतोऽभू: ।दिदृक्षते त्वां जनाताऽतिहार्दात्तथाऊपि शक्रोषि न वीक्षणाय ॥७७॥पुत्रा: समित्रा न न बन्धुवर्गो न राजबाधा न च चोरभीति:? ।कृतार्थतामूलपदं यतित्वं प्रसूनवन्तं फलितं महान्तम् ॥७८॥शाखोपशाखाश्चितमेव वृक्षं वाधन्त आगत्य न तव्दिहीनम् ।यथा तथा वा धनिनं दरिद्रा बाधन्त आगत्य दिने दिने स्म ॥७९॥कुटुम्बरक्षागतमानसानामायाति निद्राऽपि सुखं न जातु ।क देवतार्चा क च तीर्थयात्रा क वा निषेवा महतां भवेन्न: ॥८०॥अश्रौष्म संन्यासकृतं भवन्तं विपात् कुतश्चिद्रुहमागतान्न:।कालोऽत्यगात्ते बहुरद्य दैवात्तीर्थस्य हेतोर्गृहमागतस्त्वम् ॥८१॥यथा शकुन्ता: परवर्धितान् द्रुमान् समाश्रयन्ते सुखदांस्त्यजन्त्यपि ।परप्रक्लृप्तान् मठदेवतागृहान्यति: समाश्रित्य तथोज्ज्ञति ध्रुवम् ॥८२॥यथा हि पुष्पाण्यभिगम्य षट्पदा: संगृह्य सारं रसमेव भुज्जते ।तथा यति: सारमवाप्नुवन् सुखं गृहाद्र्हादोदनमेग्व्ग भिक्षते ॥८३॥यतेर्विज्यात्मगति: कलत्रं देहं गृहं संयतमेव सौख्यम् ।विरक्तिभाजस्तनया: स्वशिष्या: किमर्थनीयं यतिनो महात्मन् ॥८४॥मनोरथानां न समाप्तिरिष्यते पुन: पुन: संतनुते मनोरथान् ।दारानभीप्सुर्यतते दिवानिशं तान् प्राप्य तेभ्यस्तनयानभीप्सति ॥८५॥अनाप्नुवन् दु:खमसौ सुतीव्रं प्राप्नोति चेष्टेन वियुज्यते पुन: ।सर्वात्मना कामवशस्य दु:खं तस्माव्दिरक्ति: पुरुषेण कार्या ॥८६॥विरक्तिमूलं मनसो विशुध्दि तन्मूलमाहुर्महतां निषेवाम् ।भवादृशास्तेन च दूरदेशे परोपकाराय रसामटन्ति ॥८७॥अज्ञातगोत्रा विदितात्मतत्त्वा लोकस्य दृष्टया जडव्दिभान्त: ।चरन्ति भूतान्यनुकम्पमाना: सन्तो यदृच्छोपनतोपभोग्या: ॥८८॥चरन्ति तीर्थान्यपि संग्रहीतुं लोकं महान्तो ननु शुध्दभावा: ।शुध्दात्मविद्याक्षपितोरुपापास्तज्जुष्टमम्भो निगदन्ति तीर्थम् ॥८९॥वस्तव्यमत्न कतिचिद्दिवसानि विव्दंस्त्वद्दर्शनं वितनुते मुदितादि भव्यम् ।एष्यव्दियोगचकिता जनतेयमास्ते दु:खं गतेऽत्र भवितेति भवत्यसडे ॥९०॥कोशं क्लेशमलस्य लास्यगृहमप्युद्रंहसामलयं पैशुन्यस्य निशान्तमुत्कटमृषाभाषाविशेषाश्रयम् ।हिंसामांसलमाश्रिता घनघनाशंसानृशंसा वयं वर्ज्य दुर्जनसडमं करुणया शोध्या यतीन्दो त्वया ॥९१॥संयुनक्ति वियुनक्ति देहिनं दैवमेव परमं मनागपि ।इष्टसडतिनिवृत्तिकालयोर्निर्विकारहृदयो भवेन्नर: ॥९२॥मध्याहकाले क्षुधितस्तृषार्त: क मेऽन्नदातेति वदन्नुपैति ।यस्तस्य निर्वापयिता क्षुदार्ते: कस्तस्य पुण्यं वदितुं क्षमेत ॥९३॥सायंपातर्वह्रिकार्य वितन्वन् मज्जंस्तोये दण्डकृष्णाजिनी च ।नित्यं वर्णी वेदवाक्यान्यधीयन् क्षुध्दवा शीघ्रं गेहिनी गेहमेति ॥९४॥उच्चै: शास्त्रं भाषमाणोऽपि भिक्षुस्तारं मन्त्नं सज्जपन्वा यतात्मा ।मध्येघस्रं जाठराग्रौ प्रदीप्ते दण्डी नित्यं गेहिनो गेहमेति ॥९५॥यदन्नदानेन निजं शरीरं पुष्णंस्तपोऽयं कुरुते सुतीव्रम् ।कर्तुस्तदर्ध ददतोऽन्नमर्धमिति स्मृति: संववृतेऽनवद्या ॥९६॥पुण्य गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ।विनाऽपि तत्कर्तृनिषेवणेन तीर्थादिसेवा बहुदु:खसाध्या ॥९७॥गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ।चौर्येण कश्चित्प्रणयेन कश्चिद्दानेन कश्चिव्दलतोऽपि कश्चित् ॥९८॥सन्तोषयेव्देदविदं व्दिजं य: सन्तोषयत्येष स सर्वदेवान् ।तव्देदविप्रे निवसन्ति देवा इति स्म साक्षाच्छुतिरेव वक्ति ॥९९॥स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रिया: सेवितसर्वतीर्था: ।परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥१००॥गृही गृहस्थोऽपि तदश्नुते फल यत्तीर्थसेवाभिरवाप्यते जनै: ।तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्य: प्रवसेन्न कश्चन ॥१०१॥अन्त: स्थिता मूषकमुख्यजीवा बहि:स्थिता गोमृगपक्षिमुख्या: ।जीवन्ति जीवा: सकलोपजीव्यस्तस्माद्रृही सर्ववरो मतो मे ॥१०२॥शरीरमूलं पुरुषार्थसाधनं तच्चान्नमूलं श्रुतितोऽवगम्यते ।तच्चान्नमस्माकममीषु संस्थितं सर्व फलं गेहपतिद्रुमाश्रयम् ॥१०३॥ब्रवीमि भूय: श्रुणुताऽऽदरेण वो गृहागतं पूजयताऽऽतुरातिथिम् ।संपूजितो वोऽतिथिरुध्दरेत्कुलं निराकृतात् किं भवतीति नोच्यते ॥१०४॥विनाऽभिसन्धिं कुरुत श्रुतीरितं कर्म व्दिजा नो जगतामधीश्वर: ।तुष्येदिति प्रार्थनयाऽपि तेन स्वान्तस्य शुध्दिर्भविताऽचिरेण व : ॥१०५॥ससंरभ्याश्लिष्यत्सुफणितिवधूटीकुचतटी -पटीवत्पाटीरागरवनवपकाकितहॄद: ।तथाऽप्येते पूता यतिपतिपदाम्भोजभजन -क्षणक्षीणक्लेशा: सदयहृदयाभा: सुकृतिन : ॥१०६॥संदिश्येत्थं बन्धुतां भिक्षुराजो भिक्षां चक्रे मातुलस्यैव गेहे ।पप्रच्छैनं मातुलो भुक्तवन्तं किंस्विच्छन्नं पुस्तकं शिष्यहस्ते ॥१०७॥टीका विव्दन् भाष्यगेति ब्रुवाणं तां देहीति प्रोचिषे दत्तवांश्च ।अद्राक्षीत्तां मातुलस्तस्य बुध्दिं दृष्ट्राऽऽनन्दीत् खेदमापच किश्चित् ॥१०८॥प्रबन्धनिर्माणविचित्रनैपुणीं दृष्ट्र प्रमोदं स विवेक किश्चित् ।मतान्तराणां किल युक्तिजालैर्निरुत्तरं बन्धनमालुलोके ॥१०९॥गुरोर्मतं स्वाभिमतं विशेषान्निराकृतं तत्र समत्सरोऽभूत ।साधुर्निबन्धोऽयमिति ब्रुवाणस्तं साभ्यासूयोऽपि कृताभिनन्द: ॥११०॥सेतुं गच्छाम्यालये पुस्तभारं ते न्यस्येमं वर्तते मेऽत्र जीव: ।विव्दन् यव्दद्रोगृहादौ परेषां प्रीति: पूर्णा नस्तथा पुस्तभारे ॥१११॥इत्युक्त्वा तैर्मातुलं मस्करीश: शिष्यैर्हृष्यन् सेतुमेष प्रतस्थे ।प्रस्थातु: श्रीपद्मपादस्य जातं कष्टं चैष्यत्सूचनायै निमित्तम् ॥११२॥वामं नेत्रं गन्तुरस्पन्दतैव बाहु: पुस्फोरापि वामस्तथोरु: ।चुक्षावोचैर्हन्त कश्चित्पुरस्तात्तत्सर्व द्राग्ज्ञोऽगणित्वा जगाम ॥११३॥गतेऽत्र मेने किल मातुलोऽस्य ग्रन्थे स्थितेऽस्मिन् गुरुपक्षहानि: ।दग्धेऽत्र जायेत महान् प्रचारो नोक्तया निराकर्तुमपि प्रभुत्वम् ॥११४॥पक्षस्य नाशाद्रृहनाश एव नो वरं गृहेणैव दहामि पुस्तकम् ।एवं निरुप्य न्यदधाध्दुताशनं चुक्रोश चाग्रिर्दहतीति मे गृहम् ॥११५॥ऐतिह्यमाश्रित्य वदन्ति चैवं तदेव मूलं मम भाषणेऽपि ।यावत्कृतं तावदिहास्य कर्तु: पापं तत: स्याद् व्दिगुणं प्रवक्तु: ॥११६॥गच्छन्नसौ फुल्लमुनेजंगाम तमाश्रमं यत्र च रामचन्द्र: ।अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥११७॥तीर्त्वा समुद्रं जनकात्मजाया: सन्दर्शनोपायमनीक्षमाण: ।वसुन्धरायां प्रवणा: पवडा न वारिराशौ पवनं क्षमन्ते ॥११८॥सश्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विव्दरगमेव किश्चित् ।संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभि: ॥११९॥आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्या: ।तत: पुमाकारमदृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥१२०॥मध्येप्रभामण्डलमैक्षताश्चितं शिंवाकृतिं सर्वतपोमयं पुन: ।लोपादिमुद्रासहितं महामुनिं प्राबोधि कुम्भोद्भवमादराज्जनै: ॥१२१॥अगस्त्यदृश्वा रघुनन्दनस्तत: स खेदमन्त: करणोत्थमत्यजत् ।प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातम: ॥१२२॥सभार्यमर्घ्यादिभिरर्चयित्वा रामस्तदड् घ्रिं शिरसा ननाम ।तूष्णीं मुहूर्त व्यसनार्णवस्थो धृतिं समास्थाय पुनर्बभाषे ॥१२३॥दृष्ट्रा भवन्तं पितृवत्प्रमोदे यन्मामगा दु:खमहार्णवस्थम् ।मन्ये ममाऽऽत्मानमवाप्तकामं वंशो महान्मे तपनात्प्रवृत्त: ॥१२४॥न तत्र मादृग्जनिता न जात: पदच्युतोऽहं प्रथमं सभार्य: ।सलक्ष्मणोऽशोकवने समास्ते कृशा वियोगास्त्स्वत एव तन्वी ॥१२६॥तीर्त्वा समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।थथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥१२७॥इतीरितो वाचमुवाच विव्दान्मा राम शोकस्य वशं गतो भू : ।वंशव्दये सन्ति नृपा महान्त: संप्राप्य दु:खं परिमुक्तदु:खा: ॥१२८॥त्वमग्रणीर्दाशरथे धनुर्भतां तवानुजस्यापि समो न लक्ष्यते ।लवडमानामधिपस्य कोटिशो मा मुश्च मा मुश्च वचो विनार्थम् ॥१२९॥सहायसंपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।वारां निधि: किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥१३०॥पुरेव चार्वब्धिमहं पिबामि शुष्केऽत्र तेन प्रतियाहि लकाम् ।एवं मया कीर्तिरुपार्जिता स्याव्दध्दे तु वार्धौ तव साऽर्जिता स्यात् ॥१३१॥सेतुं वार्धौ बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् ।प्राप्रोषि त्वं कीर्तिमाचन्द्रतारं तेनात्राब्धिं बन्धय त्वं कपीन्द्रै: ॥१३२॥इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वार्धौ ।तुडै: श्रृडैर्वानरैस्तेन गत्वा तं हत्वाऽऽजौ जानकीमानिनाय ॥१३३॥तत्तादृक्षे तत्र तीर्थे स भिक्षु: स्रात्वा भक्तया रामनाथं प्रणम्य ।तत्र श्रध्दोत्पत्तये मानुषाणां शिष्येभ्यस्तव्दैभवं सम्यगूचे ॥१३४॥तन्माहात्म्यं वर्णयन्तं मुनिं तं पप्रच्छैनं कश्चिदेवं विपश्चित्श् ।रामेशाख्या किंसमासोपपन्ना पृष्टस्रेधाऽवोचदेवं समासम् ॥१३५॥रघूव्दहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।रामेश्वरे नामनि कर्मधारयं परं समाहु: स्म सुरेश्वरादय: ॥१३६॥एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।अम्भोजाड् घ्रिस्तैरथ स्तूयमान: कश्चित्कालं तत्र योगीडनैषीत् ॥१३७॥तस्मादार्य: प्रस्थितोऽभूत् सशिष्यस्तीर्थस्रानोपात्तचित्तामलत्व: ।पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥१३८॥श्रुत्वा किश्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापेदिवान् स: ।श्रावं श्रावं मातुलीयस्य तीव्रं दाहं गेहस्यानुकम्पां व्यधत्त ॥१३९॥विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्रुतवह: पतित: प्रमादात् ।तावान्न मे सदनदाहकृतोऽनुतापो यावांस्तु पुस्तक विनाशकृतो मम स्यात् ॥१४०॥इत्थं ब्रुवन्तं तमथो न्यगादीत् पुस्तं गतं बुध्दिरवस्थिता मे ।उक्तवा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्य: ॥१४१॥दृष्ट्रा बुध्दिं मातुलस्तस्य भूयो भीत: प्रास्यद्भोजने तन्मनोघ्रम् ।किश्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तु केचिदेवं ब्रुवन्ति ॥१४२॥अत्रान्तरेऽन्यैर्निजवचरद्भि: स्वैस्तीर्थयात्नां दयितै: सतीर्थ्यै: ।अर्थादुपेत्याऽऽश्रमत: कनिष्ठैर्ज्ञात: सखेदै: स मुनि: समैक्षि: ॥१४३॥दृष्ट्रा पद्माड् घ्रिं क्रमात्ते प्रणेमुस्तत्पदाम्भोजीयरेणून दधाना: ।अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नमांसि ॥१४४॥वाणीनिर्जितपन्नगेश्वरगुरुप्राचेतसा चेतसाविभ्राणा चरणं मुनेर्विरचितव्यापलवं पल्लवम् ।धुन्वन्तं प्रभया निवारिततमाशकापदं कामदं रेजेऽन्तेवसतां समष्टिरसुहॄत्तत्याहितात्याहिता ॥१४५॥शुश्राव साऽन्तेवसतां समष्टि: स्वदेशकीयां सुखदां सुवार्ताम् ।अर्थात् समीपागतत: कुतश्चित् व्दिजेन्द्रत: सेवितसर्वतीर्थात् ॥१४६॥अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहॄदो मुनिवर्यविनेया: ।कथमपि विदिततदीयिअसुवार्ता: समधिगता: किल केरलदेशान् ॥१४७॥अत्रान्तरे यतिपति: प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्तचित्त: ।आकाशलड् घिवरकेरमहीरुहेषु श्रीकेरलेषु मुनिरास्त चरन् विरक्त: ॥१४८॥विचरन्नथ केरलेषु विष्वड् निजशिष्यागमनं निरीक्ष्य मौनी ।विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभाव: ॥१४९॥सदसत्वविमुक्तया प्रकृत्या चिदचिद्रूपमिदं जगव्दिचित्रम् ।कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥१५०॥रजसा सृजसीश सत्त्ववृत्तिस्रिजगद्रक्षसि तामस: क्षिणोषि ।बहुधा परिकीर्त्यसे च स त्वं विधिवैकुण्ठशिवाभिधाभिरेका: ॥१५१॥विधिधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बितस्वभाव: ।बहुरुपमिदं पविश्य विश्वं स्वयमेकोऽपि भवान् विभात्यनेक: ॥१५२॥इति देवमभिष्टुवन् विशिष्टस्तुतितोऽसौ सुरसद्मसंनिविष्ट: ।चिरकालवियोगदीनचितै: शिरसा शिष्यगणैरथो ववन्दे ॥१५३॥गुरुणा कुशलानुयोगपूर्व सदयं शिष्यगणेषु सान्तितेषु ।अतिदीनमना: शनैरवादीदजहद्रद्रदिकं स पद्मपाद: ॥१५४॥भगवन्नभिगम्य रडनाथं पथि पद्माक्षमहं निवर्तमान: ।बहुधाविहितानुनीतिनीतो बत पूर्वाश्रममातुलेन गेहम् ॥१५५॥अहमस्य पुरो भिदावदेन्दोरपि पूर्वाश्रमवासनानुबन्धात् ।अपठं भवदीयभाष्यटीकामजयं चात्र कृतानुयोगमेनम् ॥१५६॥दग्धमुद्रमुखमुद्रणमन्त्रैर्ध्वस्ततर्कगुरुकापिल्तन्त्रै: ।वर्मितो निगमसारसुधाक्तैर्मातुलं तमजयं तव सूक्तै: ॥१५७॥खडाखडिविहारकल्पितरुजं काणादसेनामुखे शस्त्राशस्त्रिकृतं श्रमं च विषमं पश्यत्पदानां पदे ।यष्टीयष्टिभवं च कापिलबले खेदं मुने तावकै: सूक्तैर्यौक्तिकवंशमौक्तिकमयैर्नाऽपद्यते वर्मित: ॥१५८॥अथ गूढहॄदो यथापुरं मामभिनन्द्याऽऽहितसत्कियस्य तस्य ।अधिसद्म निधाय भाष्यटीकामहस्याऽऽयमशकितो निशायाम् ॥१५९॥युगपर्ययनृत्यदुग्रफालज्वलनज्वालकरालकीलजाल: ।दहनोऽधिनिशीथमस्य धाम्रा बत टीकामपि भस्मासादकार्षीत् ॥१६०॥अदहत्स्वगृहं स्वयं हताशो विमतग्रन्थमसौ विदग्धुकाम: ।मतिमान्द्यकरं गरं च भैक्षे व्यधितास्येति विजृम्भते स्म वार्ता ॥१६१॥अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।विषमा पुनरीदृशी दशा न : किमु युक्ता भवदड् घ्रिकिकराणाम् ॥१६२॥गुरुवर तव या भाष्यवरेण्ये व्यरचि मया ललिता किल वृत्ति: ।निरतिशयोज्ज्वलयुक्तियुता सा पथि किला हा विननाश कृशानौ ॥१६३॥प्रयतेऽहं पुनरेव यदा तां प्रविधातुं बहुधाकृतयत्न: ।न यथापूर्वमुपक्रमते ता: पटुयुक्तीर्भगन्मम बुध्दि: ॥१६४॥कृपापारावारं तव चरणकोणाग्रशरणं गता दीना दुना: कति कति न सर्वेश्वरपदम् ।गुरो मन्तुर्नन्तु: क इव मम पापांश इति चे -न्मृषा मा भाषिष्ठा: पदकमलचिन्तवधिरसौ ॥१६५॥इति वादिनमेनमार्यपाद: करुणापूरकरम्भितान्तरड: ।अमृताब्धिसखैरपास्तमोहैर्वचनै: सान्त्वयति स्म वल्गुबन्धै: ॥१६६॥विषमो बत कर्मणां विपाको विषमोहोपमदुर्निवार एष: ।विदित: प्रथमं मयाऽयमर्थ: कथितश्चाड सुरेशदेशिकाय ॥१६७॥पूर्व श्रृडक्ष्माधरे मत्समीपे प्रेम्णा याऽसौ वाचिता पश्चपादी ।सा मे चित्तान्नपयात्यद्य शोको याताच्छीघ्रं तां लिखेत्याख्यदार्थ: ॥१६८॥आश्वास्येत्थं जलजचरणं भाष्यकृत्पश्चपादी -माचख्यौ तां कृतिमुपहितां पूर्वयैवाऽऽनुपूर्व्या ।नैतचित्रं परमपुरुषेऽव्याहतज्ञानशक्तौ तस्मिन् मूले त्रिभुवनगुरौ सर्वविद्याप्रवृत्ते : ॥१६९॥प्रसभं स विलिख्य पश्चपादीं परमानन्दभरेण पद्मपाद: ।उदतिष्ठदतिष्ठदभ्यरोदीत् पुनरुद्रायति तु स्म नृत्यति स्म ॥१७०॥कविताकुशलोऽथ केरलक्ष्माकमन: कश्चन राजशेखराख्य: ।मुनिवर्यममुं मुदं वितेने निजकौटीरनिघृष्टपन्नखाग्र्य: ॥१७१॥प्रथते किमु नाटकत्रयी सेत्यमुना संयमिना ततो नियुक्त: ।अयमुत्तरमाददे प्रमादादनले साऽऽहुतितामुपागतेति ॥१७२॥मुखत: पठितां मुनीन्दुना तां विलिखन्नेष विसिष्मियेऽथ भूप: ।वद किं करवाणि किकरोऽहं वरदेति प्रणमन् व्यजिज्ञपच ॥१७३॥नृप कालटिनामकाग्रहारा व्दिजकर्मानधिकारिणोऽद्य शप्ता: ।भवताऽपि तथैव ते विधेया बत पापा इति देशिकोऽशिषत्तम् ॥१७४॥पद्माड्घ्रौ प्रतिपद्य नष्टविवृतिं तुष्टे पुन: केरल ल-क्ष्मापालो यतिसार्वभौमसविधं प्राप्य प्रणम्याज्जसा ।लब्ध्वा तस्य मुखात् स्वनाटकवराण्यानन्दपाथोनिधौ मज्जंस्तत्पदपद्मयुग्ममनिशं ध्यायन् प्रस्तस्थे पुरीम् ॥१७५॥इति श्रीमाधवीये तत्तीर्थयात्राटनार्थक: ।संक्षेपशकरजये सर्गोऽजनि चतुर्दश: ॥१४॥आदित: श्लोका: १५६२ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP