श्रीजाबालदर्शनोपनिषत् - प्रथमः खण्डः
देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.
॥ श्रीजाबालदर्शनोपनिषत् ॥
यमाद्यष्टाङ्गयोगेद्धं ब्रह्ममात्रप्रबोधतः ।
योगिनो यत्पदं यान्ति तत्कैवल्यपदं भजे ॥१॥
ओमाप्यायन्त्विति शान्तिः
हरिः ॐ ॥
दत्तात्रेयो महायोगी भगवान्भूतभावनः । चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः ॥१॥
तस्य शिष्यो मुनिवरः सांस्कृतिर्नाम भक्तिमान् । पप्रच्छ गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ॥२॥
भगवन्ब्रूहि मे योगं साष्टाङ्गं सप्रपञ्चकम् । येन विज्ञातमात्रेण जीवन्मुक्तो भवाम्यहम् ॥३॥
मेवसंकृते शृणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् । यमश्च नियमश्चैव तथैवासनमेव च ॥४॥
प्राणायामस्तथा ब्रह्मन्प्रत्याहारस्ततः परम् । धारणा च तथा ध्यानं समाधिश्चाष्टमं मुने ॥५॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्य दयार्जवम् । क्षमा धृतिर्मिताहारः शौचं चैव यमा दश ॥६॥
वेदोक्तेन प्रकारेण विना सत्य तपोधन । कायेन मनसा वाचा हिंसाऽहिंसा न चान्यथा ॥७॥
आत्मा सर्वगतोऽच्छेद्यो न ग्राह्य इति मे मतिः । सा चाहिंसा वरा प्रोक्ता मुने वेदान्तवेदिभिः ॥८॥
चक्षुरादीन्द्रियैर्दृष्टं श्रुतं घ्रातं मुनीश्वर । तस्यैवोक्तिर्भवेत्सत्यं विप्र तन्नान्यथा भवेत् ॥९॥
सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः । तच्च सत्यं वरं प्रोक्तं वेदान्तज्ञानपारगैः ॥१०॥
अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि च । मनसा विनिवृत्तिर्या तदस्येयं विदुर्बुधाः ॥११॥
आत्मन्यनात्मभावेन व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ॥१२॥
कायेन वाचा मनसा स्त्रीणां परिविवर्जनम् । ऋतौ भार्या तदा स्वस्य ब्रह्मचर्य तदुच्यते ॥१३॥
ब्रह्मभावे मनश्चारं ब्रह्मचर्य परन्तप ॥१४॥
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा । अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ॥१५॥
पुत्रे मित्रे कलत्रे च रिपी स्वात्मनि संततम् । एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥१६॥
कायेन मनसा वाचा शत्रुभिः परिपीडिते । बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव ॥१७॥
वेदावेद विनिर्मोक्षः संसारस्य च चान्यथा । इति विज्ञान - निष्पतिर्धृतिः प्रोक्ता हि वैदिकैः । अहमात्मा न चान्योऽस्मी - त्येवमप्रव्युता मतिः ॥१८॥
अल्पमुष्टाशनाभ्यां च चतुर्थांशावशेषकम् तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥१९॥
स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने । यत्तच्छौचं भवेद्बाह्यं मानसं मनसं विदः । अहं शुद्ध इति ज्ञानं शौचमाहुर्मनीषिणः ॥२०॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥२१॥
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः । स मूढः काञ्चनं त्यक्त्वा लोष्ठं गृण्हाति सुव्रत ॥२२॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥२३॥
लोकत्रयेऽपि कर्तव्यं किंचिन्नास्त्यात्मवेदिनाम् ॥२४॥
तस्मात्सर्वप्रयत्नेन मुनेऽहिंसादिसाधने । आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदनात् ॥२५॥
इति प्रथमः खण्डः ॥१॥
N/A
References : N/A
Last Updated : January 20, 2018
TOP