तन्त्रवार्तिके - श्लोक ७६ ते १००

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


वक्ष्यमाणमनालोच्य सम्भवेत्परिचोदना ।
‘ न तावत्साध्यते sद्यापि चोदना धर्मसाधनम् ॥७६॥
इह वा कानि वाक्यानि विवरिष्यति जैमिनिः ।
धर्ममात्राभिधानाद्धि बुद्धादिवचनान्यपि ॥७७॥
पठित्वा धर्मजिज्ञासेत्यन्यस्यापीति चोदना ’ ।
‘ यद्वा भवतु नामेदृक् सूत्रं वेदमधीत्य तु ॥७८॥
जिज्ञासाsनन्तरं कार्येत्यत्रापि द्वयमीप्सितम् ।
नाsनधीत्य न चाप्यन्यत्कृत्वेत्येतन्न लभ्यते ॥७९॥
वक्ष्यमाणवचोभङ्गयोर्वाक्यभेदप्रमङ्गतः ।
अधीत्यैवेति हि विधौ स्नानादेरप्यनन्तरा ॥८०॥
भवेष्द्वर्मस्य जिज्ञासा नाsनन्तर्यविधिस्तदा ।
आनन्तर्यविधाने तु या वेदाध्ययने कृत ॥८१॥
इत्येवमनुवादत्वात्प्रागप्येषा प्रसज्यते ’ ।
बुद्धवाक्यादिपाठस्य ‘ तादृशीं ’ त्वित्यपाक्रिया ॥८२॥
प्रागपीति च चोदस्य सामर्थ्याद्वेदलाभतः ।
‘ नैवैतयोर्वचोभङ्योरेकोsप्यर्थो विधीयते ॥८३॥
अपि चेत्यादिकेनोक्तं ; किं त्वित्येतद्विधीयते ।
आनन्तर्यं परस्ताच्च नापि शिष्म इतीह तु ॥८४॥
के चिदध्याहरन्त्यस्य सुत्रस्याsन्यपरत्वतः ।
न वार्यतेsनधीतत्वं नाsनन्तर्यं विधीयते ॥८५॥
सामर्थ्यासिद्ध्यदृष्टार्थप्रसङ्गात्तेन लक्षणा ।
आनन्तर्यवचोव्यक्तिराश्रितैवात्र लक्ष्यते ॥८६॥
श्रुतार्थं त्वपरित्यज्य ( १ ) लक्षणार्थो विधीयते ।
प्रतीता धर्मजिज्ञासा वेदाध्यायादनन्तरा ॥८७॥
तत्कालस्याsवरुद्धत्वात्स्नानाभावं हि लक्षयेत् ।
विरोधो युगपत्प्राप्तेर्दौर्बल्यं वेदबोधनात् ( २ ) ॥८८॥
स्नानस्य तेन बाधः स्याद्धर्मजिज्ञासया बलात् ।
‘ दृष्टार्थत्वादिसंयुक्तं वाक्यं लक्षणया त्विति ॥८९॥
पुनरुक्त्या गतार्थत्वात्त्यक्तं कैश्चि’त्तदुच्यते ।
यद्यप्यस्य भवेद्वाच्यमानन्तर्यमसंशयम् ॥९०॥
तथापि पूर्वतामात्रं लक्षयेदविरोधतः ।
ग्रन्थग्रहणमात्रे च कृते स्नानं विरुध्यते ॥९१॥
अधीत्येत्यधिगम्येति व्याख्याने त्वविरोधिता ।
यस्त्वेवमविरोधित्वं कुर्वन्नाप्लवनं वदेत् ॥९२॥
अदृष्टायाsथ वाsप्यन्यः संस्कारस्तस्य चोत्तरम ।
इहाsस्नानादिनियमो यः कृतो ब्रह्मचारिणः ॥९३॥
अवधित्वमनाश्रित्य सोsवसानमपेक्षते ।
ततोsपेक्षावशात्स्नानमस्नानादिनिवर्तनम् ॥९४॥
विरोधसाहचर्याभ्यां दृष्टार्थत्वेन लक्षयेत् ।
तस्मादध्ययनस्नानजिज्ञासाक्रमवाचिनाम् ॥९५॥
दृष्टार्थत्वाय ( १ ) शब्दानामेवं व्याख्येयमाश्रिता ।
स्नात्वा जिज्ञासमानोsपि ननु वेदं न बाधते ॥९६॥
तेनाsविरोधिता तस्ये ‘ त्येवं वदत उत्तरम् ।
यथैवाsध्ययनात्स्नानं स्मर्यते समनन्तरम् ॥९७॥
तथा ततः परोsप्यन्यः पदार्थोsन्यः परस्ततः ।
ततश्चावश्यकर्तव्ये बाधे स्मार्तस्य कस्य चित् ॥९८॥
योग्यत्वादागते काले प्राथम्यात्स्नानबाधनम् ’ ।
सोsयं ( १ ) पाठक्रमस्यार्थाद्वाध इत्यवगम्यते ॥९९॥
गुणप्रधानयोर्वापि विरोधाद् गुणबाधनम् ।
स्नानोपलक्षिता चात्र निवृत्तिर्गुरुवेश्मनः ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP