संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|कथामुखनामा द्वितीयो लम्बकः| विनष्टाख्यायिका कथामुखनामा द्वितीयो लम्बकः श्रीदत्ताख्यायिका सहस्रानीककथानाम लोहजङ्घाख्यायिका विनष्टाख्यायिका कथामुखनामा विनष्टाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत विनष्टाख्यायिका Translation - भाषांतर श्रुत्वेति राजतनया कथामद्भुतशालिनीम् । अमन्दानन्दनिस्पन्दशतधौतमुखी बभौ ॥१३२॥ अथ राजानमभ्येत्य स्वैरं यौगन्धरायणः । विमुक्त्युपायं संमन्त्र्य योगं दत्वा ययौ पुनः ॥१३३॥ प्ररूढगाढविश्रम्भां प्रेमबन्धवशीकृताम् । राजपुत्रीं नृपो ज्ञात्वा योगस्फाटिकबन्धनः ॥१३४॥ भद्रां भद्रवतीं नाम करिणीं लक्षणोचिताम् । आदायाशाढकं कृत्वा दानैर्हस्तिपकं वशे ॥१३५॥ वसन्तकेन सहितः सार्धं वासवदत्तया । तत्सख्या प्रेमविश्वासभुवा काञ्चनमालया ॥१३६॥ निशि सर्वायुधोपेतो हत्वा नगररक्षिणः । ययौ करेणुकावेगधृतहारतरङ्गितः ॥१३७॥प्रयाते वत्सनृपतौ बभूवौज्जयिनीपतिः ।मिलत्समस्तसुभटव्रातकोलाहलः पुरे ॥१३८॥ नडागिरिं समारुह्य पालकः कुपितोऽथ तम् । पृष्ठतोऽभिससारैकस्तज्ज्ञात्वावन्तिपोऽब्रवीत् ॥१३९॥ कोपनः पालकः शूरो मान्यो वत्सेश्वरश्च नः । गच्छ गोपाल तद्युद्धं निवारय जवादिति ॥१४०॥ पितुर्नियोगादारुह्य सुग्रीवाख्यं तुरङ्गम म् । गोपालः प्रययौ तूर्णं ततो भ्रातृनिवर्तने ॥१४१॥ वत्सेश्वरोऽपि निबिदध्वान्तलीने निशामुखे । व्रजन्रराज भ्राजिष्णुतारहारांशुसूचितः ॥१४२॥ अथोज्जगाम ललनाकपोलललितद्युतिः । रजनीराजतनयाकर्पूरतिलकः शशी ॥१४३॥ मुष्टिग्राह्ये निशाकान्तकान्तिपूरे प्रसर्पति । अकस्माद्दाननिर्घोषभज्यमानेव भूरभूत् ॥१४४॥ कल्पान्तोभ्द्रान्तचण्डीशलडड्डमरुकोद्भवम् । आषाढकः समाकर्ण्य शब्दं राजानमभ्यधात् ॥१४५॥ एष देव महामेघघोरघोशो नडागिरेः । शब्दो रुणद्धि विध्व........................ ॥१४६॥ उक्त्वेति विरते तस्मिन्नदृश्यत नडागिरिः । मेघसंसर्गमलिनः सुरद्विप इवापरः ॥१४७॥ तदाज्ञया विना नैव मम सा स्वपदस्थितिः । इति वागस्त्यमन्वेष्टुमायातो विन्ध्यभूधरः ॥१४८॥ सिन्दूरपूरारुणितं घण्टाभ्यां तद्वपुर्बभौ । उदयास्तस्थितार्केन्दुबिम्बं सांध्यमिवाम्बरम् ॥१४९॥ करेणुदन्तमुसलच्छ्यसूत्रेण शोभितः । सेवाकृते विशेषेण मा पीडय महीमिति ॥१५०॥ मा कदाचिद्धि साकारकरं तारापतिं हरेत् । इति नक्षत्रमालाभिः सेव्यमान इवाभितः ॥१५१॥स पालकेन कृतिना युद्धसज्जेन कुञ्जरः । प्रेरितोऽपि विकोपोऽभूद्दृष्ट्वा च भगिनीं पुरः ॥१५२॥ आकर्णाञ्चितकोदण्डमण्डलोच्चण्डसायकः । आलोक्य भगिन्नीमग्रे विरराम च पालकः ॥१५३॥ राजापि निर्दयोद्धूतधन्वा धैर्यनिधिर्युधि । चिच्छेद पालकस्यापि चक्रतोमरकार्मुकम् ॥१५४॥ खङ्गखण्डैर्निपतितैस्तस्य संग्रामभूरभूत् । जयश्रीरतिशय्येव कीर्णकर्णोत्पलच्छदैः ॥१५५॥अत्रान्तरे समभ्येत्य गोपालो जवनैर्हयैः । निनाय स्वपुरीमेव पालकं पितुराज्ञया ॥१५६॥ निवृत्ते राजपुत्रेऽथ नलागिरिबलोत्कटे । द्रुतं याति च वत्सेशे प्रययौ यामिनी शनैः ॥१५७॥ अन्येद्युरथ मध्याह्ने प्रचण्डकिरणे रवौ । तृष्णार्ता करिणीत्याह नृपमाषाढको वने ॥१५८॥ ततस्तडागमासाद्य पीत्वा भद्रवती जलम् । विषदूषितमाकण्ठमवतीर्य तृषापत त् ॥१५९॥ अहं मायावती नाम विद्याधरवधूर्नृप । त्वत्सेवया मुक्तशापा भविष्याम्युपकारिणी ॥१६०॥ भाविनस्तव पुत्रस्य सर्वविद्याधरप्रभोः । इति पञ्चत्वमापन्ना प्राह भद्रवती दिवः ॥१६१॥ ततो वसन्तकेनाशु समाहूय पुलिन्दकम् । तत्पुरीं प्रययौ राजा हत्वा दस्युगणं पथि ॥१६२॥ यौगन्धरायणेनाथ निजवेशवता नृपः । ननद संगतस्तस्य समं वासवदत्तया ॥१६३॥ अत्राभ्येति समादाय रत्नाश्ववरकुञ्जरान् । गोपालकस्त्वद्विवाहे विसृष्टोऽवन्तिभूभुजा ॥१६४॥ इति पान्थवणिग्वाक्यं ज्ञात्वा राजा प्रियासखः । विसृज्य दूतान्स्वपुरीं स्वसैन्याय व्यलम्बत ॥१६५॥ मनोविनोदनं किंचित्कथयेत्यथ सादरम् । विवाहोत्सुकया देव्या पृष्टः प्राह वसन्तकः ॥१६६॥ अभवत्ताम्रलिप्तायां धनगुप्ताभिधो वणिक् । ब्राह्मणान्पुत्रकामोऽसावपृच्छत्तेऽप्यथोचिरे ॥१६७॥ एकपुत्रः पुरा राजा सोमको यागपावके । जन्तूनामयुतं हुत्वा पुत्राणां शतमाप्तवान् ॥१६८॥ एवं श्रुत्वा स पुत्रेष्ट्या पुत्रं प्राप कुलोचितम् । गुहसेनाभिधं यस्य कन्दर्पो लज्जते पुरः ॥१६९॥ धनगुप्तोऽथ कालेन ससुतो रत्नविक्रयी । समुद्रं यानपात्रेण प्रययौ धनदोपमः ॥१७०॥ धनिनो धर्मगुप्तस्य तत्र वर्वरवासिनः । सोऽयाचत स्वपुत्राय कन्यां लावण्यशालिनीम् ॥१७१॥ दूरे देशे प्रियापत्यः पिता तां न ददौ भिया । वणिक्पुत्रं समालोक्य सा त्वभूदभिलाषिणी । सख्यावेदितवृत्तान्ता तद्गेहमगमत्स्वयम् ॥१७२॥ देवस्मिताभिधानां तामदाय स्वयमागताम् । ताम्रलिप्तां समभ्येत्य पुत्रस्योद्वाहमादधे ॥१७३॥ गुहसेनस्तया तत्र बालसारङ्गनेत्रया । संगतोऽनङ्गसुभगः सुधासिक्त इवाभवत् ॥१७४॥ कालेन त्रिदिवं याते धनगुप्ते स तत्पदे । प्रतिष्ठां प्राप्य यात्रायां चक्रे बन्धुगिरा धियम् ॥१७५॥ उद्यतः स ततो गन्तुं समुद्रं धनवृद्धये । विवेश वल्लभां द्रष्टुं वियोगभयकातराम् ॥१७६॥ दोलाविलोलह्रुदयस्तां पपौ सुचिरं दृशा । रागो निर्भरतामेति विरहे हि भविष्यति ॥१७७॥ प्रियं सुदयितं ज्ञात्वा सावदत्साञ्जनाश्रुभिः । प्रौढा प्रावृडिव श्यामा श्यामीकृतपयोधरा ॥१७८॥ ध्रुवं सौभाग्यनिधयस्त्वां यौवनसुरद्रुमम् । दृढबन्धं करिष्यन्ति दिगन्तेषु मृगीदृशः ॥१७९॥ इति प्रणयिनीवाक्यं स निशम्य स्मराकुलः । स्वप्ने ददर्श वरदं सभार्यं पार्वतीपतिम् ॥१८०॥ वियोगे रतिमन्यत्र युवयोर्यः प्रयास्यति । म्लानिमेश्यति मद्दत्तं हस्ते तस्येदमम्बुजम् ॥१८१॥ इति रक्ताम्बुजयुगं स्वप्ने ताभ्यां ददौ शिवः । तदादाय प्रबुद्ध्यैव दम्पती तौ न््दुतुः ॥१८२॥ ततो यातः प्रशस्तेऽह्नि दिगन्तं सचिवैः सह । कटाक्षद्वीपमासाद्य तस्थौ बहुलविक्रयः ॥१८३॥ वणिग्भिः संगतस्तत्र तत्रत्यैर्मदमोहितैः । पृष्टो रक्ताम्बुजं दृष्ट्वा तत्कथामब्रवीच्च सः ॥१८४॥ युवानस्तत्र तां ज्ञात्वा प्रियां देवस्मिताभिधाम् । गूधाश्चे ताम्रलिप्तायां ययुस्तत्संगमाशया ॥१८५॥ तद्गृहान्वेषणपरास्ते तु भ्रान्त्वाखिलां पुरीम् । तापसीं विजने प्रापुर्वृद्धां योगकरण्डिकाम् ॥१८६॥ तया संजातविश्वासा निजागमनकारणम् । निवेद्य तस्यै कामार्ताश्चिरं तस्थुस्तदाश्रमे ॥१८७॥ देवस्मितार्थिनां तेषां साहाय्ये प्रतिपन्नधीः । मन्त्रप्रयोगकुशला तानुवाच च तापसी ॥१८८॥ गुहसेनस्य दयितां तामहं भवेतां वशे । करिष्याम्यस्ति मे शिष्या सर्वविज्ञानशालिनी ॥१८९॥ सा हि सिद्धिकरी नाम पुरा देशान्तरागतम् । मन्त्रज्ञा वशगं चक्रे वणिजं पालिताभिधम् ॥१९०॥तस्य भूरिधनं हृत्वा मणिकाञ्चनमौक्तिकम् । प्रययौ छद्मयोगेन सर्वसर्वस्वहारिणी ॥१९१॥ धनभारानतां मार्गे हन्तुकामोऽथ भीषणः । दस्युः श्वपाको विजने शनैरनुससार ताम् ॥१९२॥ क्रूरं यमागतं दृष्ट्वां सा प्रोवाच धनार्थिनम् । भर्त्रा निरस्ता क्रुद्धेन प्राप्ताहं शरणार्थिनी ॥१९३॥ अस्मिन्न्यग्रोधविटपे सज्जीकुरु कृपानीधे । पाशं निःशेषशोकाग्निशान्तये प्रणयादिति ॥१९४॥ अयत्नोपनतं दृष्ट्वा वराकस्तद्धनं बहु । तूर्णं विधाय वृक्षाग्रे पाशं तामभ्यभाषत ॥१९५॥ सज्जीकृतं मया मातः क्षिप्रमारुह्यतामिति । साब्रवीन्मम शिष्यायै दर्शयैतद्वनं सखे ॥१९६॥ इति तद्वचसा मूढो ललम्बे द्रविणाशया । कण्ठे तदुपदेशाय पाशं कृत्वा सुवेष्टितम् ॥१९७॥ इत्थं विधीयतां कण्ठे तूर्णं तमिति वञ्चितम् । पादेन सा चकर्षाशु स च कृष्टोऽभवव्द्यसुः ॥१९८॥ श्वपाकमिति हत्वा सा प्रस्थितैकाकिनी पथि । पालितानुचरैर्दृष्टा क्रुद्धैर्द्रविणहारिणी ॥१९९॥ सा तान्दृष्ट्वा समारुह्य वृक्षं तस्थौ लतान्तरे । तन्मध्यादधिरुह्यैकः शनकैराससाद ताम् ॥२००॥ साब्रवीत्साभिलाषाहं त्वय्येव सततं विभो । धनं त्वदर्थमेवेदं शपथं कुरु चुम्ब माम् ॥२०१॥ इत्युक्त्वा वञ्चनं चक्रे निवेश्य दशनैस्ततः । जिह्वा चिच्छेद सा तस्य लल्ललल्लेति भाषिणः ॥२०२॥ ततो निपतिते तस्मिन्रक्तष्ठीविनि भूतले । भूतग्रस्तोऽहमित्युक्त्वा शेषास्ते दुद्रुवुर्भयात् ॥२०३॥ इति तद्वञ्चनावाप्तं धनं मह्यं न्यवेदयत् । सा शिष्या विश्वविश्वासच्छद्महेतुर्महाशया ॥२०४॥ समागतैव सा मन्ये मम साहाय्यकारिणी । देवस्मितासंगमं वो लीलयैव विधास्यति ॥२०५॥ तस्यामित्युक्तवत्यां सा सहसाभ्याययौ कुटीम् । शिश्यां सिद्धिकरीं तां च दृष्ट्वा सर्वे ववन्दिरे ॥२०६॥ ततो विदितवृत्तां तां कृत्वा योगकरण्डिका । शिष्यां देवस्मितागेह तयैव सहिता ययौ ॥२०७॥ गुहसेनगृहं प्राप्यं द्वारपालमुपेत्य सा । कण्ठे जग्राह सोत्कण्ठं कृत्वा च पटसंग्रहे ॥२०८॥ त्वं मे जन्मान्तरसुहृन्नेत्राभ्यां विनिवेदितः । इत्युक्त्वा मोदकास्तस्मै दत्वा तद्वचसाविशत् ॥२०९॥गुहसेनजनन्या च पूजिता मध्यमन्दिरम् । प्रविश्य विरहक्षामां प्राप्य देवस्मितां सतीम् ॥२१०॥ अदृष्टां भास्करेणापि दृष्ट्वा तां गुप्तमन्दिरे । प्रणतां वीक्ष्य चाशीर्भिरभिनन्द्याश्रमं ययौ ॥२११॥ अन्येद्युर्मांसशकलं प्रभूतमरिचं करे । कृत्वा सशिष्या प्रययौ पुनर्देवस्मितान्तिकम् ॥२१२॥ तृप्तां मरिचमांसेन कृत्वा वेश्माग्रगां शुनीम् । पूजितासनपुष्पाद्यैः सशिष्या समुपासत ॥२१३॥ अथाश्रुवर्षिणीं दृष्ट्वा शुनीं मरिचतापिताम् । रुरोद तापसी तां च सा पप्रच्छ वणिग्वधूः ॥२१४॥ तापसी प्राह पृष्टाथ पुत्री जन्मान्तरे मम । पतिव्रता सपत्नीयं बभूवातिप्रिया शुनी ॥२१५॥ अहमेषा च विप्रस्य भार्ये देशान्तरस्थिते । लावण्ययौवनोपेते प्राप्ते निर्दिश्यतां पुरा ॥२१६॥ अहं नवनवोदारवल्लभा सुभगाभवम् । इयमासीच्च सततं सती नियमदुर्भगा ॥२१७॥ मन्यामहे न हि वयं पापीयांसमतः परम् । यः संरुद्धेन्द्रियो मोहात्स्वतन्त्रं शोषयेन्मनः ॥२१८॥ निरर्गलेन्द्रियसुखा नित्यानन्दोपयोगिनी । अहं योगिपदं प्राप्ता सा सर्वजनकामिनी ॥२१९॥भक्त्या तु मे सपत्नीयं पुत्रि जातिस्मरा शुनी । तिर्यग्भावमियं प्राप्ता साध्वी मानसदूषिता ॥२२०॥ सैषा चिरेण मां दृष्ट्वा रोदिति स्मृतवल्लभा । श्रुत्वैतत्तापसीवाक्यं निनिन्द मनसा सती ॥२२१॥ किल्बिषं मानसगतं तस्या द्रष्टुं समुद्यता । साब्रवीद्यदि धर्मोऽयं कंचिदानय मे प्रियम् ॥२२२॥ इति देवस्मितावाक्यां श्रुत्वा योगकरण्डिका । प्राहाश्रमे मे चत्वारो युवानो वणिजः स्थिताः ॥२२३॥ सह मोदिष्यसे तैस्त्वमियुक्त्वा तत्कृते ययुः । देवस्मिताप्यनुचरीं बभाषे कोपकम्पिता ॥२२४॥ ध्रुवं देशान्तरस्थेन मद्भर्त्रा वणिजां पुरः । कथिता मधुदत्तेन मत्कथा पद्मकौतुके ॥२२५॥ तयैव नूनं वणिजस्तस्मिंस्तत्र चिरस्थिते । मदर्थमागतास्तेषां करिष्यामि यथोचितम् । इत्युक्त्वात्मनिभां कृत्वा दासीं निजपदे व्यधात् ॥२२६॥ ततो वणिजमानीय तापसी रत्नभूषितम् । निशि सिद्धिकरीवेषं ययौ विन्यस्य तद्गृहे ॥२२७॥ स प्रविश्य निजं रूपमासाद्य स्मरमोहितः । दासीं देवस्मितावेषां न््द प्राप्य सुन्दरीम् ॥२२८॥ ततो धत्तूरकोपेतं पीत्वा मधु तदाहृतम् । बभूव स्रस्तवसनः कान्तः काष्ठोपमाकृतिः ॥२२९॥ निश्चेष्टं तं ललाताग्रे गृहीताभरणाम्बरा । अङ्कं कृत्वा स्वपादेन चिक्षिपुः कर्दमे स्त्रियः ॥२३०॥ प्रभाते प्रतिबुद्धोऽथ पट्टिकाच्छादितालिकः । गत्वा परानुवाचाहं हतो दस्युगणैरिति ॥२३१॥ इति क्रमेण तेनैव सर्वे ते तत्पदाङ्किताः । स्वदेशं प्रययुर्गूधा निन्दन्तो निजदुष्कृतम् ॥२३२॥ तेनैव मधुना मत्तं कृत्वा योगकरण्डिकाम् । कर्ननासाविरहितां तच्छिष्यां च वणिग्वधूः ॥२३३॥ प्रतस्थे वचसा स्वस्था गुहसेनाश्रितां दिशम् । मा कदाचिन्मम पतिं हन्युस्ते लज्जिता इति ॥२३४॥ व्रजन्ती प्राह सा श्वश्रूं गत्वा रक्षाम्यहं प्रियम् ।शक्तिमत्या यथा पूर्वं परित्रातः पतिर्धिया ॥२३५॥ मणिभद्रालये पूर्वं निरुद्धो दण्डवासिना । वणिक्सागरदत्ताख्यो जारः सह परस्त्रिया ॥२३६॥ बद्धं विज्ञाय तं जाया तस्य शक्तिमती सती । प्रविश्य पूजाव्याजेन निशि तस्थौ सुरालये ॥२३७॥ तामसाध्वीं प्रियां भर्तुर्निजाभरणवाससा । आत्मतुल्यां विधायाशु विससर्ज ह्रिया नताम् ॥२३८॥ ततः प्रभाते भूपालसभां नीत्वा वणिग्जनैः । दृष्टः स्वभार्यासहितस्ततो राजा विचारधीः ॥२३९॥ मिथ्या बद्धोऽयमित्युक्त्वा कुपितो दण्डवासिकम् । बबन्धेति पुरा तस्या रक्षितः साहसात्पतिः ॥२४०॥ गत्वाहमपि भर्तारं रक्ष्यामीत्यभिधाय सा । वणिग्वेशाब्धिमुत्तीर्य ददर्श निजवल्लभम् ॥२४१॥ विधाय पौरुषं वेष तत्र राजानमेत्य च । व्यजिज्ञपत्प्रभो पत्युर्दासा मे हरिता इति ॥२४२॥ गृहाणैतान्सभामध्ये विचिन्त्य सकलं जनम् । इति राज्ञा समादिष्टांस्ताञ्जग्राह वणिग्वरान् ॥२४३॥ मयाङ्किताः स्वपादेन प्रतिज्ञायेति संसदि । ताञ्शिरःपदमुद्धाट्य सा प्रत्यक्षमदर्शयत् ॥२४४॥ततो विदितवृत्तेन तस्यै दत्ता महीभुजा । वणीजो मोक्षिता दास्याद्धनेन निजबन्धुभिः ॥२४५॥ इति भूरि धनं लब्ध्वा गुहसेनमवाप्य च । ताम्रलिप्तां समभ्येत्य सा न््द चिरं सती ॥२४६॥ इति देवस्मिताख्यायिका ॥२॥ ===============================वसन्तकेन कथितं निशम्येति नृपात्मजा । न््द साध्वी चरितैस्तुष्यते च सतीमनः ॥२४७॥ अत्रान्तरे प्रतीहारो महासेनमहीपतेः । वत्सेश्वरं समभ्येत्य समासीनं व्यजिज्ञपत् ॥२४८॥ देव चण्डमहासेनसमादिष्टः समेष्यति । गोपालकस्त्वद्विवाहयोग्यरत्नाश्वसंपदा ॥२४९॥ श्रुत्वेति हृष्टः सेनानीः सज्जीकृतबलाम्बुधिः । राजा विवेश कौशाम्बीं कौतुकाकुलतां गताम् ॥२५०॥ अथ गोपालके प्राप्ते प्रवृत्ते च महोत्सवे । विवाहवसुधां राजा देव्या सह समाविशत् ॥२५१॥ तयोर्बभौ विवाहश्रीः कुसुमायुधजीविनी । प्रवृत्तसंहृष्टगणा पुनरीश्वरयोरिव ॥२५२॥ देवी प्रदक्षिणा वृत्ततारहारा रराज सा । सुधाकल्लोलवलिता कमलेव नवोदिता ॥२५३॥ सा भेजे कीर्णकर्पूरपूरस्मेराम्बरोज्ज्वला । क्षीरक्षालितबिम्बस्य चन्द्रस्येव सितच्छटा ॥२५४॥ विक्शिप्तलाजकुसुमा तद्विवाहमही बभौ । देवीमुखशशिप्रीत्या नक्षत्रैरिव सेविता ॥२५५॥ संपूर्णोद्वाहसुभगे नृपे मन्त्री चमूपतिः । समस्तजनसत्कारे तस्थतुः प्रभुशासनात् ॥२५६॥ रुमण्वानमथोवाच ध्यात्वा यौगन्धरायणः । विनियुक्तौ नृपेणावां दुष्करे बत कर्मणि ॥२५७॥ को हि भोजनसंमानैरवलेपधनं जनम् । समर्थः संमुखीकर्तुमस्मिन्राजमहोत्सवे ॥२५८॥ भोजने याति विपुलं कोपं बालोऽथ पूजितः । अवमानकथां पूर्वां कृतं बालेन कौतुकम् ॥२५९॥ देव सेनाग्रहारेऽभूद्रुद्रशर्माभिधो द्विजः । विनष्टकाख्यस्तस्यासीन्मात्रा हीनः कृशः सुतः ॥२६०॥ अपरा तस्य जननी निरादरधिया सदा । तस्य शीर्णरसं चक्रे स्नेहाच्छादनभोजनम् ॥२६१॥ स्वपुत्रपोशणरतां क्रुद्धां तां वीक्ष्य बालकः । कदाचिप्त्राह पितरं द्वितीयोऽस्ति पिता मम ॥२६२॥ इत्यव्यक्ताक्षरां वाचं श्रुत्वा तस्याभवद्द्विजः । शङ्कितो निजदारेशु सहसा भृकुटीमुखः ॥२६३॥ तदेवं सततं बाले ब्रुवाणे परिभर्त्सिता । भर्त्रा तं दारकं प्राह रहः सा भृशदुःखिता ॥२६४॥ स्व्सुताभ्यधिकस्त्वं मे किं त्वया कोपितः पिता । इति श्रुत्वाब्रवीद्बालः क्रुद्धोऽस्म्यल्पाशनार्दितः ॥२६५॥ प्रसादितोऽथ प्रणयात्तया पितरमगतम् । निर्दिश्य दर्पणं प्राह द्वितीयोऽयं पिता मम ॥२६६॥ श्रुत्वेति प्रत्ययं प्राप्य रुद्रशर्मा धृतिं ययौ । इत्यसंमानितः कोपं याति बालोऽपि भोजने ॥२६७॥ इति विनष्टाख्यायिका ॥३॥ N/A References : N/A Last Updated : October 05, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP