तन्त्रवार्तिके - श्लोक १०१ ते १२८

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


विरोधित्वेन बाध्येत न तु मध्वादिभत्तणम् ।
तस्माद् गुरुकुले तिष्ठन्मधुमांसाद्यवर्जयन् ॥१०१॥
जिज्ञासेताsविरुद्धत्वाद्धर्ममित्यवगम्यते ।
गुरुगेहनिवृत्त्यंशो यावच्च न समाप्यते ॥१०२॥
तावत्सकलवाचित्वान्न स्नानं पर्यवस्यति ।
गुरुगेहादनावृत्तः स्नातको हि न कथ्यते ॥१०३॥
तत्परत्वविधानाच्च न तावद्दारसङ्ग्रहः ।
व्याख्याय कीर्तिता चात्र स्नायादिति ( १ ) पुनःस्मृतिः ॥१०४॥
समावर्तिष्ट मेत्यादि स्मृतेर्यद्यप्यनन्तरम् ।
विपरीतार्थमित्यस्मात्तद्वाक्यादपनीयते ॥१०५॥
अथशब्देन यो बाधः पुरस्तादुपवर्णितः ।
तन्मात्रस्यैव ( २ ) बाधोsत्र दृष्टार्थत्वात्प्रदर्शितः ॥१०६॥
स्मृतिप्राप्तमिदानीं तु मधुमांसाद्यवर्जनम् ।
प्रतिषेधन्नदृष्टार्थ सूत्रकारो न शोभते ॥१०७॥
निवृत्त्य गुरुगेहाच्च जिज्ञासार्थः पुनर्भवेत् ।
प्रवेशः सोsप्यदृष्टार्थ इति नैवेह सूत्रितः ॥१०८॥
निर्गमो हि कृतार्थस्य दृष्टार्थो गुरुवेश्मनः ।
स्मर्यते तस्य नार्थः स्यादकृतार्थस्य निर्गमे ॥१०९॥
अथशब्दप्रसिद्ध्यैव ( १ ) वेदग्रहणहेतुता ।
आनन्तर्योपदेशित्वादतःशब्देन किं पुनः ॥११०॥
योग्यत्वमथशब्देन यद्यापि प्रतिपादितम् ।
तदेव हेतुरत्रोति नातःशब्दाद्विना भवेत् ॥१११॥
लक्षणं पुरुषस्यैव तदा तद्धि प्रसज्यते ।
जिज्ञासायाश्च हेतुत्वे फलार्थित्वादि सम्भवेत् ॥११२॥
अतःशब्दगृहीतं वा तत्राsध्ययनमाश्रितम् ।
हेतावकथ्यमाने हि मङ्गलाद्यर्थतां वदेत् ( १ ) ॥११३॥
स्नानबाधस्य वा हेतुरत इत्युच्यते पुनः ।
योग्यस्याsधीतवेदत्वान्नावस्थातुं हि शक्यते ॥ ( २ ) ॥११४॥
‘ सन्वाच्येच्छाssन्तरं कर्म ज्ञानं व्याप्नोति तावता ।
ज्ञानोपसर्जना सैव न तु विध्यादि गम्यते ॥११५॥
इषेस्तु कर्म बाह्यः स्याद्धर्मः सा वा sथ वा द्वयम् ।
समानकर्तृकत्वं तु तुमुनोक्तं लिङा विधिः ॥११६॥
एवं विषयनानात्वान्न का चि ( १ ) त्पुनरुक्तता ’ ।
सूत्रितेच्छाभिनिर्वृत्त्यै द्वितीयेच्छा sत्र सूत्रिता ॥११७॥
प्रकृत्या विक्रुतिर्यस्माच्चतुर्थ्यन्ता समस्यते ।
तादर्थ्ये ( २ ) यूपदार्वादौ तेनास्मिन्नसमासता ॥११८॥
‘ सा हि तस्ये ’ त्यनेनोक्तो धर्मस्येत्येष विग्रहः ।
धर्मायेति तु तादर्थ्ये षष्ठी वृत्तेति कथ्यते ॥११९॥
प्राप्नोत्यत्र चतुर्थेव विशेषश्चेद्विवक्षितः ।
सामान्यस्य विवक्षयां तादृशं कथ्यते कथम् ॥१२०॥
सम्बन्धमात्र एवैषां षष्ठुयत्पन्ना तथापि तु ।
विशेषनिष्ठता तस्या भाष्यकारेण वर्ण्यते ॥१२१॥
साधनाभासता चात्र पूर्वपक्षार्थगोचरा ।
अन्यसाधनमन्यस्य साधनाभास उच्यते ॥१२२॥
क्रत्वर्थं पुरुषार्थस्य तदर्थं च क्रतोरिति ।
शेषलक्षणशब्दश्च कृत्स्नशास्त्रविवक्षया ॥१२३॥
प्रसिद्धः शक्यते ज्ञातुं प्रसिद्धत्वात्तु ( १ ) नेष्यते ।
अप्रसिद्धस्त्वशक्यत्वान्नतरामित्यतो sब्रवीत् ॥१२४॥
जिज्ञास्यः संशयाद्धर्मः श्रेयस्करतया sपि च ।
असंदिग्धो ह्यजिज्ञासो यो वा स्यान्निष्प्रयोजनः ॥१२५॥
स्वरूपादिषु धर्मस्य द्विधा विप्रतिपद्यते ।
पूर्वं प्रमाणरूपाभ्यां पादेनाद्यस्य निर्णयः ॥१२६॥
‘ स्थिते वेदप्रमाणत्वे पुनर्वाक्यार्थनिर्णये ।
मतिर्बहुविदां पुसां संशयान्नोपजायते ॥१२७॥
के चिदाहुरसावर्थः के चिन्नाsसावयं त्विति ।
तन्निर्णपार्थमप्येतत्परं शास्त्रं प्रणीयते ’ ॥१२८॥
इति प्रतिज्ञासूत्रं प्रथमं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP