श्रीजाबालदर्शनोपनिषत् - द्वितीयः खण्डः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


तपः संतोषमास्तिक्यं दानमीश्वरपूजनम् । सिद्धांतश्रवणं चैव र्‍हीर्मतिश्च जपो व्रतम् ॥१॥
एते च नियमाः प्रोक्तास्तान्वक्ष्यामि क्रमाच्छृणु ॥२॥
वेदोक्तेन प्रकरेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥३॥
को वा मोक्षः कथं तेन संसारं प्रतिपन्नवान् । इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥४॥
यद्टच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् । तत्संतोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥५॥
ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् । सर्वत्र विगतस्नेहः संतोषं परमं विदुः । श्रोते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥६॥
न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने । अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥७॥
रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥८॥
सत्यं ज्ञामनन्तं च परानन्दं परं ध्रुवम् । प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥९॥
वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् । तस्मिन्भवति या लज्जा र्‍हीः सैवेति प्रकीर्तिता । वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥१०॥
गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः । वेदोक्तेनैव मार्गेण मंत्राभ्यासो जपः स्मृतः ॥११॥
कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके । इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥१२॥
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥१३॥
वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः । मानसो मननध्यानभेदाद्वैविध्यमाश्रितः ॥१४॥
उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते । मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥१५॥
उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् । नीचैः श्रोत्रेण चेन्मन्त्रः श्रृतश्चेन्निष्फलं भवेत् ॥१६॥
इति द्वितीयः खण्डः ॥२॥

N/A

References : N/A
Last Updated : January 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP