शिवभारत - अध्याय बारावा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


अथ कोकवियोगार्तिहरेबंधूकभास्वरे ।
पूर्वपर्वतश्रृंगाग्रमारुरुक्षतिभास्करे ॥१॥
प्रभातसंध्यारागेण रंजिते गगनांगने ।
तमस्तमीचरमुखप्रमुक्ते ककुभांगणे ॥२॥
दरांदोलितपंपांभः कणसंपर्कशीतले ।
फुल्लदंभोरुहामोदमधुरे वाति मारुते ॥३॥
दिलावरो मसूदश्च सरजा याकुतोऽम्बरः ।
आदवन्याधिनाथश्च तथा कर्णपुराधिपः ॥४॥
फरादः कैरतश्चोभौ तथा याकुतसारभिः ।
आजमो बहुलोलश्च मानी मलिकराहनः ॥५॥
राघवो मंबतनयो वेदजिद्भास्करात्मजः ।
सुतो हैबतराजस्य बल्लाळश्च महाबलः ॥६॥
त्रयोऽप्येतेऽग्रजन्मानः सैनिकाग्र्याः सुदुर्मदाः ।
प्रवारौ सिद्धभंबाह्वौ मंबो भृशबलस्तथा ॥७॥
अन्येऽप्यनीकपतयः तत्तदन्वयसंभवाः ।
तदा युद्धमदावेशवशात्मानो महायुधाः ॥८॥
कम्पयन्त इवाकाशं पताकापटमण्डलैः ।
क्षोदयन्त इव क्षोणीं चलैर्हयखुरांचलैः ॥९॥
दिधक्षन्त इवाशेषां त्रिलोकीं तेजसां चयैः ।
प्राकारमिव कुर्वन्तः परित प्रबलैर्बलैः ॥१०॥
पावका इव दीव्यन्तः कृतान्त इव निर्भयाः ।
शिबिरं शाहराजस्य रुरुधुर्मुस्तुफाज्ञया ॥११॥
असन्नाहितमातंगमपल्याणितसैन्धवम् ।
असज्जयोधसंदोहमसुप्तोत्थितनायकम् ॥१२॥
यामिनीजागरोद्दामक्लमनिद्राणयामिकम् ।
शिबिरं तत्तदातंक वशाद्वैहस्त्यमाददे ॥१३॥
परिवेषेण महता बिंबमंशुमतो यथा ।
शुशुभे प्रतिसैन्येन शाहस्य शिबिरं तथा ॥१४॥
सर्वतस्तस्य सैन्यस्य सागरस्येव गर्जतः ।
पार्ष्णिग्राहः स्वयमभून्मुस्तुफो वाहिनीश्वरः ॥१५॥
अथ खंडजिता चांबुजिता मानजिता तथा ।
सहितो बन्धुभिश्चान्यैः सैनिकैश्च समन्ततः ॥१६॥
चन्द्रहासधरैश्चापधरैः प्रासधरैरपि ।
अग्नियंत्रधरैश्चक्रधरैश्च पुरुषैर्वृतः ॥१७॥
घोरकर्मा घोरफटो बाजराजो महाभुजः ।
वाडवो जसवन्तश्च वाडवाग्निरिवापरः ॥१८॥
मल्लजिन्नरपालश्च प्रवारकुळदीपकः ।
ख्यातश्च तळजिन्नाम नृपो भृशबलान्वयः ॥१९॥
अध्यासितसगर्वार्वखुरक्षुष्णवसुन्धराः ।
विविशुः शाहशिबिरं सर्वेऽमी वलिनां वराः ॥२०॥
ते तदातीव गर्जन्तो जिगीषन्तो महामदाः ।
सुप्तं प्रबोधयामासुः शाहं सिंहमिव द्विपाः ॥२१॥
शाहः प्रबुद्धमात्ररतु निशम्यागमनं द्विषाम् ।
सज्जमानः शशासोच्चैः सज्जध्वमिति सैनिकान् ॥२२॥
अश्वोऽश्वोऽसिरसिःप्रासः प्रास इत्यादयस्तदा ।
आरवाः समजायन्त शिबिरे शाहभूभृतः ॥२३॥
अथ शाहे महाबाहौ सज्जमाने महौजसि ।
अदसीये महासैन्येऽप्याकस्मिकभयस्पृशि ॥२४॥
कण्ठरिव इवाकुण्ठगतिः संयति संयति ।
खण्डपाटल एवैको ययौ घोरफटान् प्रति ॥२५॥
आमुक्तकवचः श्रीमानभेद्यफलकोध्दुरः ।
कृतहस्तः कुन्तधरः कृपाणि कर्मकोविदः ॥२६॥
स तूर्णं तुरगारूढो रणांगणमगाद्यदा ।
सिंहनादं नदन्ति स्म वाजराजादयस्तदा ॥२७॥
ततो घोरफटानीकपतयोऽतिरयोध्दताः ।
तं पाटलं कुलोत्तंसं रुषा रुरुधिरेऽभितः ॥२८॥
स तदाभ्रंलिहं भल्लं भ्रामयामास भासुरः ।
कारयामास चाश्वेन मंडलानि सहस्रशः ॥२९॥
तद्भ्रामितस्य भल्लस्य परिभ्रांतां नभोऽन्तरा ।
दिनेशमन्डलाकारा दिदीपे द्युतिमण्डली ॥३०॥
तैस्तैः प्रहरणैस्तत्र प्रहरन्तो महायुधाः ।
खण्डशः खण्डशः क्रोधात् तेन भल्लभृता कृताः ॥३१॥
कुप्यता पविहस्तेन पर्वता इव पातिताः ।
प्रतिप्रतीकं त्रुट्यन्तः पेतुरुर्ब्यामनेकशः ॥३२॥
रोषदष्टाधरैर्द्धीरैरायोधनपरैः परैः ।
प्रसभं प्रहृतोप्येष पौरुषं स्वमदर्शयत् ॥३३॥
स ततः स्वेन भल्लेन निशितेनायतेन च ।
जहार कस्यचित्तस्य शिरोऽद्रिशिखिरोपमम् ॥३४॥
तथैव कस्यचिद्वक्षः शिलातलमिवायतम् ।
अभेद्यमपि संरंभात् बिभेद बलिनां वरः ॥३५॥
सभल्लफलकाघात पतिताश्वस्य कस्यचित् ।
कुंभि कुंभोपमं सद्यः स्कंधकूटमपातयत् ॥३६॥
कस्यचिच्चरणद्वंद्वं वलग्नं चापि कस्यचित् ।
कस्यचित् कंठनालंच चिच्छेद किल खंडजित् ॥३७॥
उत्पत्योप्तत्य भल्लेन पातायन् परितः परान् ।
एकोपि पाटलः प्राप तत्र चित्रमनेकताम् ॥३८॥
अभियातारि संघात शातहेति शताहतः ।
स भिन्नवारबाणोरिवारणान् प्रत्यवारयत् ॥३९॥
सविपक्षविनिर्मुक्तविशिखक्षतविग्रहः ।
शुशुभे लोहितार्द्रांगो लोहितांग इव ग्रहः ॥४०॥
युध्यतः पाटलस्यास्य दृष्ट्वा पाटवमद्भुतम् ।
क्ष्वेडितास्फोटितं चक्रुर्बाजराजादयो भटाः ॥४१॥
परमानजिता मानजिता भल्लभृता युधि ।
भिन्नभल्लस्य जग्राह करे क्रूरां कृपाणिकाम् ॥४२॥
कृतहस्तं खङ्गहस्तं ततस्तं प्रेक्ष्यसस्मितः ।
बाजराजो महाबाहुराजुहाव महाहवे ॥४३॥
कालदंडकरालेन करवालेन पाटलः ।
तदा प्रहारमकरोत् बालराजस्य वक्षसि ॥४४॥
तेनाघातेन महता प्रहतायतवक्षसि ।
बाजराजे महाबाहौ मोहमुद्रामुपेयुषि ॥४५॥
अंबुजित् परिघं घोरं मानजिन्मुद्गरं तथा ।
मल्लजिच्च सितां शक्तिं शिखां शेखावतीमिव ॥४६॥
बलजित् भल्लमतुलं जसवन्तश्च सायकम् ।
खंडजिच्च प्रचिक्षेप खङ्गं खंडजितं प्रति ॥४७॥
स भीमेन समस्तानि समस्तानि समंततः ।
आपतंत्यायुधीयानामायुधानि समंततः ॥४८॥
द्विधा चक्रेऽसिना स्वेन कानिचिच्च त्रिधा त्रिधा ।
कानिचित् पंचधा चापि नवधा दशधा तथा ॥४९॥
बाजराजः क्षणं मूर्छां क्षणं सर्वविलक्षणम् ।
अनुभूय स्वयं भूयः प्रत्ययुध्यत पाटलम् ॥५०॥
अथ स्वया प्रतिभया परप्रतिभयाकृतिम् ।
बाजराजो गदामुर्वीं पातयामास पाटले ॥५१॥
क्रूरया कार्तिकेयस्य शक्त्येव क्रौंचपर्वते ।
बाजराजस्य गदया तया भित्वा निपातिते ॥५२॥
त्रिदशस्यंदनारूढे सुभटे खंडपाटले ।
हन्यमानेन सैन्येन स्वसैन्ये चाति - विव्हले ॥५३॥
हतसंबध्दशीर्षण्यस्रस्तोष्णीषपटांचलः ।
चर्मवान् वर्मवानुच्चः शरासनवतां वरः ॥५४॥
कुन्तयोधी मंडलाग्रमंडलीकारपारगः ।
शाहराजो महाबाहुर्महाराजो महाहवः ॥५५॥
अधिरुह्य महावाहमंबुवाहमिवांबुदः ।
सपदि प्रतिजग्राह बाजराजं जिघांसया ॥५६॥
आभीरराजो दशजिद्दशदिग्जकारकः ।
योगजिच्च धनुःकाण्डधरो भाण्डकरान्वयः ॥५७॥
गुंजावटकरः सन्तो मेघजिट्टक्कुरस्तथा ।
भ्राता त्र्यंबकराजश्च दत्तराजश्च दर्पितः ॥५८॥
अन्ये‍ऽप्यनीकपतयः शाहराजं समंततः ।
जुगुपुः शतशस्तत्र पृष्ठगोपाश्च भूरिशः ॥५९॥
तमथाकृष्टकोदंडटंकारोट्टंकितांबरम् ।
वीरं कण्ठीरवग्रीवं वृषस्कंन्धं महौजसम् ॥६०॥
दत्तत्र्यंबकराजाभ्यां भ्रातृभ्यां परिवारितम् ।
सैनिकैः स्वैः परिवृत्तं सुरैरिव शतक्रतुम् ॥६१॥
मरुता प्रतिकूलेन सपदि प्रतिवारितम् ।
ददृशुश्शाहनृपतिं बाजराजादयो नृपाः ॥६२॥
शाहराजोभ्यभिप्रेक्ष्य प्रतिपक्षानुदायुधान् ।
नादयन् मेहिनीं द्यां च सिंहनादमनीनदत् ॥६३॥
शाहस्य तेन नादेन पूरिताः ककुभोऽभवन् ।
प्रतिदध्या न चांभोधिः सपदि क्षुभितोऽभवत् ॥६४॥
न सेहे बाजराजेन शाहराजस्य गर्जितम् ।
प्रमत्तेन द्विपेनेव प्रमत्तद्विपबृंहितम् ॥६५॥
अथ घोरपटैर्घोरवज्रनिर्घोषघोषिभिः ।
अभ्येत्य ज्ञापितस्वस्वनामभिः प्रौढधामभिः ॥६६॥
चारुचर्मभिरामुक्तवर्मभिः कृतकर्मभिः ।
परिवव्रेतरां शाहस्तोयदैरिव चंद्रमाः ॥६७॥
तदा त्र्यंबकदत्ताह्वौ राजानौ दशजित्तथा ।
मेघजिच्चमहाबाहुर्महासेनसमप्रभः ॥६८॥
योगजिच्च तथान्येऽपि गुंजावटकरादयः ।
प्रत्यगृह्णन् प्रतिभटान् शाहराजपरीप्सया ॥६९॥
ततख्यंबकराजेन चापहस्तेन मानजित् ।
खलखंडजिता दत्तराजेनापि च खंडजित् ॥७०॥
प्रतिमल्लजिता योगजिता च सहमल्लजित् ।
तथा मेघजिता मेघनादसाम्यभृतांबुजित् ॥७१॥
युयुधे शाहराजेन बाजराजः पराक्रमी ।
अन्ये चान्यैश्च बहवो बहुभिर्दीर्घबाहुभिः ॥७२॥
टंकार्य चापमन्योन्यं जीगीषंतो मदोत्कटाः ।
रणरंगे नटंति स्म वटा इव महाभटाः ॥७३॥
पत्तिभिः पत्तयस्तत्र सप्तिभिस्सप्तयस्तथा ।
द्विपैर्द्विपाश्च बहवः ससंजुर्विजिगीषया ॥७४॥
शक्तिभिश्शक्तयो गाढमुष्टिभिर्गाढमुष्टयः ।
परिघाः परिघैर्घोरैर्मुद्गरैर्मुद्गरास्तथा ॥७५॥
पट्टिशाः पट्टिशैस्तीव्रैस्तोमरैरपितोमराः ।
गदाभिश्च गदाश्चक्रैंश्चक्राणि च सहस्रशः ॥७६॥
सायकाः सायकैस्तीक्ष्णैः कटारैश्च कटारकाः ।
तमानीमभ्यहन्यंत भल्लैर्भल्लाश्च भूरिशः ॥७७॥
शिरांसि सशिरस्त्राणि सतनुत्राण्युरांसि च ।
पाणयस्सतलत्राश्च सकेयूराश्च बाहवः ॥७८॥
सपताको ध्वजश्चापि सशरं च शरासनम् ।
हयश्च सहयारोहः करी च सनियंतृकः ॥७९॥
इमानि द्विषदुन्मुक्तशस्त्रच्छिन्नान्यनेकशः ।
तदानीमपतन् भूमौ पक्षयोरुभयोरपि ॥८०॥
शरासनानि कर्षंतः सांगुलीयकपाणयः ।
पृथुस्कंधाः कबंधाश्च प्रत्यधावन्नितस्ततः ॥८१॥
यस्य येन शिरश्र्छिन्नं यद्यदंगमपात्यत ।
तस्य तत्तत्तदोत्पत्य बत तं प्रत्यधावत ॥८२॥
अथाश्वेभ्यः करिभ्यश्च नरेभ्यश्च शितैश्शरैः ।
कर्त्यमानशरीरेभ्यः प्रवृत्ते रुधिरह्रदे ॥८३॥
मज्जामांसवसामेदोमेदुरे मेदिनीतले ।
नटंतीभिः पिशाचीभिः प्रहृष्टे डाकिनीकुले ॥८४॥
तत्तत्पताकिनीपालकपालकृतकुंडले ।
भैरवीभिस्समं भूरिमत्ते भैरवमंडले ॥८५॥
चंडदीधितिभिर्वीरमुंडमालामनोहरे ।
भूतैस्समुदिते चातिमुदिते चंद्रशेखरे ॥८६॥
राज्ञा खंडजिता तत्र दत्तराजे विहस्तिते ।
बत त्र्यंबकराजे च राज्ञा मानजिता जिते ॥८७॥
तद्वदंबुजिदुन्मुक्त हेतिपातपराहते ।
भीते मेघजिति द्वी(?)ते दशजित्यपि विद्रुते ॥८८॥
अन्यस्मिन्नपि सैन्ये स्वे हीयमाने भयाकूले ।
कुंभोद्भवेन मुनिना पीयमान इवार्णवे ॥८९॥
तथा मल्लजितः काम्डकुलैर्भांडकरेर्दिते ।
शाहराजश्शितैर्बाणैर्बाजराजमवाकिरत् ॥९०॥
बाजराजस्तु विक्रांतस्तैर्नितांतशितैश्शरैः ।
शीर्यमाणशरीरोपि न मुमोह महोर्मिभिः ॥९१॥
ततस्स तत्र संप्रेक्ष्य प्रस्फुरद्वर्म सांतरम् ।
ताडयामास भल्लेन शाहराजभुजांतरम् ॥९२॥
कुशलो युद्धविद्यायां कुलिशाभेद्यविग्रहः ।
तेन मल्लाभिघातेन शाहराजो न विव्यथे ॥९३॥
अथ प्रकटितक्रोधैर्योधैर्मानजिदादिभिः ।
शरशक्तिगदाखङ्गभल्लाद्यायुधधारिभिः ॥९४॥
बाजराजं पालयद्भिर्दर्शयद्भिस्सपौरुषम् ।
परिवव्रे महाराजः शाहराजः पराक्रमी ॥९५॥
तत्र कालानलज्वालासमस्पर्शधरैश्शरैः ।
तापयामास तान् सर्वान् प्रतापी स महीपतिः ॥९६॥
तदानीं शाहराजेन शरैः स्वैः शकलीकृताः ।
स्रस्तबाहुलतास्तत्र स्रवल्लोहितलोहिताः ॥९७॥
चंडवाताहतास्सद्यः पुष्पिता इव किंशुका ।
शतशस्सैनिकाः पेतुः बाजराजस्य पश्यतः ॥९८॥
उत्पतत्तुरगारुढो यत्र यत्रोत्पपात सः ।
तत्र तत्र परित्रस्य प्रतिवीरास्सहस्रशः ॥९९॥
पर्वता इव संशीर्णाः पविपातपराहताः ।
समजायंत दशधा शतधा च सहस्रधा ॥१००॥
ततः परिचरं कश्चित् कश्चित् सहचरं पुनः ।
वर्म चाप्रतिमं कश्चित् कश्चिच्चर्म सचंद्रकम् ॥१०१॥
ततो घोरपटः कश्चिदिषुधिं च शरासनम् ।
चिच्छेद शाहराजस्य कश्चिच्च ध्वजमुन्नतम् ॥१०२॥
अथारिपातितापारहेतिपातपतापतान् ।
तूर्णमुत्पत्य तुरगादुरगारातिचेष्टिते ॥१०३॥
शराचितशरीरोत्थलोहितद्रवलोहिते ।
प्रभूतप्रधनोद्भूतपरिश्रमविमोहिते ॥१०४॥
महाराजे महाबाहौ परिरब्धमहीतले ।
क्ष्वेडितास्फोटितावेशपरे च परमंडले ॥१०५॥
हाहाकारस्तदात्युच्चैरभूद्भार्शबले बले ।
तत्र धर्मधनं धीरं धर्मराजसमश्रियम् ॥१०६॥
सर्वस्वमिव लोकस्य सर्वस्यापि समाश्रयम् ।
तं महीतलसंलग्नं मग्नं मोहमहोर्मिंषु ॥१०७॥
दैवाद्दिवस्तटाद्देवं दिवाकरमिव च्युतम् ।
रयाद्धयादवप्लुत्य बांधवत्वं प्रकाशयन् ॥१०८॥
फलकेन स्वकीयेन ररक्ष बलजिद्बली ।
अथ शाहं महाबाहुं बाजराजः स्मयं तथा ॥१०९॥
निश्वसंतं निजग्राह नागं जांगुलिको यथा ।
ततो हस्तिनमारोप्य नीयमानमरातिभिः ॥११०॥
श्रितमूर्छासुखं शुष्कमुखं मुद्रितचक्षुषम् ।
पंचाननमिवानीय पंचराभ्यंतरेऽर्पितम् ॥१११॥
निकृतं निकृतिज्ञेय मुस्तुफेन दुरात्मना ।
शाहभूभृतमालोक्य भृशमाचुक्रुशुर्जनाः ॥११२॥
प्यधत्त यवनः स्वेन कपटेन पटेन यम् ।
नयं न वेद तं विद्मः शाहं सर्वविदप्ययम् ॥११३॥
मुस्तुफः स्वामिकार्यार्थी पस्पर्श सुतमातशम् ।
अहो विश्रंभणायास्य ललंघे च स्वपुस्तकम् ॥११४॥
इति तं यवनं तत्र जगर्हे जनताभितः ।
स तु स्वस्वामिकार्यार्थी कृतकृत्योभवत्ततः ॥११५॥
न पल्याणं न तुरगो न करो न क्रमेलकः ।
नायुधं नायुधीयश्च न वाद्यं न च वादकः ॥११६॥
न मंचको न चोल्लोचो न पताका न च ध्वजः ।
न विक्रेयं न विक्रेता नेंधने न च कीलकः ॥११७॥
न कांडपटकस्त्यत्र न चासीत्पंटमंडपः ।
तथाभवत् क्षणार्धेन शाहस्य शिबिरं तदा ॥११८॥
अमीभिः संवर्तानलनिभबलैर्मुस्तुफमुखैः
चमूपालैः कालैरिव युधि निलिंपाधिपबलम् ।
अमुं शाहं साहंकृतिमितिनितान्तं नियमितं
स्वदूतेभ्यः श्रुत्वा महसि महमूदेन मुमुदे ॥११९॥
इत्यनुपुराने कवींन्द्रपरमानंदप्रकाशितायां संहितायां द्वादशोध्यायः ॥१२॥

N/A

References : N/A
Last Updated : September 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP