मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|श्रीजाबालदर्शनोपनिषत्| चतुर्थः खण्डः श्रीजाबालदर्शनोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः श्रीजाबालदर्शनोपनिषत् - चतुर्थः खण्डः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgurudattajabalstotraजाबालदेवतादेवीस्तोत्र चतुर्थः खण्डः Translation - भाषांतर शरीरं तावदेव स्यात्षण्णवत्यङ्गुलात्मकम् । देहमध्ये शिखिस्थानं तप्तजाम्बूदप्रभम् ॥१॥त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांकृते । गुदात्तु व्द्यङ्गलादूर्ध्वं मेढ्रात्तु व्द्यङ्गुलादधः ॥२॥देहमध्यं मुनिप्रोक्तमनुजानीहि सांकृते । कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥३॥चतुरङ्गुलमाया - मविस्तारं मुनिपुङ्गव । कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥४॥तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव । कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ॥५॥तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव । द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥६॥सुषुम्ना पिङ्गला तद्वदिडा चैव सरस्वती । पूषा च वरुणा चैव हस्तिजिव्हा यशस्विनी ॥७॥अलम्बुसा कुहूश्चैव विश्वोदरि तपस्विनी । शङ्खिनी चैव गान्धारा इति मुख्याश्चतुर्दश ॥८॥आसां मुख्यतमास्तिस्रस्तिसृष्वेकोत्तमोत्तमा । ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥९॥पृष्ठमध्यस्थितेनास्थ्ना वीणादण्डेन सुव्रत । सह मस्तक पर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥१०॥नाभिकन्दादधः स्थानं कुण्डल्या द्व्यङ्गुलं मुने । अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥११॥यथावद्वायचेष्टां च जलान्नादीनि नित्यशः परितः कन्दपार्श्वेषु निरुध्यैव सदा स्थिता ॥१२॥स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने । सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्थिता ॥१३॥सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते । गान्धाराहस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥१४॥पूषा यशस्विनी चैव पिङ्गला पृष्ठपूर्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥१५॥यशस्विन्याः कुहोर्मध्ये वरुणा सुप्रतिष्ठिता । पूषायाश्च सर्स्वत्या मध्ये प्रोक्ता यशस्विनी ॥१६॥गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी । अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा ॥१७॥पूर्वभागे सुषुम्नाया राकायाः संस्थिता कुहूः । अधश्चोर्घ्व स्थिता नाडी याम्यनासान्तमिष्यते ॥१८॥इडा तु सव्यनासान्तं संस्थिता मुनिपुङ्गव । यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिष्यते ॥१९॥पूषा वामाक्षिपर्यन्ता पिङ्गलायास्तु पृष्ठतः । पयस्विनी च याम्यस्य कर्णान्तं प्रोच्यते बुधैः ॥२०॥सरस्वती तया चोर्ध्वगता जिव्हा तथा मुने । हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते ॥२१॥शङ्खिनी नाम या नाडी सव्यकर्णान्तमिष्यते । गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ॥२२॥विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता । प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥२३॥नागः कूर्मश्च कृकरी देवदत्ता धनंजयः । एते नाडीषु सर्वासु चरन्ति दश वायवः ॥२४॥तेषु प्राणादयः पञ्च मुख्यः पञ्चसु सुव्रत । प्राणसंज्ञस्तथापानः पूज्यः प्राणस्तयोर्मुने ॥२५॥आस्यनासिकयोर्मध्ये नाभिम्नध्ये तथा हृदि । प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥२६॥अपानो वर्तते नित्यं गुदमध्योरुजानुषु । उदरे सकले कट्यां नाभौ जङ्घे च सुव्रत ॥२७॥व्यानः श्रोत्राक्षिमध्ये च ककुद्भ्यां गुल्फयोरपि । प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव ॥२८॥उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि । समानः सर्वदेहेषु व्याप्य तिष्ठत्यसंशयः ॥२९॥नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । निःश्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥३०॥अपानाख्यस्य वायोस्तु विष्मूत्रादिविसर्जनम् । समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥३१॥उदान ऊर्ध्वगमनं करोत्येव न संशयः । व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः ॥३२॥उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने । धनंजयस्य शोभादि कम प्रोक्तं हि सांकृते ॥३३॥निमीलनादि कूर्मस्य क्षुधा तु कृकरस्य च । देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥३४॥सुषुम्नायाः शिवो देव इडाया देवता हरिः । पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या विराण्मुने ॥३५॥पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता । हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥३६॥यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करस्तथा । अलम्बुसाया अबात्मा वरुणः परिकीर्तितः ॥३७॥कुहोः क्षुद्देवता प्रोक्ता गान्धारी चन्द्रदेवता । शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः ॥३८॥विश्वोदराभिधायास्तु भगवान्पावकः पतिः । इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥३९॥पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर । पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥४०॥तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः । इडायां पिङ्गलायां तु प्राणसंकरमणं मुने ॥४१॥दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः । इडाफिङ्गलयोः संधिं यदा प्राण समागतः ॥४२॥अमावास्या तदा प्रोक्ता देहे देहभृतां वर । मूलाधार यदा प्राणः प्रविष्टः पण्डितोत्तम ॥४३॥तदाद्यं विषुवं प्रोक्तं तापसैस्तापसोत्तम । प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥४४॥तदन्त्यं विषुवं प्रोक्तं तापसैस्तत्त्वचिन्तकैः । निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ॥४५॥इडायाः कुण्डलीस्थानं यदा प्राणः समागतः । सोमग्रहणमित्युक्तं तदा तत्त्वविदां वद ॥४६॥यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः । तदा तदा भवेत्सूर्यग्रहणं मुनिपुङ्गव ॥४७॥श्रीपर्वतं शिरः स्थाने केदारं तु ललाटके । वाराणसी महाप्राज्ञ भ्रुवोर्घ्राणस्य मध्यमे ॥४८॥कुरुक्षेत्रं कुचस्थानें प्रयागं हृत्सरोरुहे । चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ॥४९॥आत्मतीर्थ समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् । करस्थं स महारत्नं त्यक्त्वा काचं विमार्गते ॥५०॥भावतीर्थ परं तीर्थं प्रमाणं सर्वकर्मसु । अन्यथालिङ्ग्यते कान्ता अन्यथालिङ्ग्यते सुता ॥५१॥तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥५२॥बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थं महामुने । आत्मतीर्थ महातीर्थमन्यतीर्थ निरर्थकम् ॥५३॥चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्ध्यति । शतशोऽपि जलेर्धौतं सुराभाण्डमिवाशुचि ॥५४॥विषुवायनकालेषु ग्रहणे चान्तरे सदा । वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः ॥५५॥ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् । भावशुद्ध्यर्थमज्ञानां तत्तीर्थं मुनिपुङ्गव ॥५६॥तीर्थे दाने जपे यज्ञे काष्ठे पाषानके सदा । शिवं पश्यति मूढात्मा शिवे देहे प्रतिष्ठिते ॥५७॥अन्तस्थं मां परित्यज्य बहिष्ठं यस्तु सेवते । हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्पर - मात्मनः ॥५८॥शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ॥५९॥अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम् । प्रज्ञान - घनमानन्दं यः पश्यति स पश्यति ॥६०॥नाडीपुञ्ज सदा सारं नरभावं महामुने । समुत्सृजात्मनात्मानमहमित्येव धारय ॥६१॥अशरीरं शरीरेषु महान्तं विभुमीश्वरम् । आनंदमक्षरं साक्षान्मत्वा धीरो न शोचति ॥६२॥विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने । आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥६३॥इति चतुर्थः खण्डः ॥४॥ N/A References : N/A Last Updated : January 20, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP