संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छङ्करदिग्विजय:| दशम: सर्ग: श्रीमच्छङ्करदिग्विजय: विषयानुक्रमणिका प्रथम: सर्ग: व्दितीय: सर्ग: तृतीय: सर्ग: चतुर्थ: सर्ग: पंचम: सर्ग: षष्ठ: सर्ग: सप्तम: सर्ग: अष्टम: सर्ग: नवम: सर्ग: दशम: सर्ग: एकादश: सर्ग: व्दादश: सर्ग: त्रयोदश: सर्ग: चतुर्दश: सर्ग: पंचदश: सर्ग: षोडश: सर्ग: श्रीमच्छङ्करदिग्विजय: - दशम: सर्ग: श्रीविद्यारण्यविरचित: श्रीमच्छडरदिग्विजय: ॥ Tags : sanskritvidhyaranyaविद्यारण्यश्रीमच्छङ्करदिग्विजयसंस्कृत राजदेहप्रवेशादिकथनम् Translation - भाषांतर अथ पुरोहितमन्त्रिपुर: सरैर्नरपति: कृतशान्तिककर्मभि: ।विहितमाडलिक: स यथोचितं नगरमास्थितभद्रगजो ययौ ॥१॥समधिगम्य पुरं परिसान्त्वितप्रियजन: सचिवै: सह सम्प्रतै: ।भुवमपालयदादृतशासनो नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥२॥इति नृपत्वमुपेत्य वसुन्धरामवति संयमिभूभृति मन्त्निण: ।तमधिकृत्य परं कृतसंशया इति जजल्पुरनल्पधियो मिथ: ॥३॥मृतिमुपेत्य यथा पुनरुत्थित: प्रकृतिभाग्यवशेन तथा त्वयम् ।नरपति: प्रतिभाति न पूर्ववत्समुदिताखिलदिव्यगुणोदय: ॥४॥वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्रिरमर्थवित् ।जयति फाल्गुनवत्प्रतिपार्थिवान् सकलमप्यवगच्छति शर्ववत् ॥५॥अनुसवनविसृत्वरैरपूर्वैर्वितरणपौरुषशौर्यधैर्यपूर्वै: ।अनितरसुलभैर्गुणैर्विभाति क्षितिपतिरेष पर: पुमानिवाद्य: ॥६॥अनृतुषु तरव: सुपुष्पिताग्रा बहुतरदुग्धदुघाश्च गोमहिष्य: ।क्षितिरभिमतवृष्टिराढयसस्या स्वविहितधर्मरता: प्रजाश्च सर्वा: ॥७॥कालस्तिष्य: सर्वदोषाकरोऽपि त्नेतामत्येत्यद्य राज्ञ: प्रभावात् ।तस्मादस्मद्राजवर्ष्म प्रविश्य प्राप्तैश्वर्य: शास्ति कश्चिध्दरित्रीम् ॥८॥तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपु: ।करवाम तथेति निश्चयं कृतवन्त: सचिवा: परस्परम् ॥९॥अथ ते भुवि यस्य कस्यचिव्दिगतासोर्वपुरस्ति देहिन: ।अविचार्य तदाशु दह्यतामिति भृत्यान् रहसि न्ययोजयन् ॥१०॥अथ राज्यधुरं धराधिप: परमाप्तेषु निवेश्य मन्त्रिषु ।बुभुजे विषयान् विलासिनीसचिवोऽन्यक्षितिपालदुर्लभान् ॥११॥स्फटिकफलके ज्योत्स्राशुभ्रे मनोज्ञशिरोगृहे वरयुवतिभिर्दीव्यन्नक्षैर्दुरोदरकेलिषु ।अधरदशनं बाह्वावाहं महोत्पलताडनं रतिविनिमयं राजाऽकार्षीद्ग्लहं विजये मिथ: ॥१२॥अधरजसुधाश्लेषाद्रुच्यं सुगन्धि मुखानिल -व्यतिकरवशात्कामं कान्ताकरात्तमतिप्रियम् ।मधु मदकरं पायंपायं प्रिया: समपायय -त्कनकचषकैरिन्दुच्छायापरिष्कृतमादरात् ॥१३॥मधुमदकलं मन्दस्विन्नं मनोहरभाषणं निभृतपुलकं सीत्काराढयं सरोरुहसौरभम् ।दरमुकुलिताक्षीषल्लज्जं विसृत्वरमन्मथं प्रचरदलकं कान्तावक्तं निपीय कृती नृप: ॥१४॥विवृतजघनं संदष्टेष्ठं प्रणुन्नपयोधरं प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेखलम् ।निभृतकरणं नृत्यद्रात्रं गतेतरभावनं प्रसृमरसुखं प्रादुर्भूतं किमप्यपदं गिराम् ॥१५॥मनसिजकलातत्त्वाभिज्ज्ञो मनोज्ञविचेष्टित: सकलविषयव्यावृत्ताक्ष: सदानुसृतोत्तम: ।कृतकुचगुरुपास्त्याऽत्यन्तं सुनिर्वृतमानसोनिधुवनवरब्रह्मानन्दं निरर्ग्लमन्वभूत् ॥१६॥पुरेव भोगान् बुभुजे महीभृत्स भोगिनीभि : सहितोऽप्यरंस्त ।कन्दर्पशास्त्रनुगत: प्रवीणैर्वात्स्यायने तच निरक्षैताध्दा ॥१७॥वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ।स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥१८॥पारशर्यवनिभृति प्रविश्य राज्ञो वर्ष्मैवं विहरति तव्दिलासिनीभि: ।दृष्टा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जजल्पु: ॥१९॥आचार्यैरवधिकरकारि मासमात्रं सोऽतीत: पुनरपि पश्चषाश्च घस्रा: ।अद्यापि स्वकरणमेत्य न : सनऽथान् कर्तु तन्मनसि न जायतेऽनुकम्पा ॥२०॥किं कुर्म: क नु मृगयामहे क याम: को जानन्निह वसतीति नोऽभिदध्यात् ।विज्ञातुं कथमिमर्मश्महे विचिन्त्याप्या सिन्धु क्षितितलमन्यगात्रगूढम् ॥२१॥गुरुणा करुणानिधिना ह्यधुना यदि नो निहिता विहितास्त्यजिता: ।जगति क गतिर्भजतां त्यजतां स्वपदं विपदन्तकरं तदिदम् ॥२२॥नि:शेषेन्दियजाडयहृन्नवनवाहलादं मुहुस्तन्वती नित्याश्लिष्टरजोयतीशचरणम्भोजाश्रया श्रेयसी ।निष्प्रत्यूहविजम्भमाणवृजिनस्योव्दासना वासना नि:सीमा हृदयेन कल्पितपरीरम्भा चिरं भाव्यते ॥२३॥फलितैरिव सत्वपादपै: परिणामैरिव योगस्म्पदाम् ।समयैरिव वैदिकश्रियां सशरीरैरिव तत्वनिर्णयै: ॥२४॥सधनैर्निजलाभवैभवात् सकुटुम्बैरुपशान्तिकान्तया ।अतदन्यतयाऽखिलात्मकैरनुगृह्येय कदा नु धामभि: ॥२५॥अविनयं विनयन्नसतां सतामतिरयं तिरयन् भवपावकम् ।जयति यो यतियोगभृतां वरो जगति मे गतिमेष विधास्यति ॥२६॥विगतमोहतमोहतिमाप्य यं विधुतमायतमा यतयोऽभवन् ।अमृतदस्य तदस्य दृश: सृतवावतरेम तरेम शुगर्णवम् ॥२७॥शुभाशुभविभाजकस्फुरणदृष्टिमुष्टिंधय: क्षपान्धमतापान्थदुष्कथकदम्भकुक्षिंभरि: ।कदा भवसि मे पुन:पुनरनाद्यविद्यातम: प्रमृद्य गलितव्दयं पदमुदश्चयन्नव्दयम् ॥२८॥मर्त्यानां निजपादपकजजुषामाचार्य वाचा यया रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया ।द्राड् नायास्यासि चेत्सुधीकृतपरीहासस्य दसस्य ते दु:खान्तो न भवेदितीडय स पुनर्जानीहि मीनीहि मा ॥२९॥इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा ।शुचमर्थवता शमयन्वचस निजगाद सरोरुहपाद इदम् ॥३०॥पर्याप्तं न : क्लैब्यमुपेत्यात्र सखाय: कृत्वोत्साहं भूमिमशेषामपिधानात् ।अन्वेष्यामो भूविवराण्यप्यथ च द्यां यव्दद्देवं देवमनुष्यादिषु गूढम् ॥३१॥अनिर्विण्णचेता: समास्थाय यत्नं सुदुष्प्रापमप्यर्थमाप्रोत्यवश्यम् ।मुहुर्विघ्रजालै: सुरा हन्यमाना सुधामप्यवापुर्ह्यनिर्विण्णचित्ता: ॥३२॥यदप्यन्यगात्रप्रतिच्छन्नरुपो दुरन्वेषण: स्याद्रुरुर्नस्तथापि ।स्वभानूदरस्थ: शशीव प्रकाशैस्तदीयैर्गुणैरेव वेत्तुं स शक्य:॥३३॥इक्षुचापागमापेक्षया निर्गतो वर्ष्म तस्योचितं कृष्णवर्त्मद्युति: ।विभ्रमाणां पदं सुभ्रुवां भूपते: प्राप्तुमर्हत्यकामाग्रणी: संयमी ॥३४॥नित्यतृप्ताग्रयाय्याश्रिते निर्वृता: प्राणिनो रोगशोकादिना नेक्षिता: ।दस्युपीडोज्झिता: स्वस्वधर्मे रता: कालवर्षी स्वराण्मेदिनी कामसू: ॥३५॥तदिहाऽऽलस्यमपास्य विचेतुं निखधिसंसृतिजलधे: सेतुम् ।देशिकवरपदकमलं यामो न वृथाऽनेहसमत्न नयाम: ॥३६॥इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगर्वे ।कांश्चित्तत्न निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥३७॥ते चिन्वन्त: शैलाच्छैलं विषयाव्दिषयं भुवमनुवेलम् ।प्रापुर्धिक कृतविबुधनिवेशान् स्फीतानमरुकनृपतेर्देशान् ॥३८॥मृत्वा पुनरप्युत्थितमेनं श्रुत्वा वैन्यदिलीपसमानम् ।त्यक्त्वा विरहजदैन्यममन्दं मत्वऽऽचार्य धैर्यमविन्दन् ॥३९॥ते च ज्ञात्वा गानविलोलं तरुणीसक्तं धरणीपालम् ।विविशु: स्वीकृतगयकवेषा नगरं विदितसमस्तविशेषा: ॥४०॥राज्ञे ज्ञापितविद्यातिशयास्ते तत्संग्रहविधृतातिशया: ।रमणीशतमध्यगमवनीन्द्रं दहशुस्तारावृतमित्र चन्द्रम् ॥४१॥वरचाम्रकरतरुणीककणरज्जितमनोहरपश्चाद्भागम् ।गीतिगतिज्ञोद्रीतश्रुतिसुखतानसमुल्लसदग्रिमदेशम् ॥४२॥धृतचामीकरदण्डसितातपवारणरज्जितरत्नकिरीटम् ।श्रितविग्रहमिव रतिपतिमाश्रितभुवमिव सान्त:पुरममरेशम् ॥४३॥रुचिरवेषा: समासाद्य तां संसदं नयनसंज्ञावितीर्णासना भूभुजा ।समतिसृष्टास्तत: सुस्वरं मूर्च्छनापदविदस्ते जगुर्मोहयन्त: सभाम् ॥४४॥भृड तव सडतिमपास्य गिरिश्रृडे तुडविटपिनि मडमजुषि त्वदडे ।स्वाडरचिता: सकलुषान्तरडा: संगमकृते भडमुपयन्ति भृडा: ॥४५॥पश्चशरसमयसश्चयकृते प्राश्चं मुश्चन्निवेह सश्च्रसि प्रपश्चम् ।पश्चजनमुख पश्चमुखमप्यनश्चंस्त्वं च गतिरिति किंच किल वश्चितोऽसौ ॥४६॥पर्वशशिमुख सर्वमपहाय पूर्व कुर्वदिह गर्वमनुसृत्य हृदपूर्वम् ।न स्मरसि वस्त्वस्मदीयमिति कस्मात्संस्मर तद्स्मर परमस्मदुक्त्या ॥४७॥नेतिनेती त्यादिनिगमवचनेन निपुणं निषिध्य मूर्तामूर्तराशिम् ।यदशक्यनिह्रवं स्वात्मरुपतया जानन्ति कोविदास्तत्त्वमसि तत्त्वम् ॥४८॥खाद्यमुत्पाद्य विश्वमनुप्रविश्य गूढमन्नपयादिकोशतुषजाले ।कवयो विविच्य युक्तयघाततो यत्तण्डुलवदाददति तत्त्वमसि तत्त्वम् ॥४९॥विषमविषयेषु सश्चारिणोऽक्षाश्वान् दोषदर्शनकशाभिघातत: ।स्वैरं संनिवर्त्य स्वान्तरश्मिभिर्धीरा बध्रन्ति यत्र तत्त्वमसि तत्त्वम् ॥५०॥व्यावृत्तजाग्रदादिष्वनुस्यूतं तेभ्योऽन्यदिव पुष्पेभ्य इव सूत्रम् ।इति यदौपाधिकत्रयपृथक्तवेन विदन्ति सूरयस्तत्त्वमसि तत्त्वम् ॥५१॥पुरुष एवेदमित्यादिवेदेषु सर्वकारणतया यस्य ।सार्वात्म्यं हाटकस्येव मुकुटादितादाभ्यं सरसमाम्रायते तत्त्वमसि तत्त्वम् ॥५२॥यश्चाहमत्र वर्ष्मणि भामि सोऽसौ योऽसौ विभाति रविमण्डले सोऽहमिति ।वेदवादिनो व्यतिहारतो यदध्यापयन्ति यत्नतस्यत्त्वमसि तत्त्वम् ॥५३॥वेदानुवचनसद्दानमुखधर्मै: श्रध्दयाऽनुष्ठितैर्विद्यया युक्तै: ।विविदषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा य ब्रह्म तत्त्वमसि तत्त्वम् ॥५४॥शमदमोपरमादिसाधनैर्धीरा: स्वात्मनऽऽत्मनि यदन्विष्य कृतकृत्या: ।अधिगतामितसचिदानन्दरुपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥५५॥अविगीतमेवं नरपतिराकर्ण्य वर्णितात्मार्थम् ।विससर्ज पूरिताशानेतान्निर्ज्ञातकर्तव्य: ॥५६॥उव्दोधित: सदसि तैरवलम्ब्य मूर्च्छा निर्गत्य राजतनुतो निजमाविवेश ।गात्रं पुरोदितनयेन स देशिकेन्द्र: संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥५७॥तदेनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन ।निजवपुरवलोक्य दह्यमानं झटिति स योगधुरन्धरो विवेश ॥५८॥सपदि दहनशान्तये महान्तं नरमृगरुपमधोक्षजं शरण्यम् ।स्तुतिभिरधिकलालसत्पदाभिस्त्वरितमतो षयदात्मवित्प्रधान: ॥५९॥नरहरिकृपया तत: प्रशान्ते प्रबलतरे स हुताशने प्रविष्ट: ।निरगमदचलेन्द्रकन्दरान्ताव्दिधुरिव वक्तबिलाव्दिधुन्तुदस्य ॥६०॥तदनु शमधनाधिपो विनेयैश्चिरविरहादतिवर्धमानहार्दै: ।सनक इव वृत: सनन्दनाद्यैर्जिगमिषुराजनि मण्डनस्य गेहम् ॥६१॥तदनु सदनमेत्य पूर्वदृष्टं गगनपथाद्रलितक्रियाभिमानम् ।विषयविषनिवृत्ततर्षमुचैरतनुत मण्डनमिश्रमक्षिपात्रम् ॥६२॥तं समीक्ष्य नभश्च्युतं स च प्राज्जलि: प्रणतपूर्वविग्रह: ।अर्हणाभिरभिपूज्य तस्थिवानीक्षणैरनिमिषै: पिबन्निव ॥६३॥स विश्वरुपो बत सत्यवादी पपात पादाम्बुजयोर्यतीश: ।गृहं शरीरं मम यच सर्व तवेति वादी मुदितो महात्मा ॥६४॥प्रेयसा प्रथममर्चितं मुनिं प्राप्तविष्टरमुपस्थितं बुधै:।प्रश्रयावनतमूर्तिरब्रवीच्छारदाऽभिवदने विशारदा ॥६५॥ईशान :सर्वविद्यानामीश्वर : सर्वदेहिनाम् ।ब्रह्मणोऽधिपतिर्ब्रह्मन् भवान् साक्षात्सदाशिव: ॥६६॥सदसि मामविजित्य तथैव यन्मदनशासन कामकलास्वपि ।तदवबोधकृते कृतिमाचरस्तदिह मर्त्यचरित्नविडम्बनम् ॥६७॥त्वया यदावां विजितौ परात्मन्न तत्तपामावहतीडय सर्वथा ।कृताभिभूतिर्न मयूखशालिना निशाकरादेरपकीर्तये खलु ॥६८॥आदावात्म्यं धाम कामं प्रयास्याम्यर्हस्यच्छं मामनुज्ञातुमर्हन् ।इत्यामन्त्र्यान्तर्हितां योगशक्त्या पश्यन् देवीं भाष्यकर्ता बभाषे ॥६९॥जानामि त्वां देवि देवस्य धातुर्भार्यामिष्टामष्टमूर्ते: सगर्भ्याम् ।वाचामाद्यां देवतां विश्वगुप्त्यै चिन्मात्रामप्यात्तलक्ष्म्यादिरुपाम् ॥७०॥तस्मादस्मत्कल्पितेष्वर्च्यमाना स्थानेषु त्वं शारदाख्या दिशन्ती ।इष्टानर्थानृष्यश्रृडादिकेषु क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥७१॥तथेति संश्रुत्य सरस्वती सा प्रायात्प्रियं धाम पितामहस्य ।अदर्शनं तत्र समीक्ष्य सर्व आकस्मिकं विस्मयमीयुरुचै: ॥७२॥तस्या यतीशजितभर्तृयतित्वजातवैधव्यसंभशुचा भुवमस्पृशन्त्या: ।अन्तर्धिमेक्ष्य मुदितोऽजनि मण्डनोऽपि तत्साधु वीक्ष्य मुमुदे यतिशेखरश्च ॥७३॥मण्डनमिश्रोऽप्यथ विधिपूर्व दत्वा वित्तं यागे सर्वम् ।आत्मारोपितशोचिष्केशो भेजे शकरमस्तमिताश: ॥७४॥संन्यासगृह्यविधिना सकलानि कर्माण्यह्राय शकरगुरुर्विदुषोऽस्य कुर्वन् ।कर्णे जगौ किमपि तत्त्वमसीति वाक्यं कर्णेजपं निखिलसंसृतिदु:खहाने: ॥७५॥संन्यासपूर्व विधिवव्दिभिक्षे पश्चादुपादिक्षदथाऽऽत्मतत्त्वम् ।आचार्यवर्य: श्रुतिमस्तकस्थं तदादिवाक्यं पुनराबभाषे ॥७६॥त्वं नासि देहो घटवध्दयनात्मा रुपादिमत्त्वादिह जातिमत्त्वात् ।ममेति भेदप्रथनादभेदसंप्रत्ययं विध्दि विपर्ययोत्थम् ॥७७॥लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादि: खलु तादृशी तनु: ।दृश्यत्वहेतोर्व्यतिरेकसाधने त्वत्त: शरीरं कथमात्मतागति: ॥७८॥नापीन्द्रियाणि खलु तानि च साधनानि दात्रादिवत्कथममीषु तवाऽऽत्मभाव: ।चक्षुर्मदीयमिति भेदगतेरमीषां स्वप्रादिभावविरहाच घटादिसाम्यम् ॥७९॥यद्यात्मतैषां समुदायगा स्यादेकव्ययेनापि भवेन्न तध्दी: ।प्रत्येकमात्मत्वमुदीर्यते चेन्नश्येच्छरीरं बहुनायकत्वात् ॥८०॥आत्मत्वमन्यतमगं यदि चक्षुरादेश्चक्षुर्विनाशसमये स्मरणं न हि स्यात् ।एकाश्रयत्वनियमात्स्मरनानुभूत्योर्दृष्टश्रुतार्थविषयावगतिश्च न स्यात् ॥८१॥मनोऽपि नाऽऽत्मा करणत्वहेतोर्मनो मदीयं गतमन्यतोऽभूत् ।इति प्रतीतेर्व्यभिचारिताया: सुप्तौ च तच्चिन्मनसोर्विविक्तता ॥८२॥अनयैव दिशा निराकृता न च बुध्देरपि चाऽऽत्मता स्फुटम् ।अपि भेदगतेरनन्वयात्करणादाविव बुध्दिमुज्झ भो: ॥८३॥नाहंकृतिश्चरमधातुपदप्रयोगात् प्राणा मदीया इति लोकवादात् ।प्राणोऽपि नाऽऽत्मा भवितुं प्रगल्भ: सर्वोपसंहारिणी सन् सुषुप्ते ॥८४॥एवं शरीराद्यविविक्त आत्मा त्वंशब्दवाच्योऽभिहितोऽत्न वाक्ये ।तदोदितं ब्रह्म जगन्निदानं तथा तथैक्यं पदयुत्मबोध्यम् ॥८५॥कथं तदैक्यं प्रतिपादयेव्दच: सर्वज्ञसंमूढपदाभिषिक्तयो: ।न ह्येकता संतमसप्रकाशयो: संदृष्टपूर्वा न च दृश्यतेऽधुना ॥८६॥सत्यं विरोधगतिरस्ति तु वाच्यगेयं सोऽयं पुमानितिवदत्न विरोधहाने: ।आदाय वाच्यमविरोधि पदव्दयं तल्लक्ष्यैक्यबोधनपरं ननु को विरोध: ॥८७॥जहीहि देहादिगतामहंधियं चिरार्जितां कर्मशठै: सुदुस्त्यजाम् ।विवेकबुध्दया परमेव सन्ततं ध्यायाऽऽत्मभावेन यतो विमुक्तता ॥८८॥साधारणे वपुषि काकश्रृगालवह्रिमात्रादिकस्य ममतां त्यज दु:खहेतुम् ।तव्दज्जहीहि बहिरर्थगतां च विव्दंश्चित्तं बधान परमात्मनि निर्विशकम् ॥८९॥तीरात्तीरं संचरन् दीर्घमत्स्यस्तीराद्भिन्नो लिप्यते नापि तेन ।एवं देही संचरजाग्रदादौ त्स्माद्भिन्नो नापि तध्दर्मको वा ॥९०॥जाग्रत्स्वप्रसुषुप्तिलक्षणमदोऽवस्थात्रयं चित्तनौ त्वय्येवानुगते मिथो व्यभिचरध्दीसंज्ञमज्ञानत: ।क्लृप्तं रज्ज्विदमंशके वसुमतीच्छिद्राहिदण्डादिवत् त ब्रह्मासि तुरीयमुज्झितभयं मा त्वं पुरेव भ्रमी: ॥९१॥प्रत्यक्तमं परपदं विदुषोऽन्तिकस्थं दूरं तदेव परिमूढमतेर्जनस्य ।अन्तर्बहिश्च चितिरस्ति न वेति कश्चि -चिन्वन् बहिर्बहिरहो महिमाऽऽत्मशक्ते: ॥९२॥यथा प्रपायां बहवो मिलन्ते क्षणे व्दितीये बत भिन्नमार्गा: ।प्रयान्ति तव्दव्दहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥९३॥सुखाय यद्यत् क्रियते दिवानिशं सुखं न किंचिव्दहुदु:खमेव तत् ।विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसन्निधौ भवेत् ॥९४॥परिपक्कमते: सकृच्छ्रुतं जनयेदात्मधियं श्रुतेर्वच: ।परिमन्दमते: शनै: शनैर्गुरुपादाब्जनिषेवणादिना ॥९५॥प्रणवाभ्यसनोक्तकर्मणो: करणेनापि गुरोर्निषेवणात् ।अपगच्छति मानसं मलं क्षमते तत्त्वमुदीरितं तत: ॥९६॥मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।निजानुवृत्या परितोषितो गुरुर्विनेयवक्तं कृपया हि वीक्षते ॥९७॥सा कल्पवल्लीव निजेष्टमर्थ फलत्यवश्यं किमकार्यमस्या: ।आज्ञा गुरोस्तत्परिपालनीया सा मोदमानीय विद्यातुमिष्टा ॥९८॥गुरुपदिष्टा निजदेवता चेत्कुप्येत्तदा पालयिता गुरु: स्यात् ।रुष्टे गुरौ पालयिता न कश्चिद्रुरौ न तस्माज्जनयेत कोपम् ॥९९॥पुमान् पुमर्थ लभतेऽपि चोदितं भजन्निवृत्त: प्रतिषिध्दसेवनात् ।विधिं निषेधं च निवेदयत्ससौ गुरोरनिष्टच्युतिरिष्टसंभव: ॥१००॥आराधितं दैवतमिष्टमर्थ ददाति तस्याधिगमो गुरो: स्यात् ।नो चेत्कथं वेदितुमीश्वरोऽयमतीन्द्रियं दैवतमिष्टदं न : ॥१०१॥तुष्टे गुरौ तुष्यति देवतागणो रुष्टे गुरौ रुष्यति देवतागण: ।सदाऽऽत्मभावेन सदात्मदेवता: पश्यन्नसौ विश्वमयो हि देशिक: ॥१०२॥एवं पुराणगुरुणा परमात्मतत्त्वं शिष्टो गुरोश्चरणयोर्निपपात तस्य ।धन्योऽस्म्यहं तव गुरो करुणाकटाक्षपातेन पातिततमा इति भाषमाण: ॥१०३॥तत: स संप्राप्य सुरेश्वराख्यां दिगडनाभि: क्रियमाणसख्याम् ।सच्छिष्यतां भाष्यकृतश्च मुख्यामवाप तुच्छीकृतधातृसौख्याम् ॥१०४॥निखिलनिगमचूडाचिन्तया हन्त यावत् स्वमनवधिकसौख्यं निर्विशन्निर्विशकम् ।बहुतिथमभितोऽसौ नर्मदां नर्मदां तां मगधभुवि निवासं निर्ममे निर्ममेन्द: ॥१०५॥इति वशीकृतमण्डनपण्डित: प्रणतसत्करणत्रयदण्डित: ।सकलसद्रुणमण्डलमण्डित: स निरगात् कृतदुर्मतखण्डित: ॥१०६॥कुसुमितविविधपलाशभ्रमदलिकुलगीतमधुरस्वनम् ।पश्यन् विपिनमयासीदाशां कीनाशपालितामेष: ॥१०७॥तत्र महाराष्ट्रमुखे देशे ग्रन्थान् प्रचारयन् प्राज्ञतम: ।शमितपतान्तरमान: शनकै: सनकोपमोऽगमच्छ्रीशैलम् ॥१०८॥प्रफुल्लमल्लिकावनप्रसडसतामितप्रकाण्डगन्धबन्धुरप्रवातधूतपादपम् ।सदामदव्दिपाधिपरहारशूरकेसरिव्रजं भुजंगभूषणप्रियं स्वयंभुकौशलम् ॥१०९॥कलिकल्पषभडायां सोऽद्रेराराच्चलत्तरडायाम् ।अधरीकृततुडायां सस्रौ पातालगामिगडायाम् ॥११०॥नमन्मोहभडं नभोलेहिश्रृडं त्रुटत्पापसडं रटत्पक्षिभृडम् ।समाश्लिष्टगडं प्रहृष्टान्तरडं तमारुह्य तुडं ददर्शेशलिडम् ॥१११॥प्रणमद्भवबीजभर्जनं प्रणिपत्यामृतमम्पदार्जनम् ।प्रमुमोद स मल्लिकार्जुनं भ्रमराम्बासचिवं नतार्जुनम् ॥११२॥तीररुहै: कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णाया: ।आवजिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्ण्याया: ॥११३॥तत्रातिचित्रपदमत्रभवान् पवित्रकीर्तिर्विचित्रसुचरित्रनिधि: सुधीन्द्रान् ।अग्राहयत्कृतमसदग्रहनिग्रहार्थमग्र्यान् समग्रसुगुणान् महदग्रयायी ॥११४॥अध्यापयन्तमसदर्थनिरासपूर्व किन्त्वन्यतीर्थयश्सं श्रुतिभाष्यजातम् ।आक्षिप्य पाशुपतवैष्णववीरशैवमाहेश्वराश्च विजिता हि सुरेश्वराद्यै: ॥११५॥केचिव्दिसृज्य मतमात्म्यममुष्य शिष्य -भावं गता विगतमत्सरमानदोषा: ।अन्ये तु मन्युवशमेत्य जघन्यचित्ता निन्यु:क्षणं निधनमस्य निरीक्षमाणा: ॥११६॥वेदान्तीकृतनीचशूद्रवचसो वेदा: स्वयं कल्पना:पापिष्ठा: स्वमपि त्रयीपथमपि प्रायो दहन्त : खला: ।साक्षाब्रह्मणि शकरे विदधति स्पर्धानिबध्दां मतिं कृष्णे पौण्ड्रकवत्तथा न चरमां किं ते लभन्ते गतिम् ॥११७॥वाणी काणभुजी च नैव गणिता लीना कचित्कापिली शैवं चाशिवभावमेति भजते गर्हापदं चार्हतम् ।दौर्ग दुर्गतिमश्नुते भुवि जन: पुष्णाति को वैष्णवं निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥११८॥तथागतकथा गता तदनुयायि नैयायिकं वचोऽजनि न चोदितो वदति जातु तौता तित: ।विदग्धति न दग्धधीर्विदितचापलं कापिलं विनिर्दयविनिर्दलव्दिमतसकरे शकरे ॥११९॥इति श्रीमाधवीये तत्कलाज्ञत्वप्रपश्चनम् ।संक्षेपशकरजये सर्गोऽयं दशमोऽभवत् ॥१०॥आदित: श्लोका: ११४८ N/A References : N/A Last Updated : January 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP