तन्त्रवार्तिके - श्लोक १ ते २५
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥१॥
अभिवन्द्य गुरूनादौ शिष्यधीपद्मिनीरवीx ।
तत्प्रसादात् करिष्येsहं मीमांसश्लोकवाxxxxम् ॥२॥
तद्विद्वांसोsनुगृह्णन्तु चित्तश्रोत्रैः प्रसादिभि ।
सन्तः प्रणयिवाक्यानि गृह्णान्ति ह्यनसूर्यवः ॥३॥
न ( १ ) चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः ।
दोषो ह्यविद्यमानोsपि तच्चित्तानां प्रकाशते ॥४॥
कुतो वा गृह्णते दोषं सूरयो मद्विधोक्तिषु ।
नेष्यते यः परस्थोsपि स स्वयं गृह्यते कथम् ॥५॥
निर्दोषत्वैकवाक्यत्वं क्क xx लोकस्य दृश्यते ।
सापवादा यथ के चिxxक्षस्वर्गावपि प्रति ॥६॥
आगमप्रवणश्चाहं नापवाद्यः स्खलन्नपि ।
न हि सद्वर्त्मना गच्छन् स्खलितेष्वप्यपोद्यते ॥७॥
ययाकथं चिदारब्धा त्रयीमार्गाsनुसारिणी ।
वाग्वृत्तिरल्पसाराsपि श्रद्दधानस्य शोभते ॥८॥
मीमांसाशास्त्रतेजोभिर्विशेषेणोज्ज्वलीकृते ।
वेदार्थज्ञानरत्ने मे तृष्णाsतीव विजृम्भते ॥९॥
प्रायेणैव हि मीमांसा लोके लोकायतीकृता ।
तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ॥१०॥
अथोsतो धर्मजिज्ञासा१ ॥१॥
“ अथातो धर्मजिज्ञासा ” सूत्रमाद्यमिदं कृतम् ।
धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् ॥११॥
सर्वस्यैव हि शास्त्रस्य कर्मणो वाsपि कस्य चित् ।
यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते ? ॥१२॥
मीमांसाख्या तु विद्येयं बहुविद्यान्तराssश्रिता ।
न शुश्रूषयितुं शक्या प्रागनुक्त्वा प्रयोजनम् ॥१३॥
विद्यान्तरेषु नाप्येतद् यद्यभीष्टं प्रयोजनम् ।
अनर्थ प्रापणं तावत्तेभ्यो नाशङ्क्यते क्क चित् ॥१४॥
मीमांसायां त्विहाsज्ञाते दुर्ज्ञाते वा sविवेकतः ।
न्यासमार्गे महान् दोषिति यत्नोपचर्यता ॥१५॥
तस्मात्प्रयोजनं पूर्वमुक्तं सूत्रकृता स्वयम् ।
यत् तेनोक्तं वदेयु ( १ ) स्तद् भाष्यकारादयः कथम् ॥१६॥
सिद्धार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते ।
शास्त्रादौ तेन वक्तव्यः सम्बन्धं सप्रयोजनः ॥१७॥
शास्त्रं प्रयोजनं चैव सम्बन्धस्याश्रयावुभौ ।
तदुक्त्यन्तर्गतस्तस्माद् भिन्नो नोक्तः प्रयोजनात् ॥१८॥
‘ सिद्धिः श्रोतृप्रवृत्तीनां सम्बन्धकथनाद्यतः ।
तस्मात् सर्वेषु शास्त्रेषु सम्बन्धः पूर्वमुच्यते ॥१९॥
यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते ।
असम्बद्धप्रलापित्वाद् भवेत् तावदसंगतिः ’ ॥२०॥
इह त्वाक्षिप्य सम्बन्धं भाष्यएवाsभिधास्यते ।
धर्मप्रसिद्ध्यसिद्धिभ्यां, ( १ ) तस्मान्नान्योsभिधीयते ॥२१॥
न चाप्यत्राsथशब्देन शास्त्रसम्बन्ध उच्यते ।
सम्बन्धं क्रिययोर्ह्येष शास्त्राच ते पृथक् ॥२२॥
योsप्ययं शास्त्रसम्बन्धो वर्ण्यते कैश्चिदातितः ।
क्रियाssनन्तर्यरूपो वा गुरुपर्वक्रमोsपि वा ॥२३॥
तदतद्भावयोस्तस्य विशेषो नोपलभ्यते ।
श्रोतुर्विधौ निषेधे वा ज्ञाने वा शास्त्रगोचरे ॥२४॥
तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः ।
शास्त्रावतारसम्बन्धो वाच्यो नान्यस्तु निष्फलः ॥२५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP