संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथामुखनामा द्वितीयो लम्बकः| लोहजङ्घाख्यायिका कथामुखनामा द्वितीयो लम्बकः श्रीदत्ताख्यायिका सहस्रानीककथानाम लोहजङ्घाख्यायिका विनष्टाख्यायिका कथामुखनामा लोहजङ्घाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत लोहजङ्घाख्यायिका Translation - भाषांतर द्वितीयो गुच्छः । कुलोचितपदं याते पार्थवंश्ये महीपतौ । प्रियासहायस्तत्सूनुश्चक्रे शास्त्रोदितां क्रियाम् ॥१॥ क्रमागतं समासाद्य राज्यं वत्सेश्वरस्य च । किरीटिरचिताश्चर्ये जनं चक्रे श्लथादरम् ॥२॥ यौगन्धरायणन्यस्तराज्यचिन्तापरोऽनयत् । कालं वीणाविनोदेन स मृगव्यामसेवत ॥३॥ अत्रान्तरे श्लथारम्भं तं ज्ञात्वोज्जयिनीपतिः । चक्रे चण्डमहासेनस्तज्जयाय ततं मनः ॥४॥ कन्या वासवदत्तेयं तद्योग्यैव सुता मम । निसर्गशत्रुर्नार्थो मे मानी स च न याचते ॥५॥ बहुदुर्गो महाकोशो रक्तामात्यो विशालधीः । उपायैर्नैव शक्योऽसौ म्रुगयाच्छद्मना विना ॥६॥ इत्येवं नृपतिर्ध्यात्वा चिरं वत्सेश्वरस्थले । तुष्टाव दुर्गामुद्यानं गत्वा पुष्पकरण्डकम् ॥७॥ इच्छासिद्धिवरं प्राप्य भगवत्यास्ततो नृपः । विविच्य धीमान्सुचिरं बुधदेवेन मन्त्रिणा ॥८॥ बध्नाति कुञ्जरान्नित्यं वीणानादहतान्वने । ग्राह्यः स क्रूरनागेन विधायेति धियं पुरः ॥९॥ दिदेश दूत्रं कृतकप्रनयोपायनैः सह । वत्सेश्वराय संदेशमप्यधाच्च दृढाशयः ॥१०॥ स्वप्रकाशश्रिया स्फारमिन्दोरिव कलानिधेः । मानसोल्लासिनियते प्रभूता कीर्तिकौमुदी ॥११॥ पुत्री मे कुलसर्वस्वमियं गान्धर्ववेदिनः । वीणायां श्रुतितत्त्वज्ञशिष्यतां तव वाञ्छति ॥१२॥ तदेह्युज्जयिनीं देव प्रणयाद्दुहितुर्मम । सन्तोऽर्थनासु महतां निषेधं न हि शिक्षिताः ॥१३॥ इत्युक्त्वा प्रेषितो दूतः कौशाम्बीं त्वरितो ययौ । तत्रोदयनमासाद्य यथादिष्टं न्यवेदयत् ॥१४॥वीणाम वासवदत्तासौ ज्ञास्यत्यभ्येत्य मत्पुरीम् । शिष्यो गुरुगृहं याति न हि शिष्यगृहं गुरुः ॥१५॥ इति प्रतीपसंदेशं प्राप्य दूते गते नृपः । यौगन्धरायणो मन्त्री चुकोपावन्तिभूभुजे ॥१६॥ स प्राह भृकुटीधूमव्यक्तकोपाललाकुलः । यौगन्धरायणो वीरः संरम्भाकम्पिकुण्डलः ॥१७॥ पश्य राजपशोर्दर्पं संमोहाध्मातचेतसः । अस्मदाह्वानसंदेशे निष्कम्पस्य प्रगल्भता ॥१८॥ वध्वाहं सानुबन्धं तं मिथ्याप्रणयवादिनम् । यास्यामि कोपजलधेः पारं सेना विधीयताम् ॥१९॥ श्रुत्वेत्याह महामन्त्री राजन्सदृशमुच्यते । अवज्ञामन्थरा वाचो न सहन्ते मनस्विनः ॥२०॥ स्वाच्छन्द्यं सुखसक्तेन रतिपेशलतेजसा । देव त्वया स्वयं नीतः प्रतापो दिक्षु शीतताम् ॥२१॥ भवन्तं मृगयासक्तं विज्ञायाङ्कुरितानयम् । मन्येऽहं प्रतिसामन्तैः किंचिदुच्चैः कृतं शिरः ॥२२॥ प्रणयेनैव ललना विनयेनैव कीर्तयः । नरनाथ विनश्यन्ति कुनयेन नृपश्रियः ॥२३॥ महेन्द्रवर्मणो नप्ता जयसेनसुतो नृप । चण्डिवरान्महासेनः स चण्डाह्रनृपोऽभवत् ॥२४॥ राजा चण्डीमहासेनः स विजेतुं न शक्यते । यस्मै ददौ स्वयं देवी कृपाणं विन्ध्यवासिनी ॥२५॥ नडागिरिगिरीन्द्राभो गजेन्द्रस्तस्य विद्यते । मन्ये यस्य मदामोदैर्वैमुख्यं यान्ति दिग्द्विपाः ॥२६॥ मृगयानिर्गतो हत्वा स दैत्यं क्रोडरूपिणम् । अङ्गारकाख्यं पाताले ततः प्राप तदात्मजाम् ॥२७॥ तामङ्गारवतीं प्राप्य रूपलावण्यशालिनीम् । गोपालपालकौ पुत्रौ तस्यां प्राप सुतां तथा ॥२८॥ पुत्री वासवदत्ताख्या स्वप्ने वासवसूचिता । श्रूयते तनयो भावी यस्या विद्याधरेश्वरः ॥२९॥ यौगन्धरायणस्येति श्रुत्वा राजसुतां नृपः । प्रदध्यौ मनसा हृष्टः स्मरो हि ज्ञानलोचनः ॥३०॥ अत्रान्तरे प्रतिवचो दूतादाकर्ण्य निःस्पृहम् । ध्यायंश्चण्डमहासेनः किमपि व्याकुलोऽभवत् ॥३१॥ व्याधैरम्भःकृतपदं कृत्वा मन्त्रं महागजम् । विन्ध्याटव्यां ससर्जाशु सशैलमिव जङ्गम म् ॥३२॥ तं विलासालसगतं विलोलश्रवणाननम् ।व्याधैः सुरगजाकारं विवेदोदयनो नृपः ॥३३॥ दृष्ट्वा तं तुरगप्रायं सैन्यं कृत्वाटवीमुखे । गजेन्द्रबन्धकुशलो विवेशैको महद्वनम् ॥३४॥ तत्रापश्यन्महानागमहंकारमिवोन्नतम् । संसारमिव निःसारमैश्वर्यमिव चञ्चलम् ॥३५॥ अशीलमिव दुःखान्तं कुमन्त्रमिव निष्फलम् । स्त्रीचित्तमिव दुर्लक्श्यमज्ञानमिव मोहदम् ॥३६॥ अधर्ममिव मायाढ्यं मनोरथमिवायतम् । वेश्यारागमिवासत्त्यमनङ्गमिव हारिणम् ॥३७॥ दुर्बुद्धिमिव दुःसाध्यं निरङ्कुशमिवेश्वरम् । परद्रोहमिवाभद्रमदानं लोभसंनिभम् ॥३८॥ कूटकुञ्जरमालोक्य वीणामधुरगीतिभिः । स जिघृक्षुर्मुधा तस्थौ सेवाभिरिव दुर्जनम् ॥३९॥ क्क यन्त्रकृत्रिमो हस्ती वीणया क्क च तद्गहः । प्रायेण व्यसनासक्तिर्मोहाय महतामपि ॥४०॥ तस्मिन्घोषवतीव्यग्रे योधाः कुञ्जरनिर्गताः । अभ्याययुः सुसंरब्धाः सहसा तं जिघृक्षवः ॥४१॥ स तानशङ्कितो दृष्ट्वा धैर्यनिष्कम्पमानसः ।मण्डलोत्तालचरणो जघान सुभटान्रणे ॥४२॥ हतशेषैः सहाभ्येत्य महाकालवरोर्जितः । एको वीरवरः पश्चाज्जग्राह छद्मना नृपम् ॥४३॥ तच्छ्रुत्वा स्वयमेत्याह पुनरुज्जयिनीपतिः । वत्सेश्वरं समासाद्य स विवेश निजां पुरिम् ॥४४॥ पौरैरभ्यर्थितोऽभ्येत्य स क्रूरविजयी नृपः । लज्जया मार्दवं प्राप विरराम च तद्वधात् ॥४५॥ ततः प्रणम्य वत्सेशं सह पौरैर्व्यजिज्ञपत् । मान्योऽसि मम राजेन्द्र न हि मे किल्बिषं त्वयि ॥४६॥ इत्युक्त्वा तनयामस्मै न्यवेदयदमन्दधीः । वीणागेयकलाज्ञाने शिष्येयं भवतामिति ॥४७॥ तां ददर्श ततो राजा नीलनीरजलोचनाम् । श्रृङ्गारमारुताधूतस्मराब्धेर्लहरीमिव ॥४८॥ भ्रूलतावीचिरचनां हारडिण्डीरपाण्डुराम् । छद्मग्रहां च मानाग्निनिर्वापननदीमिव ॥४९॥ दधतीं त्रिवलीकान्तिवर्णालीलोमवल्लरीम् । हारहंससमुत्सृष्टां सेवाललतिकामिव ॥५०॥ शोणाधरां ससिन्दूरकुचकुम्भाभिरागिणीम् । सितांशुचामरोदारां कन्दर्पकरिणीमिव ॥५१॥ विलोक्य राजतनयां स कम्पतरलोऽभवत् ।कान्तिकल्लोलिनीकूले शशाङ्क इव बिम्बितः ॥५२॥ राजपुत्री तमालोक्य लज्जानतमुखी बभौ । मेखलारत्नकिरणैर्धृतेवोर्ध्वविकाशिभिः ॥५३॥ स्वेदवारिपरामृष्टकपोलगुरुपत्त्रिका । चकम्पे करुणार्द्रेण साहतेव मनोभुवा ॥५४॥ प्रेमप्रणयशालिन्या सेव्यामानस्तया नृपः । राज्यस्थितिं विसस्मार सुधयेवामरीकृतः ॥५५॥ श्रुत्युत्कर्षापकर्षेण स्वरैः स्थाननिपातिभिः । मूर्च्छनाव्यञ्जनोदारतालच्छिन्नायतिक्रमैः ॥५६॥ निर्विशेषं प्रियतमा ततस्तरललोचना । प्रावीण्यं प्राप वीणायामवन्तीनृपतेः सुता ॥५७॥ अत्रान्तरे तथाभूतं कृत्वा वत्सनरेश्वरम् । संमन्त्र्य सेनापतिना सह पौरैश्च दुःखितः ॥५८॥ यौगन्धरायणो धीमान्निर्ययौ योगकोविदः । विपद्वल्लीकुठारो हि सत्सहायसमागमः ॥५९॥ व्रजन्विन्ध्याटवीं प्राप्य त्वरितस्तरुमालिनीम् । प्लवत्कपिकुलालोलवासहिन्तालपल्लवाम् ॥६०॥ शल्लकीकवलोद्गारिकरकुञ्जरसंकुलाम् । जृम्भमाणमहासिंहदंष्ट्रांशुवलयोज्ज्वलाम् ॥६१॥ तामतीत्याचलोपान्ते पल्लीपतिमुदारधीः । पुलिन्दकाभिधं प्राप वसन्तकसखः पथि ॥६२॥ सुहृदं वत्सराजस्य तं सर्वशबरेश्वरम् । सहायः कार्यशेषे त्वमित्यामन्त्र्य ययौ रहः ॥६३॥ दिनैर्दशभिरासाद्य योगेनोज्जयिनीं ततः । महाभयं महाकालस्मशानमवसन्निशि ॥६४॥ कपालशकलाकीर्णं चटत्कारचितानलम् । वेतालोत्तालकङ्कालकेशिकोलाहलाकुलम् ॥६५॥ तत्र योगेश्वराख्येन मित्रतां ब्रह्मरक्षसा । प्राप्य रूपपरावृत्तिं योगं लेभे महामतिः ॥६६॥ क्षणाद्बभूव खल्वाटः पञ्चचूडो महाहनुः । लम्बोदरस्तनुग्रीवः ककुदी जरसार्दितः ॥६७॥ वसन्तः सोऽपि तेनैव नीतः क्षिप्रं विरूपताम् । बभूव विकटाकारो हस्त्यायतनमात्मनः ॥६८॥ यौगन्धरायणः प्राप्य राजमार्गं स्खलद्गतिः । गायन्हसन्पठन्धावन्नृत्यञ्जनमहासयन् ॥६९॥ सवालकरतालाङ्ककेलीकलकलाकुलः । कन्यकान्तःपुरोपान्ते नितान्तोन्मत्तकोऽभवत् ॥७०॥कौतुकात्तत्र नारीभिर्नीतो गान्धर्वशालिकाम् । कन्यागुरुं ददर्शाथ नृपं पुनरिवार्जुनम् ॥७१॥ सुसंयतं समालोक्य रुरोद विगतज्वरम् । रहो युक्तं समाभाष्य योगेनान्तर्हितोऽभवत् ॥७२॥ वत्सेश्वरोऽपि संप्राप्य योगं यौगन्धरायणात् । ददर्श मन्त्रसंकेतविपरीतं वसन्तकम् ॥७३॥ तेन मन्त्रिविदग्धेन रञ्जिता राजकन्यका । जहर्ष श्रीयुताः सत्यं विपरीतेषु सादराः ॥७४॥ धुर्यः कथाविदामस्मि ब्रुवाणमिति तां कथाम् । पप्रच्छ राजतनयापृष्टोऽथाह वसन्तकः ॥७५॥ मथुरेत्यस्ति नगरी यदग्रे न गरीयसी । सापि शक्रपुरीरम्या रुक्मिणीव हरिप्रिया ॥७६॥ पौरकीर्तिसुधाधौतरत्नभ्राजिष्णुमन्दिरे । श्वेतद्वीपधिया यत्र साक्षात्संनिहितो हरिः ॥७७॥ बभूव रूपिणी नाम तत्र वारविलासिनी । वशीकरणचूर्णेन निर्मितेव मनोभुवा ॥७८॥ सुरालयगतापश्यत्सा कदाचिन्मनोरम म् । द्विजं साङ्गमिवानङ्गं साकारमिव यौवनम् ॥७९॥ दृष्टकामुकलोकापि तं विलोक्य जहर्ष सा । करोति कं न वशगं साभिलाषं प्रियो जनः ॥८०॥ ततस्तं लोहजङ्घाख्यं भूत्वा प्रसभमर्थिनम् । निजं निनाय सा गेहं रत्नांशुकपिशोदरम् ॥८१॥ तेन वालकुरङ्गाक्षी रममाणा घनस्तनी । ललामरुचिरं तत्र निषिद्धाशेषकामुका ॥८२॥ ततो मकरदंष्ट्राख्या जननी हरिणीदृशः । अनेककामुकच्छिन्ननासा श्रवणभीषणा ॥८३॥ सदा कलहनिर्लूननिःशेषकचसंचया ।अतीतकामुकव्रातकेशाघातव्रणान्तिका ॥८४॥ भयदा कालरात्रीव वज्रधारेव कुट्टिनी । घोरा चिताग्निमालेव कङ्कालीव नराशिनी ॥८५॥ विलोक्य निर्धनं पुत्र्या वल्लभं शुचिरस्थितम् । कपालमांसरसिका राक्षसी साऽब्रवीत्सुताम् ॥८६॥ अहो विभूतिरहितं पुत्रि गेहं न राजते । शुष्कवीथीव वेश्या हि पूर्यन्ते लोकयात्रया ॥८७॥ पत्युर्दारिद्र्यसाहाय्यं सतीनामेव शोभते । अस्माकं तु धनव्रातैः सदा नवनवोत्सवः ॥८८॥ अभ्यासरहिता विद्या निरुद्योगा नृपश्रियः । वेशयोषाश्च रागिण्यो हास्यायतनमङ्गने ॥८९॥ इदं हि यौवनं बाले तरङ्गजवगत्वरम् । अस्मिन्प्रयाते वृद्धानां को ददाति कपर्दिकाम् ॥९०॥ दृष्टिच्छटेव तीक्ष्णा तां कुटिला भ्रूलतेव या । स्तनस्थलीव कठिना वेश्या सर्वस्वहारिणी ॥९१॥ निश्कामाः कामचारिण्यो भोगिन्यो न कुलादराः । नित्योपहारहारिण्यो जृम्भन्ते वारयोषितः ॥९२॥ विचित्रमायाबहुला बन्धुकी मोहिनी नृणी । अस्मद्विधा हि सरले संसृतावपि संसृतिः ॥९३॥ धनेनाल्पोपचारेण हरन्ति द्रविणं बहु । विदग्धपण्यललनाः कर्णोदकमिवाम्भसा ॥९४॥ स्मितं नृत्तं प्ररुदितं रागो रूढिरुदारता । स्वप्नदृष्टमिवाशेषमसत्यं वारयोषिताम् ॥९५॥ कामुके नूतनासङ्गगाढालिङ्गनकातरे । गणिका गेहगणनां करोति ध्यानमास्थिता ॥९६॥ धनाय यत्नेन परा भव पुत्रि महीभुजाम् । वेश्यानां चार्थहीनानां तृणेनापि न विक्रयः ॥९७॥ पतन्ति खङ्गधरासु विशन्ति मकराङ्कुरम् । किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो नराः ॥९८॥ पुत्रि धन्या वयं यासा संभोगेन धनार्जनम् । करं शिरो वा विक्रीय धनं मुग्धे न लभ्यते ॥९९॥ त्यजैनं निर्धनं विप्रं मा रूपवशगा भव । न हि दारुमयो हस्ती करोति समरक्रियाम् ॥१००॥ इति मातुर्वचः श्रुत्वा रूपिणी कोपकम्पिता । मैवं वादीः पुनरिति प्रोवाच दृढरागिणी ॥१०१॥ गूढं मकरदंष्ट्राथ राजपुत्रं स्वमन्दिरे । निदाय निर्धनं श्रद्धा निरास सपदि द्विजम् ॥१०२॥ स निरस्तोऽर्धचन्द्रेण ताडितो लगुडैर्भृशम् । क्षिप्तश्च कर्दमे प्रायादटवीं रवितापितः ॥१०३॥ सगावसानसंतापदुःखदैन्यभ्रमाकुलः । छायार्थी शुष्ककरिणः प्रविवेश कलेवरम् ॥१०४॥ अरण्ये जम्बुकत्यक्ते कीटनिष्कुषितान्तरे । स निद्रामाययौ तस्मिन्रन्ध्रवातगतागतैः ॥१०५॥ अत्रान्तरे समुत्तस्थौ मेघस्तापिच्छसच्छविः । यद्वृष्टिपूरैः ककुभो बभूवुर्जलसंकुलाः ॥१०६॥ महौघेन हृतः सोऽथसरिद्वारिगतो गजः । समुद्रमाससादाशु तरङ्गालिङ्गितो मुहुः ॥१०७॥ तार्क्ष्यवंशस्ततः पक्षी तमादायामिषाशया । भेतस्तत्याज लङ्कायां दृष्ट्वां तं निर्गतं नरम् ॥१०८॥ निःसृतोऽथ गजाद्विप्रः शनैः प्राप विभीषणम् । अवाप्यातिथिसत्कारं तत्र राघवगौरवात् ॥१०९॥ पृष्टो विभीषणेनाथ प्राहाहं मथुराश्रयः । विसृष्टो विश्णुना साक्षाद्रत्नार्थं भवदन्तिकम् ॥११०॥ बिभीषणोऽपि तच्छ्रुत्वा विश्णोर्देयमुपायनम् । शङ्खचक्रगदारत्नमित्युक्त्वास्मै ददौ विभुः ॥१११॥ तदाज्ञयैव सौवर्णवाहनं प्राप्य पक्षिणम् । रत्नानि च महार्हाणि प्रययौ मथुरां क्षणात् ॥११२॥ तत्र दिव्याम्बरधरः स्रग्वी रुचिरकुण्डलः । शङ्खचक्राङ्कितो रात्रौ रूपिण्या संगतः पुनः ॥११३॥ रूपिणी विश्णुना साक्षात्कामित्ताहमिति स्फुटम् । उवाच लक्ष्मीसौभाग्यमदातरलमानसा ॥११४॥ नो वक्ति द्विज संतापे देवताहमिति स्थिता । कथचिज्जननीं वक्ति सा पटान्तरिताकृतिः ॥११५॥ एवं प्रतिनिशं तस्यां संगते देवविग्रहे । यत्नान्मकरदंष्ट्रा तां यत्रैकान्ते व्यलोकयत् ॥११६॥ ततः प्रणम्य तनयां रूपिणीं सा व्यजिज्ञपत् । सशरीरा दिवंगन्तुं................ तेनाहमर्थये ॥११७॥ इति मातुर्गिरा प्राह सा प्रियं विष्णुविग्रहम् । माता मे त्वत्प्रसादेन स्वर्गं गन्तुं समीहते ॥११८॥ तच्छ्रुत्वा केशवाकारस्तथेत्युक्त्वा दिदेश ताम् । लिप्तार्धा पञ्चचूला च प्रातः कार्येत्यनारदात् ॥११९॥ तदादेशादथ कृता कुट्टिनी पञ्चचूलिका । सिन्दूरलिप्तैककुचा मसीन्यस्तत्रिपुण्ड्रिका ॥१२०॥ एकादश्यां संनिधिर्मे माथुरेऽस्मिन्सुरालये । उक्त्वेति नग्ना सहसा निनाय खगवाहनम् ॥१२१॥ ततस्तां तोरणस्तम्भे निधायैकादशीव्रते । उवाच निशि देवाग्रे संगतान्ब्राह्मणांल्लघु ॥१२२॥ मारी पतिष्यति क्षिप्रमद्य वो भीषणाकृतिः ।रक्षा विधीयतां काचिदित्युक्त्वा ऽलक्ष्यतां ययौ ॥१२३॥ आकाशभाषितं श्रुत्वा ते द्विजास्त्रासविह्वलाः । शान्तिस्वस्तिकमन्त्राङ्कस्तोत्रैश्चक्रुर्महारवम् ॥१२४॥ कुट्टिन्यपि चिरन्यस्ता तत्र शीतानिलार्दिता । हा हा पतामीति भयाद्विरराव खरस्वरम् ॥१२५॥ तच्छ्रुत्वा ब्राह्मणा भीता मा पतेत्यार्तवादिनः । मारि मारि नमस्तुभ्यं त्वं त्राममिति चुक्रुशुः ॥१२६॥ साब्रवीन्निपताम्येषा कम्पमाना पुनः पुनः । मा मा पतेति चात्यन्तभीताः प्राहुर्द्विजातयः ॥१२७॥ पतामि मा पतेत्येवं तस्यास्तेषां च सा निशा । प्रययौ क्रन्दतामेव शतसंवत्सरोपमा ॥१२८॥ सवृद्धवालनगरे संप्राप्ते कौतुकाकुले । प्रातर्दूरात्परिज्ञाता द्विजेनैकेन कुट्टिनी ॥१२९॥ लोहजङ्घेन चरितं हास्यमेतदिति द्विजाः । विज्ञाय कुट्टिनीं वैरे प्रसिद्धं ददृशुश्च तम् ॥१३०॥ स्वरूपं लोहजङ्घोऽपि विज्ञाय बहुरत्नदः । रूपिणीं भूषयित्वा च धृतिं स प्राप पुष्कलाम् ॥१३१॥ इति लोहजङ्घाख्यायिका ॥१॥ N/A References : N/A Last Updated : October 05, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP