संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|सुरतमञ्जरी नामाष्टादशो लम्बकः| कुरङ्गाख्यायिका सुरतमञ्जरी नामाष्टादशो लम्बकः शूरसेनाख्यायिका वत्सेश्वरभृगुपतनकथा गोपालसंन्यासकथा कुरङ्गाख्यायिका धीवराख्यायिका चौराख्यायिका सुरतमञ्जरीकथा तारावलोकाख्यायिका सुरतमञ्जरी नाम कुरङ्गाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कुरङ्गाख्यायिका Translation - भाषांतर ततो विद्याधराधीशैर्मुनीन्द्रैश्च सह स्थितम् । व्यजिज्ञपत्समभ्येत्य प्रणतो वाहिनीपतिः ॥९४॥ कन्या लावण्यपीयूषलहरी हरिणेक्षणा ।विक्रोशन्ती हृतास्मीति सोचिता सा मया विभो ॥९५॥को हि देव भवद्वीर्यरक्षितो व्योममण्डले । कर्तुं लङ्घितमर्यादः सहसा विप्लवं क्षमः ॥९६॥स मया ललनाचौरः पृष्टः प्राह विहाय ताम् । संरम्भललितोत्तालमाल्यशेखरषट्पदः ॥९७॥अहं मदनवेगस्य पुत्रो विद्याधरप्रभोः । जातः कलिङ्गसेनायामितो नाम नभश्चरः ॥९८॥इयं मतङ्गदेवेन पुत्री सुरतमञ्जरी । विद्याधरी पुरा मह्यं दत्ता वाचैव सुन्दरी ॥९९॥ कालेन पालकस्याद्य सुतायोज्जयिनीपतेः । अवन्तिवर्धनाख्याय वितीर्णा तेन मानिना ॥१००॥ततो मया माययेयं हृता मानुषरागिणी । स्त्रीकृते को हि सहते वीरो न्यक्कारमात्मनः ॥१०१॥इत्युक्तवाक्यः स ययौ मौनतां परदारहृत् । पालकस्य स्नुषा चासौ मुक्ता सुरतमञ्जरी ॥१०२॥श्रुत्वा हरिशिखस्येति वचनं वाहिनीपतेः । गोपालानुमते प्राह नरवाहो नभश्चरान् ॥१०३॥तदमात्यं च सुनयव्रतं भरतरोहकम् । वृत्तं सुरतमञ्जर्यास्ततो विज्ञायतेऽखिलम् ॥१०४॥इति प्रभुगिरा गत्वा स समादाय खेचरः । सभायां न्यस्तवांस्तौ च नरनाथं प्रणेमतुः ॥१०५॥मातुलेयं परिष्वज्य सोऽपश्यत्तस्य मन्त्रिणम् ।स च पृष्टोऽवदत्कन्यावृत्तं भरतरोहकः ॥१०६॥अस्ति वत्सेश्वरदिष्टः पालको लोकपालकः । वीर प्रशास्ति वसुधां वसुधामशतप्रदः ॥१०७॥ततः कदाचित्संप्राप्तपुर्यामुदकदान्तिके ।महोत्सवे पौरजनो बभूवाबद्धकौतुकः ॥१०८॥हत्वा चण्डमहासेनो दैत्यमङ्गारकं पुरा । प्रत्यब्दं तद्गिरा चक्रे वारिदानोत्सवस्थितिम् ॥१०९॥ महोत्सवारम्भो भूषिताशेशमण्डले ।यात्राकुलेषु लोकेषु प्रहृष्टो निर्ययौ गजः ॥११०॥ स निर्गतो लम्बमानचरणालानश्रृङ्खलः । भारपीडाभयेनेव भोगीन्द्रानुगतो बभौ ॥१११॥ स लेभे लोलमत्तालिवलयश्यामलै रदैः ।मन्थोत्थकालकूटाम्बुसिक्तमन्दरविभ्रम म् ॥११२॥ तच्चण्डडिण्डिमध्वानपिण्डिते जनमण्डले ।अकालप्रलयभ्रान्तिभीमः कोलाहलोऽभवत् ॥११३॥ततः कुतूहलाकृष्टा निर्ययुस्तरलेक्षणाः ।पुरभङ्गापरित्रस्ता गरहाणामिव देवताः ॥११४॥मुखाम्बुरुहहारिण्यस्ता बभुर्नयनोत्पलाः । विलोडनभयात्प्राप्ता नलिन्य इव सेवितुम् ॥११५॥विद्रुतेष्वथ लोकेषु तत्र चण्डालदारिका । तस्य तस्थावसामान्यलावण्यटिनी पुरः ॥११६॥भ्रूलतालास्यललितं स्तनस्तबकसुन्दरम् । उद्यानमिव पुष्पेषोर्बिभ्राणामिव यौवनम् ॥११७॥उगुञ्जाहारानुकारीभिर्भूषिताधरकान्तिभिः । गरुरी लीलाकिरातीव कटाक्षशिखिपिच्छिका ॥११८॥दीर्घवेणीलता मौर्वीतनुमध्या मनोभुवः । त्रिवली मुष्टिमुद्रेव क्रीडाकोडण्डचन्द्रिका ॥११९॥ भयानभिज्ञा सा तत्र तस्थौ कौतुकनिश्चला । वल्लरीव निवातस्था कुटिलालकषट्पदा ॥१२०॥तां जिघृक्षुः स सहसा कदलीमिव कुञ्जरः । ससर्पोद्दण्डशुण्डालो राहुश्चन्द्रकलामिव ॥१२१॥ह्रियमाणाम गजेन्द्रेण वीक्ष्य तां चकितेक्षणाम् ।ग्रस्तं रूपं गता कान्तिरिति पौराः प्रचुक्रिशुः ॥१२२॥मातङ्गानामियं लक्ष्मीः कामिनीति मतङ्गजः । रत्नुं करेण पस्पर्श सहसा त्यक्तविक्रियः ॥१२३॥अतिचन्द्रामृतः कोऽपि परिरम्भो मृगीदृशाम् । पशवोऽपि यमासाद्य भवन्ति सुखनिश्चलाः ॥१२४॥( तत्स्पर्शमीलिताक्षं तं विलोक्य करिणं जनाः । अहो चित्रमहो चित्रमित्यूचुः कौतुकाकुलाः ) ॥१२५॥ अवन्तिवर्धनस्तत्र राजपुत्रोऽयमुत्सुकः । दृष्ट्वा चण्डालकन्यां तामभवत्स्मरतापितः ॥१२६॥ततस्तद्विरहायासपाण्डुरः प्रतिवासरम् । कृष्णपक्षकृतालम्बः शशीव क्षामतां ययौ ॥१२७॥पालकोऽथ सुतं ज्ञात्वा सभार्यः पृथिवीपतिः । गाढाभिलाषं मातङ्ग्यां चिन्ताशोकाकुलोऽभवत् ॥१२८॥राजानं दुःखसंतप्तं तनयस्नेहयन्त्रितम् । प्राहावन्तिवती देवी धिगेवं कुलपांसनम् ॥१२९॥राजा राजकुले जातो विद्याभिरभिसंस्कृतः । अतीव कोऽप्ययोग्येषु विधत्ते साभिलाषताम् ॥१३०॥पापः कोऽप्येष जठरे मया भारश्चिरं धृतः । अस्य शीलेन नः सर्वं संशये पतितं कुलम् ॥१३१॥शीलं राज्ञा दिशां चन्द्रस्तारुण्यं हरिणीदृशाम् ।लतानां मधुमासश्च विभूषणमकृत्रिम म् ॥१३२॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥१३३॥इति जायावचः श्रुत्वा प्राह पालकभूपतिः ।देवि चन्डालकन्यैषा दिव्यजातिरिवेक्ष्यते ॥१३४॥रूपमुत्तम््लाना कान्तिः सप्रतिभं वचः ।गणनीया गुणश्रीश्च सूचयन्ति न नीचताम् ॥१३५॥धात्रा शापावतीर्णासौ कापि स्वर्गवधुर्ध्रुवम् । रज्यते जातिदोषेण मर्त्यसंस्पर्शदूषणात् ॥१३६॥नगरे सुप्रतिष्ठाख्ये राज्ञः सेनाजितः पुरा । पुत्री कुरङ्गिका नाम विहर्तुं वनमाययौ ॥१३७॥अत्रान्तरे मदगजस्त्रुटितालानश्रृङ्खलः । धावञ्जग्राह तामेत्य नीलाद्रिरिव जङ्गमः ॥१३८॥तां राजपुत्रीं नागेन दृष्ट्वा विप्रह्रदे जने । ररक्ष करिणं हत्वा कोऽपि चण्डालदारकः ॥१३९॥ततः परस्परप्रेमविलोकनमहोत्सवे । तयोर्बभौ मनोग्रन्थिविदग्धो मकरध्वजः ॥१४०॥सेवाभिरौषधैर्मन्त्रैः प्रीतिः कालेन जायते ।दृष्टमात्रस्तु वशद अतीव दयितो जनः ॥१४१॥स चन्डालकुमारोऽथ गत्वा तद्विरहाकुलः ।श्मशाने वह्निमादाय जीवितं त्यक्तुमुद्ययौ ॥१४२॥तमुवाच ततस्तत्र भगवान्पावकः स्वयम् । कानीनस्त्वं मम सुतो न त्वं चण्डालदारकः ॥१४३॥कपिलाख्या ब्राह्मणस्य पुत्री कपिलशर्मणः । मया समागता पूर्व त्वामसूत रविप्रभम् ॥१४४॥ त्यक्तस्तया कन्ययैव कुन्त्या वैकर्तनिर्यथा । चण्डालेनासि संप्राप्य गोक्षीरेण विवर्धितः ॥१४५॥ गच्छ याचस्व तां कन्यां भूपालं ब्राह्मणो भव । प्राक्कर्मजोऽयं संसर्गदोषः प्लुष्टो मयाद्य ते ॥१४६॥श्रुत्वेति पावकवचो गत्वा सेनाजितं नृपम् । कन्यामयाचत प्रौढश्चौकोपास्मै ततो नृपः ॥१४७॥ततस्तु जन्मवृत्तान्तं यथोक्तं स्वयमग्निना । देवदूतो दिवः प्राह तच्चामन्यत भूपतिः ॥१४८॥ततः कुरङ्गीं संप्राप्य चिरं विरहतापिताम् । पित्रार्पितामिति प्रायो देवा यान्त्यपि दुष्कुले ॥१४९॥इति कुरङ्गाख्यायिका ॥४॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP