संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सुरतमञ्जरी नामाष्टादशो लम्बकः| सुरतमञ्जरीकथा सुरतमञ्जरी नामाष्टादशो लम्बकः शूरसेनाख्यायिका वत्सेश्वरभृगुपतनकथा गोपालसंन्यासकथा कुरङ्गाख्यायिका धीवराख्यायिका चौराख्यायिका सुरतमञ्जरीकथा तारावलोकाख्यायिका सुरतमञ्जरी नाम सुरतमञ्जरीकथा क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सुरतमञ्जरीकथा Translation - भाषांतर पालकः कथयित्वेति सुतस्नेहादयाचत । दूतैरुत्पलदत्ताख्यं चण्डालं तां सुमध्यमाम् ॥१८१॥याचितः प्राह मातङ्गो भुञ्जते यदि मे गृहे । अष्टादशसहस्राणि द्विजानां राजशासनात् ॥१८२॥तदियं दीयते कन्या राज्ञे सुरतमञ्जरी । इति तत्प्रेरितो राज्ञा भोक्तुं विप्रानचोदयत् ॥१८३॥भीता नृपादधर्माच्च द्विजास्ते शरणं ययुः । उज्जयिन्यां महाकालं चण्डालान्नविकूणिताः ॥१८४॥ततः कृशांस्तानादद्भयात्त्राणं त्रिलोचनः । द्विजेन्द्रो न स चण्डालः शापाद्विद्याधरो हि सः ॥१८५॥ युश्माभिर्दृष्टमात्रोऽसौ स्वां तनुं प्रतिपत्स्यते । न दूष्य इति रुद्रस्य शासनात्ते ययुर्द्विजाः ॥१८६॥ततस्तद्दर्शनादेव स विद्याधरतां गतः । उवाच पालकं हृष्टः स तामादाय सुन्दरीम् ॥१८७॥अहं मतङ्गदेवाख्यो राजा विद्याधरेश्वरः । नियुक्तो गौरिमुण्डेन नरवाहवधे पुरा ॥१८८॥ ततोऽहं तद्वधोद्युक्तः प्रच्छन्नः शूलपाणिना । शप्तश्चण्डालतां यातो द्विजसंघागमावधि ॥१८९॥सोऽहं विमुक्तशापोऽद्य पुत्री सुरतमञ्जरी । दत्तेयं त्व पु त्राय मया कर्पूरहासिनी ॥१९०॥इति तेनार्पितां प्राप्य तां दृष्ट्वावन्तिवर्धनः । विललास स्मरावासमानसो रतिलालसः ॥१९१॥विद्याधरोऽपि तां दत्वा सुतां सुरतमञ्जरीम् । नभो विगाह्य प्रययौ लोलहारांशुमण्डलः ॥१९२॥याति काले स्मरस्मेरा रत्नपर्यङ्कशायिनी । केनापि मायिनाभ्येत्य सा हृता नेत्रकौमुदी ॥१९३॥ततस्तद्विरहायाससंतप्तेऽवन्तिवर्धने । पालकान्तःपुरे तारं चचारारोदनध्वनिः ॥१९४॥अथ देव त्वदादेशादयं धूमशिखः क्षणात् । अवन्तिवर्धनं मां च गॄहीत्वाप्तस्त्वदन्तिकम् ॥१९५॥इति सुरतमञ्जरीकथा ॥७॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP