संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| षष्ठ: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - षष्ठ: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत आत्मविद्याप्रतिष्ठा Translation - भाषांतर अथागमहाह्मणसूनुरादरादधीतवेदो दलयन् स्वभासा ।तेजांसि कश्चित्सरसीरुहाक्षो दिदृक्षमाण: किल देशिकेन्द्रम् ॥१॥आगत्य देशिकपदाम्बुजयोरपप्तत् संसारवारिधिमनुत्तरमुत्तितीर्षु: ।वैराग्यवानकृतदारपरिग्रहश्च कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥२॥उत्थाप्य तं गुरुरुवाच गुरुर्व्दिजानां कस्त्वं क धाम कुत आगत आत्तधैर्य: ।बालोऽप्यबालधिषण: प्रतिभासि मे त्व -मेकोऽप्यनेक इव नैकशरीरभाव: ॥३॥पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो विप्रो गुरो मम गृहं बुध चोलदेशे ।यत्रापगा वहति तत्र कवेरकन्या यस्या: पयो हरिपदाम्बुजभक्तिमूलम् ॥४॥अटाटयमानो महतो दिदृक्षु: क्रमादिमं देशमुपागतोऽस्मि ।बिभेमि मज्जन् भववारिराशौ तत्पारगं मां कृपया विधेहि ॥५॥अपाडैरुत्तुडैरमृतझरभडै: परगुरोशुचा दूनं दीनं कलय दयया मामविमृशन ।गुणं वा दोषं वा मम किमपि संचिन्तयसि चेत् तदा कैव श्लाघा निरखधिक्रुपानीरधिरिति ॥६॥स्यात्ते दीनदयालुताकृताकृयशोराशिस्त्रिलोकीगुरो तूर्ण चेद्दयसे ममाद्य न तथा कारुण्यत: श्रीमति ।वर्षन् भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तूयते ॥७॥त्वत्सारस्वतसारसारससुधाकूपारसत्सारस -स्रोत: संभृतसंततोज्ज्वलक्रीडा मतिर्मे मुने ।चश्चत्पश्चशरादिवश्चनहतं न्यश्चं प्रपश्चं हित -ज्ञानाकिश्चनमा विरिश्चमखिलं चालोचयन्त्यश्चतु ॥८॥सौरं धाम सुधामरीचिनगरं पौरन्दरं मन्दिरं कोंबेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम् ।वैधं चाऽऽवसथं त्वदीयफणितिश्रध्दासमिध्दात्मन: शुध्दव्दैतविदो न दोग्धि कुतुकं विरतिश्रीघातुकं कौतुकम् ॥९॥न भौमा रामाद्या: सुषमविषवल्लीफलसमा: समारम्भन्ते न: किमपि कुतुकं जातु विषया: ।न गण्यं न : पुण्यं रुचिरतरम्भाकुचतटी -परीरम्भारंभोज्ज्वलमपि च पौरन्दरपदम् ॥१०॥न चश्चव्दैरिश्चं पदमपि भवेदादरपदंवचो भव्यं नव्यं यदकृत कृती शकरगुरु: ।चकोरालीचश्चूपुटदलितपूर्णेन्दुविगल -त्सुधाधाराकारं तदिह वयमीहेमहि मुहु: ॥११॥द्यावाभूमिशिवंकरैर्नवयश: प्रस्तावसौवस्तिकै: पूर्वारवर्वतप: पचोलिमफलै: सर्वाधिमुष्टिंधयै: ।दीनाढ्यकरणैर्भवाय नितरां वैरायमाणैरलं कर्मीणं मसितं त्वदीयभजनै: स्यान्मामकीनं मन: ॥१२॥संसारबन्धामयदु:खशान्त्यै स एव नस्त्वं भगवानुपास्य: ।भिषक्तमं त्वां भिषजां श्रृणॊमीत्युक्तस्य योऽभूदुदितावतार: ॥१३॥इत्युक्तवन्तं कृपया महात्मा व्यदीपयत्सेन्यसनं यथावत् ।प्राहुर्महान्त: प्रथमं विनेयं तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥१४॥संसारघोरजलधेस्तरणाय शश्वत्सायात्रिकीभवनमर्दयमानमेनम् ।हन्तोत्तमाश्रमतरीमधिरोप्य पारं निन्ये निपातितकृपारसकेनिपात: ॥१५॥येऽप्यन्येऽमुं सेवितुं देशतांशा यातास्तेऽपि प्राय एवं विरक्ता: ।क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य प्रापु: स्पष्टं लोकरीत्याऽपि गन्तुम् ॥१६॥व्याख्या मौनमनुत्तरा: परिदलच्छकाकलकाकुरा श्छात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादय: ।तस्यैतस्य विनीतलोकततिमुपगता धन्या: किलान्यादृशा: ॥१७॥शेष: साधुभिरेव तोषयति नृञ्छब्दै: पुमर्थार्थिनोवाल्मीकि: कविराज एष वितथैरर्थैमुहु: कल्पितै: इ।व्याचष्टे किल दीर्घसूत्रसरणिर्वाचं चिरादर्थदांव्यास: शकरदेशिकस्तु कुरुते सद्य: कृतार्थानहो ॥१८॥चक्रितुल्यमहिमानमुपासांचक्रिरे तमविमुक्तनिवासा: ।वक्रसृत्यनुसृतामपि साध्वीं चक्रुरात्मघिषणां तदुपास्त्या ॥१९॥चण्डभानुरिव भानुमण्डलै: पारिजात इव पुष्पजातत: ।वृत्रशत्रुरिव नेत्रवारिजैश्छात्रपडिभिरलं ललास स: ॥२०॥एकदा खलु विजत्त्रिपुरव्दिडभाललोचनहुताशनभानो: ।विस्फुलिडपदवीं दधतीषु प्रज्ज्वलत्तपनकान्तिशिलासु ॥२१॥दर्शयत्युरुपमरीचिसरस्वत्पूरसृज्यपरमायिनि भानौ ।साधुनैकमणीकुट्टिममूर्च्छद्रश्मिजालकशिखावलपिच्छम् ॥२२॥पकजावलिविलीनमराले पुष्करान्तरभिगत्वरमीने ।शाखिकोटरश्यालुशकुन्ते शैलकन्दरशरण्यमयूरे ॥२३॥शकरो दिवसमध्यमभागे पकजोत्पलपरागकषायाम् ।जाह्रवीमभियैयौ सह शिष्यैराह्रिकं विधिवदेष विधित्सु: ॥२४॥सोऽन्त्यजं पथि निरीक्ष्य चतुर्भिर्भीषणै: श्वभिरनुद्रुतमारात् ।गच्छ दुरमिति तं निजगाद प्रत्युवाच च स शकरमेनम् ॥२५॥अव्दितीयमनवद्यमसडं सत्यबोधसुखरुपमखण्डम् ।आमनन्ति शतशो निगमान्तास्तत्र भेदकलना तव चित्रम् ॥२६॥दण्डमण्डितकरा धृतकुण्डा: पाटलाभवसना: पटुवाच: ।ज्ञानगन्धरहिता गृहसंस्थान् वश्चयन्ति किल केचन वेषै: ॥२७॥गच्छ दूरमिति देहमुताहो देहिनं परिजिहीर्षसि विव्दन् ।भिद्यतेऽन्नमयतोऽन्नमयं कि साक्षिणश्च यतिपुंगव साक्षी ॥२८।ब्राह्मणश्वपचभेदविचार: प्रत्यगात्मनि कथं तव युक्त: ।विम्बितेऽम्बरमणौ सुरनद्यामन्तरं किमपि नास्ति सुरायाम् ॥२९॥शुचिर्व्दिजोऽहं श्वपच व्रजेति मिथ्याग्रहस्ते मुनिवर्य कोऽयम् ।सन्तं शरीरेष्वशरीरमेकमुपेक्ष्य पूर्ण पुरुषं पुराणम् ॥३०॥अचिन्त्यमव्यक्तमनन्तमाद्यं विस्मृत्य रुपं विमलं विमोहात् ।कलेवरेऽस्मिन्करिकर्णलोलाकृतिन्यहंता कथमाविरास्ते ॥३१॥विद्यामवाप्यापि विमुक्तिपद्यां जागर्ति तुच्छा जनसंग्रहेच्छा ।अहो महान्तोऽपि महेन्द्रजाले मज्जन्ति मायाविवरस्य तस्य ॥३२॥इत्युदीर्य वचनं विरतेऽस्मिन् सत्यवाक्तदनु विप्रतिपन्न:अत्युदारचरितोऽन्त्यजमेनं प्रत्युवाच स च विस्मितचेता: ॥३३॥सत्यमेव भवता यदिदानीं प्रत्यवादि तनुभृत्प्रवरैतत् ।अन्त्यजोऽयमिति सम्पति बुध्दिं संत्यजामि वचसाऽऽत्मविदस्ते ॥३४॥जानते श्रुतिशिरांस्यपि सर्वे मन्वते च विजितेन्द्रियवर्गा: ।युज्जते हृदयमात्मनि नित्यं कुर्वते न धिषणामपभेदाम् ॥३५॥भाति यस्य तु जगद् दृढबुध्दे: सर्वमप्यनिशमात्मतयैव ।स व्दिजोऽस्तु भवतु श्वपचो वा वन्दनीय इति मे दृढनिष्ठा ॥३६॥या चिति: स्फुरति विष्णुमुखे सा पुत्तिकावधिषु सैव सदाऽहम् ।नैव दृश्यमिति यस्य मनीषा पुल्कसो भवतु वा स गुरुर्मे ॥३७॥यत्र यत्र च भवेदिह बोधस्तत्तदर्थसमवेक्षणकाले ।बोधमात्नमवशिष्टमहं तद्यस्य धीरिति गुरु: स नरो मे ॥३८॥भाषमाण इति तेन कलावानेष नैक्षत तमन्त्यजमग्रे ।धूर्जटिं तु समुदैक्षत मौलिस्फूर्जदैन्दवकलं सह वेदै: ॥३९॥भयेन भक्त्या विनयेन धृत्या युक्त: स हर्षेण च विस्मयेन ।तुष्टाव शिष्टानुमत: स्तवैस्तं दृष्ट्रा दृशोर्गोचरमष्टमूर्तिम् ॥४०॥दासस्तेऽहं देहदृष्टयाऽस्मि शंभो जातस्तेंऽशो जीवदृष्टया त्रिदृष्टे ।सर्वस्यात्मन्नात्मदृष्टया त्वमेवेत्येवं मे धीर्निश्चिता सर्वशास्त्रै: ॥४१॥यदालोकादन्तर्बहिरपि च लोको वितिमिरोन मज्जूषा यस्य त्रिजगति न शाणो न च खनि: ।यतन्ते चैकान्तं रहसि यतयो यत्प्रणायिन:नमस्तस्मै स्वस्मै निखिलनिगमोत्तंसमणये ॥४२॥अहो शास्त्रं शास्त्रात्किमिह यदि न श्रीगुरुकृपा चिता सा किं कुर्यान्ननु यदि न बोधस्य विभव: ।किमालम्बश्चासौ न यदि परतत्त्वं मम तथानम: स्वस्मै तस्मै यदवधिरिहाश्चर्यधिषणा ॥४३॥इत्युदारवचनैर्भगवन्तं संस्तुवन्तमथ च प्रणमन्तम् ।बाष्पपूर्णनयनं मुनिवर्य शकर: सबहुमानमुवाच ॥४४॥अस्मदादिपदवीमभजस्त्वं शोधिता तव तपोधननिष्ठा ।बादरायण इव त्वमपि स्या: सव्दरेण्य मदनुग्रहपात्रम् ॥४५॥संविभज्य सकळश्रुतिजालं ब्रह्मसूत्रमकरोदनुशिष्ट: ।यत्न काणभुजसांख्यपुरोगाण्युध्दृतानि कुमतानि समूलस् ॥४६॥तत्र मूढमतय: कलिदोषाद् व्दित्रवेदवचनोव्दलितानि ।भाष्यकाण्यरचयन् बहुबुध्दैर्दूष्यतामुपगतानि च कैश्चित् ॥४७॥तद्भवान्विदितवेदशिखार्थस्तानि दुर्ममितानि निरस्य ।सूत्रभाष्यमधुना विदधातु श्रुत्युपोव्दलितयुक्त्यभियुक्तम् ॥४८॥एतदेव विबुधैरपि सेन्द्रैरर्चनीयमनवद्यमुदारम् ।तावकं कमलयोनिसभायामप्यवाप्स्यति वरां वरिवस्याम् ॥४९॥भास्कराभिनवगुप्तपुरोगान्नीलकण्ठगुरुमण्डनमुख्यान् ।पण्डितानथ विजित्य जगत्यां ख्यापयाव्दयमते परतत्वम् ॥५०॥मोहसंतमसवासरनाथांस्तत्र तत्र विनिवेश्य विनेयान् ।पालनाय परतत्त्वसरण्या मामुपैष्यसि तत: कृतकृत्य: ॥५१॥एवमेनमनुगृह्य कृपावानागमै: सह शिवोऽन्तरधत्त ।विस्मितेन मनसा सह शिष्यै: शकरोऽपि सुरसिन्धुमयासीत् ॥५२॥संनिवर्त्य विधिमाह्रिकमीशं ध्यायतो गुरुमथाऽखिलभाष्यम् ।कर्तुमुद्यतमभूद गुणसिन्धोर्मानसं निखिललोकहिताय ॥५३॥कर्तृत्वशक्तिमधिगम्य व विश्व्नाथात् काशीपुरान्निरगमत्त्वविकासभाज: ।प्रीत: सरोजमुकुलादिव चश्चरीकनिर्वन्धत: सुखमवाप यथा व्दिजेन्द्र: ॥५४॥अव्दैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् ।अस्ताचले वहति चारु पुर: प्रकाशव्याजेन चामरमथादिव दिक्सुकान्ता ॥५५॥शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताध्दा ।तन्नत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाव्ददरीं क्रमात्स: ॥५६॥तेनान्ववर्ति महता कचिदुष्णशालि शीतं कचित्कचिदृजु कचिदप्यरालम् ।उत्कण्कटकं कचिदकण्टाकवत्कचिच्च तव्दर्त्म मूर्खजनचित्तमिवाव्यवस्थम् ॥५७॥आत्मानमक्रियमपव्ययमीक्षितापि पान्थै: समं विचलित: पथि लोकरीत्या ।आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ॥५८॥तेन व्यनीयत तदा पदवी दवीयस्यासादिता च बदरी वनपुण्यभूमि: ।गौरीगुरुस्रवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम् ॥५९॥स व्दादशे वयसि तत्र समाधिनिष्ठैर्ब्रह्मर्षिभ: श्रुतिशिरो बहुधा विचार्य ।षड् मिश्च सप्तभिरथो नवभिश्च खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥६०॥करतलकलिताव्दयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।उपचितमुदितोदितैर्गुणौघैरुपनिषदामयमुज्जहार भाष्यम् ॥६१॥ततो महाभारतसारभूता: स व्याकरोद्भामवतीश्च गीता: ।सनत्सुजातीयमसत्सुदुरं ततो नृसिंहस्य च तापनीयम् ॥६२॥ग्रन्थानसंख्यांस्तदनूपदेशसाहस्त्रिकादीन्व्यदधात्सुधीडय: ।श्रुत्वाऽर्थविद्यानविवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ॥६३॥श्रीशकराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीता: ।व्याख्यान्धकारा प्रलयं समीयुर्दुर्वादिचन्द्रपमयाऽवियुक्तात ॥६४॥अथ व्रतीन्दुर्विधिवव्दिनेयानध्यापयामास स नैजभाष्यम् ।तर्कै परेषां तरुणैर्विवस्वन्मरीचिभि: सिन्धुबदप्रशोष्यम् ॥६५॥निजशिष्यहृदब्जभास्वतो गुरुवर्यस्य सनन्दनादय: ।शमपूर्वगुणैरशुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम् ॥६६॥स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दन: ।श्रुतनिजश्रुतिकोऽप्यभवत्पुन: पिपठिषुर्गहनार्थविवित्सया ॥६७॥अव्दंव्दभक्तिममुमात्मपदारविन्दव्दव्दे नितान्तदयमानमना मुनीन्द्र: ।आम्रायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठयत्तम् ॥६८॥ईर्ष्याभराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् ।अम्रापगापरतटस्थममुं कदाचिदाकारयन्निगमशेखरदेशिकेन्द्र: ॥६९॥संतारिकाऽनवधिसंसृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्ति: ।इत्यज्जसा प्रविशत: सलिलं द्युसिन्धु: पद्मान्युदश्चयति तस्य पदे पदे स्म ॥७०॥पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् ।आनन्दविस्मयनिरन्तनिरन्तरोऽसावाश्लिष्य पद्मपदनामपदं व्यतानीत् ॥७१॥तं पाठयन्तमनवद्यतमात्मविद्यां ये तु स्थिता: सदसि तत्वविदां सगर्वा: ।आचिक्षिपु: कुमतपाशुपताभिमाना: केचिव्दिवेकविटपोग्रदवायमाना:॥७२॥तव्दिकल्पनमनल्पमनीष: श्रुत्युदाहरणत: स निरस्य ।ईषदस्तमितगर्वभराणामागमानपि ममन्थ परेषाम् ॥७३॥अव्दितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात् ।ध्यानजा किमिति सा न विनश्येद्भावकार्यमखिलं हि न नित्यम् ॥७४॥किंच संक्रमणमीशगुणाना मिष्यते पशुषु मोक्षदशायाम् ।तन्न साध्यवयवैर्विधुराणां संक्रमो न घटते हि गुणानाम् ॥७५॥पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न ।तत्र गन्धसमवायि नभस्वत्संयुतं दिशति गन्धधियं यत् ॥७६॥किंचैकदेशेन समाश्रयन्ते कार्त्स्न्येन वा शंभुगुणा विमुक्तान् ।पूर्वे तु पूर्वोदितदोषसडस्त्वन्तेऽज्ञतादि: परमेश्वरे स्यात् ॥७७॥इत्थं तर्कै: कुलिशकठिनै: पण्डितं मन्यमानाभिद्यत्स्वार्था: स्मयभरमदं तत्यजुस्तान्त्रिकास्ते ।पक्षाघातैरिव रयभरैस्ताडयमाना: फणासु क्ष्वेडज्वालां खगकुलपते: पन्नगा: साभिमाना: ॥७८॥व्याख्याजम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपयन् ।संख्यालघितशिष्यहृव्दनरुहेष्वादित्यतामुव्दहन् ।उव्देलस्वयश: सुमै: स भगवत्पादो जगद्भूषयन् कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥७९॥वेदान्तकान्तारकृतप्रचार: सुतीक्ष्णसद्युक्तिनखाग्रदंष्ट्र: ।भयकरो वादिमतंगजानां महर्षिकण्ठीरव उल्ललास ॥८०॥अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सत: प्रभावम् ।अत्यन्तमाश्चर्ययुतान्तरडा: काशोपुरस्था जगदुस्तदेत्थम् ॥८१॥अस्मान्मुहुर्द्योतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीका: ।प्रपेदिरे भास्करगुप्तमिश्रमुरारिविद्येन्द्रगुरुप्रधाना: ॥८२॥अस्यात्मनिष्ठातिशयेन तुष्ट: प्रादुर्भवन् कामरिपु: पुरस्तात् ।चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥८३॥कुदृष्टितिमिरस्फुरत्कुमतपकमग्रां पुरापराशरभुवा चिराद् बुधमुदे बुधेनोध्दृताम् ।अहो बत जरद्रवीमनघभाष्यसूक्तामृतै-रपकयति शकर: प्रणतशकर: सादरम् ॥८४॥त्नैलोक्यं ससुखं क्रियाफलपयो भुडे: ययाऽविष्कृतं यस्या वृध्दतरे महीसुरगृहे वास: प्रवृध्दाध्वरे ।तां पकप्रसृते कुतर्ककुहरे घोरै: खरै: पातितां निष्पकामकरोत्स भाष्यजलधे: प्रक्षाल्य सूक्तामृतै: ॥८५॥मिथ्या वक्तीति कैश्चित्पुरुषमुपनिषद्दूरमुत्सारिताऽभू -दन्यैरस्मिन्नियोज्यं परिचरितुमसावर्हतीति प्रणुन्ना ।अर्थामासं दधानैर्मृदुभिरिव परैर्वश्चिता चोरितार्थै -र्विन्दत्यानन्दमेषा सुचिरमशरणा शकरार्य प्रपन्ना ॥८६॥हन्तुं बौध्दोऽन्वधावत्तदनु कथमपि स्वात्मलाभ: कणादा -ज्जात: कौमारिलार्यैर्निजप्दगमने दर्शितं मार्गमात्रम् ।सांख्यैर्दु:खं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै -रित्थं खिन्नं पुमांसं व्यधित करुणया शकरार्य: परेशम् ॥८७॥ग्रस्तं भूतैर्न देवं कतिचन ददृशु: के च दृष्टाऽप्यधीरा: केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिन: केऽपि सर्वैर्विमुक्तम् ।किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीतिं ततोऽसो तेषमुच्छिद्य सत्तामभयमकृत तं शकर: शकरांश: ॥८८॥चार्वाकैर्निह्रुत: प्राग्बलिभिरथ मृषा रुपमापाद्य गुप्त: काणादैर्हा नियोज्यो व्यरचि बलवताऽऽकृत्य कौमारिलेन ।सांख्यैराकृष्य हृत्वा मलमपि रचितो य: प्रधानैकतन्त्र: कृष्ट्रा सर्वेश्वरं तं व्यतनुत पुरुषं शकर: शकरांश: ॥८९॥वाच: कल्पलता: प्रसूनसुमन: सन्दोहसन्दोहना: भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शांकरे ।भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टा विसृष्टा गुणै -रिष्टा: स्यु: कथमम्बुजासनवधूदौर्भाग्यगर्भीकृता: ॥९०॥कामं कामकिरातकार्मुकलतापर्यायनिर्यातया नाराचच्छटया विपाटितमनोधैर्यैर्धिया कल्पितान् ।आचार्याननवर्यनिर्यदभिदासिध्दान्तशुध्दान्तरो धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥९१॥सुधास्यन्दाहन्ताविजयिभगवत्पादरचनासमस्कन्धान् ग्रन्थान् रचयति निबध्दा यदि तदा ।विशकां भडानां मृडमुकुटश्रृडाटसरित:कृतौ तुल्या कुल्या नियतमुपशल्यादृतगति : ॥९२॥यया दींनाधीना घनकनकधारा समरचिप्रतीतिं नीताऽसौ शिवयुवतिसौन्दर्यलहरी ।भुजडो रोद्रोऽपि श्रुतभयहृदाधायि सुगुरोर्गिरां धारा सेयं कलयति कवे: कस्य न मुदम् ॥९३॥गिरां धारा कल्पद्रुमकुसुमधारा परगुरो -स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।अभडव्यडयौघ : सुरसुरभिदुग्धोर्मिदहभू -र्दिवं भव्यै: काव्यै: सृजति विदुषां शकरगुरु: ॥९४॥वाचा मोचाफलाभा: श्रमशमनविधौ ते समर्थास्तदर्थाव्यडयं भडायन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीति: ।मन्ये धन्यानि गाढं प्रशमिकुलपते: काव्यगव्यानि भव्या-न्येकश्लोकोऽपि येषु प्रथितकविजनानन्दसन्दोहाकन्द: ॥९५॥वाग्गुम्भै: कुरुविन्दकन्दलनिभैरानन्दकन्दै: सता -मर्थौघेररविन्दवृन्दकुहरस्यन्दन्मरन्दोज्ज्वलै: ।व्यडयै: कल्पतरुप्रफुल्लसुमन: सौरभ्यगर्भीकृतै -र्दत्ते कस्य मुदं न शकरगुरोर्भव्यार्थकाव्यावलि: ॥९६॥तत्तादृग्यतिशेखरोध्दृतनिषद्भाष्यं निशम्येर्ष्ययाकेचिद्देवनदीतटस्थविदुषामक्षांघ्रिपक्षश्रिता: ।मौर्ख्यात्खण्डयितुं र्पयत्नमनुमानैकेक्षणा विक्षमा -श्चकुर्भाव्यविचार्य चित्रकिरणं चित्रा: पतडा इव ॥९७॥निघर्षणच्छेदनतापनाद्यैर्यथा सुवर्ण परभागमेति ।विवादिभि: साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूय: ॥९८॥स भाष्यचन्द्रो यतिदुग्धसिन्धोरुत्थाय दास्यन्नमृतं बुधेभ्य: ।विधूय गोभि: कुमतान्धकारानतर्पयव्दिममनश्चकोरान् ॥९९॥अनादिवाक्सागरमन्थनोत्था सेव्या बुधैर्धिक्कृतदु:सपत्नै: ।विश्राणयन्ती विजरामरत्वं विदिद्युते भाष्यसुधा यतीन्दो: ॥१००॥सतां हृदब्जानि विकासयन्ती तमांसि गाढानि विदारयन्ती ।प्रत्यर्थ्युलूकान् प्रविलापयन्ती भाष्यप्रभाऽभाद्यतिवर्यभानो: ॥१०१॥न्यायमन्दरविमन्थनजाता भाष्यनूतनसुधा श्रुतिसिन्धो:।केवलश्रवणतो विबुधेभ्यश्चित्रमत्र वितरत्यमृतत्वम् ॥१०२॥पादादासीत्पद्मनाभस्य गडा शंभोर्वक्ताच्छांकरी भाष्यसूक्ति: ।आद्या लोकान्दृश्यते मज्जयन्तीत्यन्या मग्रानुध्दरत्येष भेद: ॥१०३॥व्यासो दर्शयति स्म सूतकलितन्यायौघरत्नावली -रर्थालाभवशान्न कैरपि बुधैरेता गृहीताश्चिरम् ।अर्थाप्त्या सुलभाभिराभिरधुना ते मण्डिता: पण्डिता व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदर्यमाश्चर्यकृत् ॥१०४॥विव्दज्जालतप: फलं श्रुतिवधूधभ्मिक्लमल्लीस्रजं सव्दैयासकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् ।वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं भाष्य ते निपिबन्ति हन्त न पुनर्येषां भवे संभव: ॥१०५॥मन्थानाद्रिधुरंधरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते -र्ग्रन्थानां फणिति: परावरविदामानन्दसंधायिनी ।इन्धानै: कुमतान्धकारपटलैरन्धीभवच्चक्षुषां पन्थानं स्फुटयन्त्यकाण्डकमभात्तकार्कविद्योतितै: ॥१०६॥आ सीतानाथनेतु: स्थलकृतसलिलव्दैतमुद्रात्समुद्रा -दारुद्रकर्षणाद्रागवनतशिखराद्भोगसान्द्रान्नगेन्द्रात् ।आ च प्राचीनभूमीधरमुकुटतटादा तटात्पश्चिमाद्रे -रव्दैताद्यापवर्गा जयति यतिशरापोध्दृता ब्रह्मविद्या ॥१०७॥इति श्रीमाधवीये तब्रह्मविद्याप्रतिष्ठिति: ।संक्षेपशकरजये षष्ठ: सर्ग उपारमत् ॥६॥आदित: श्लोका: ६६३ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP