कथामुखनामा
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
इत्युक्त्वा भूमिपालानां नानादेशनिवासिनाम् ।
पौराणां च व्यधात्पूजां विवाहोत्सवसङ्गिनाम् ॥२६८॥
वत्सेश्वरं समामन्त्र्य गोपाले शासनात्पितुः ।
प्रयाते स्वपुरीं राजा विजहार प्रियासखः ॥२६९॥
ततो रामाकुलोदारकटाक्षनवपल्लवः ।
विलासहासकुसुमो देव्याः स्मरतरुर्बभौ ॥२७०॥
गूढं रजनिकाकामी राजा तां च विकातरः ।
इति गोत्रापराधेषु सा ब्रुवाणा रुषं ययौ ॥२७१॥
अयं नरेन्द्रस्य शरीरतुल्यः स्त्रीचक्रिकाबर्बरचक्रवर्ती ।
उक्त्वेति दासीभिरनङ्नदूतं वसन्तकं भूमिपतेर्बबन्ध ॥२७२॥
सा कृत्वा यत्पथविरचिता तापसीनां विदग्धा
तैस्तैः श्लेषप्रनयवचनैस्त्यक्तकोपां विधाय ।
राज्ञश्चक्रे स्वयमविलसत्प्रेमकण्ठावलम्बां
लक्ष्मीमिन्दोरिव जलधरच्छेदलब्धप्रसादाम् ॥२७३॥
देवी ततः स्मितविभक्तकपोलकान्ति -
र्मुक्त्वा वसन्तकमवाप्य रुषं चकार ।
राजा न््द च तदाननपद्मभृङ्गः
कोपप्रसादसुभगो रतये हि कामः ॥२७४॥
इति क्षेमेन्द्रविरचिते बृहत्कथासारे कथामुखनामा द्वितीयो लम्बकः समाप्तः ।
N/A
References : N/A
Last Updated : October 05, 2017
TOP