संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|अष्टमाष्टक| अष्टमोsध्याय: अष्टमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: अष्टमाष्टक - अष्टमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती प्रलय - युगमान - संन्यासपद्धतिकथनं नामाष्टमाष्टकेsष्टमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ त्यं चिन्मयं परात्मानं ये न पश्यन्ति दुर्धिय: ॥तेsभीक्ष्णं प्रलयं यान्ति स्वकर्मपरिचोदिता: ॥१॥प्रलय: पञ्चधाsत्राद्य: स्वापो दैनंदिनाभिध: ॥इन्द्रियोपरतिर्दैवाद्द्विप्रपञ्चलयस्त्विह ॥२॥कालान्नित्येsपि दृश्येते नात्र भूतोद्भवक्षती ॥वह्नयर्चिवन्मृतौ नाशमज्ञ: पश्यति नान्यदा ॥३॥प्रारब्धन्ते यदोदान: पुण्येनोर्ध्वमधोंsहसा ॥द्वाभ्यां नृजन्म वा लैङ्गं नयत्येषोsपरो लय: ॥४॥यन्निमित्तमनर्थोsभूद्देहस्यात्यन्तविस्मृति: ॥अहंकारास्पदस्यास्य तल्लयो नित्यसंज्ञित: ॥५॥त्रिलोकी कल्प्यते ब्रह्मदिनान्ते प्रलयाय स: ॥नैमित्तिकोsत्र क: शेते स सवासनजीवहृत् ॥६॥तुर्य: प्राकृतिकोsस्यान्ते द्विपरार्धावसानत: ॥सप्त प्रकृतयस्त्वत्र कल्प्यन्ते प्रलयाय हि ॥७॥शताब्दं नैव वर्षोsत्र लोका अन्योन्यभक्षिण: ॥पिबतेsर्कोsखिलरसान्दहत्याग्निरशेषत: ॥८॥तत: सांवर्तको वर्षो विश्वमेकोदकं तत: ॥ग्रसत्यापो भुवो गन्धं लीयते भूरपां रसम् ॥९॥ग्रसत्यग्नि: प्रलीयन्ते तास्ततोsग्नेर्ग्रसत्यसौ ॥रूपं वायुर्लीयतेsग्निस्पर्शं खं ग्रसते तत: ॥१०॥वायु: प्रलीयते शब्दमहंकारो ग्रसत्यथ ॥प्रलीयते खं ततोsहंकारं ग्रसति वै महान् ॥११॥तं गुणास्तांश्च प्रधानमवशं कालचोदितम् ॥भूतभौतिकसृष्टास्पृगात्माsव्यक्तोsगुणोsद्वय: ॥१२॥यस्मिन्सदिव भातीदमवशं रज्जुसपर्वत् ॥कुत: सतोsस्य प्रलयो निर्विकारस्य साक्षिण: ॥१३॥चतुर्षु प्रलयेष्वेषु नायं लभ्योsजितात्मनाम् ॥शश्वत्तरोsवशो जीवो जायते म्रियतेsपि च ॥१४॥प्रलये साधनाभावादुपस्थोsपि न बुध्यते ॥ततोsवशो वासनाभि: पुनर्जन्मादिदु:खभाक् ॥१५॥बुद्धीन्द्रियमन:प्राणाहंकारेभ्यो विलक्षणम् ॥यदाsसंशयमात्मानं वेच्यसौ मुच्यते तदा ॥१६॥तदैव कारणाविद्या सकार्याsपि प्रलीयते ॥आत्यन्तिकाख्य: प्रलय: पञ्चमोsयमनुत्तम: ॥१७॥आत्मन्यभेदेन विद्वान्विमुक्तो नामरूपत: ॥प्रलीयते खमिव खे नद्योsब्धाविव नान्यथा ॥१८॥तस्मात्सर्वप्रयत्नेन सर्वानर्थप्रशान्तये ॥आत्मज्ञाने सदोद्योग: कर्तव्यो वेदचोदित: ॥१९॥खखाभ्राष्टाश्विसप्तक्ष्मामितेsब्दे लक्षजीविन: ॥कृते नरा ध्यानमुक्ता यत्र धर्मश्चतुष्पद: ॥२०॥खखाभ्रर्त्वङ्केनमिताब्दा त्रेताsत्र त्रिपाद्वृष: ॥इष्ट्वेश्वरं मखैर्मुक्ता मानुष्या अयुतायुषा: ॥२१॥द्वापरेsभ्राभ्रखाब्ध्यङ्गाष्टमिताब्दे द्विपादवृष: ॥नरा; सहस्रायुषोsस्मिन्नीशोपासनयोद्धृता: ॥२२॥खखाभ्रदन्ताब्धिमिताब्दे तिष्येsत्र शतायुष: ॥धर्मभ्रष्टा नरा; सर्वे शिश्नोदरपरायणा: ॥२३॥अव्रता वर्णिनोsशौचा यतयश्च कुटुम्बिन: ॥ग्राम्यार्थसक्ता वनिनो लुप्ताचाराश्च गेहिन: ॥२४॥ह्रस्वाकारा महाहारा मन्दभाग्या अपत्रपा: ॥स्त्रैणा बहुप्रजा मूढास्त्यक्तस्वजनसौहृदा: ॥२५॥भर्त्रवज्ञापरा नार्य: पुत्रा: पितृद्रुहोsनुगा: ॥पतित्यागपरा: शिष्या: सर्वथा गुरुवञ्चका: ॥२६॥अर्थतो भक्षयिष्यन्ति म्लेच्छप्राया नृपा: प्रजा: ॥द्विजा वराटार्थमपि वेदविक्रयिण: खला: ॥२७॥प्रतिग्रहपरान्नस्त्रीसक्ता: सिद्धिविवर्जिता: ॥हीनवृत्तिरता: श्रेष्ठा हीनाश्च श्रेष्ठवृत्तय: ॥२८॥यज्ञयागविहीनेsत्र वृष्टिरन्नं क्कचित्क्कचित् ॥नरा वृद्धा: षोडशेsब्दे प्रसूता दशमेsबला: ॥२९॥दस्युप्रायेषु भूपेषु पाखण्डप्रचुरे वृषे ॥शूद्रप्रायेषु वर्णेषु छागप्रायासु गोशु च ॥३०॥गृहप्रायेष्वाश्रमेषु शून्यप्रायेषु सद्मसु ॥अणुप्रायास्वोषधीषु शमीप्रायेषु च द्रूषु ॥३१॥विष्ण्वंशो धर्मरक्षार्थं कल्क्याख्य: कारनाटके ॥अवतीर्यश्वगो म्लेच्छान्हत्वा संस्थां करिष्यते ॥३२॥सोमार्कवंश्यौ देवापिमरू योगेन संस्थितौ ॥कलापग्रामे तौ भूपौ तदैवेह भविष्यत: ॥३३॥भविष्यति तदा धर्मश्चतुष्पादश्च पूर्ववत् ॥वर्णाश्रमव्यवस्था च वृष्टिर्धान्यर्द्धिरुत्तमा ॥३४॥सत्यप्येवं कलावेकं तारकं साधनं सुखम् ॥श्रीदत्तस्मरणं नॄणां सद्य: श्रेयस्करं परम् ॥३५॥तत्संन्यस्याखिलं भक्त्या श्रीदत्तं संस्म्करेद्द्विज: ॥तत्प्रसादाद्विशुद्धात्मा भूत्वा मुक्तो भविष्यति ॥३६॥ज्ञाताज्ञातैनसां कृत्वा निष्कृतिं निर्ममो वशी ॥अष्टौ श्राद्धानि कृत्वाsथ विरजाहोममचरेत् ॥३७॥स्वात्मन्यग्नीन्समारोप्य कृत्वा देवीप्रवेशनम् ॥त्यक्त्वैषणाश्च संबन्धान् दत्त्वा सर्वाभयं तत: ॥३८॥हुत्वा शिखां चोपवीतं स यथाजातरूपधृक् ॥कौपीनं परिधानं च काषायं प्रार्थितो दधत् ॥३९॥कुण्डीधर: समित्पाणिर्ब्रह्मिष्ठं श्रोत्रियं गुरुम् ॥उपसंगम्य भक्त्येशाभिन्नं मत्वा प्रणम्य च ॥४०॥प्रसाद्य सेवया तस्मात्संप्रदायानुसारत: ॥महावाक्यान्युपादाय ज्ञात्वाssचारानशेषत: ॥४१॥दण्डी भूत्वा कारयित्वा पर्यङ्काशौचमुत्तमम् ॥गुरूपदिष्टमध्यात्मस्वरूपं समनुस्मरेत् ॥४२॥स्नानं शौचं देवपूजा ध्यानं भिक्षाटनं जप: ॥सर्वथैतानि कार्याणि यतिना राजदण्डवत् ॥४३॥शुक्लवस्त्रं मञ्चकोsर्थ: स्त्रीकथा लौल्यमेव च ॥वस्त्रासनाsमत्रलोभ: संचय: शिष्यसंग्रह: ॥४४॥दिवास्वापो वृथाजल्पो यानं बन्धाय वै यते: ॥नाध्येतव्यं न वक्तव्यं श्रोतव्यं हि बन्धकृत् ॥४५॥एकरात्रं वसेद्ग्रामे त्रिरात्रं पत्तेने पुरे ॥पञ्चरात्रं वसेन्मासांश्चतुरो वार्षिकान्सदा ॥४६॥काशीस्थानामशक्तानां विहारो नैक विद्यते ॥वसेदनियतागारो दर्यां वा शून्यवेश्मनि ॥४७॥अलाबुं मृन्मयं दारुमयं वैणवमेव वा ॥दध्यात्सदैकपात्रं चेद्भग्नमप्सु विनिक्षिपेत् ॥४८॥तथैव दण्डं संस्कृत्य दध्यान्मुद्राद्वयान्वितम् ॥सत्वचं वैणवं विप्रमयोनिं समपर्वकम् ॥४९॥द्विभागं मूलतस्त्यक्त्वा बघ्नीयाद्ब्रह्ममुद्रिकाम् ॥परशुं चान्त्यपर्वान्ते संप्रदायानुसारत: ॥५०॥क्रोशपादोत्तरं दण्डं विनेयान्न न लङ्घयेत् ॥विना परशुमुद्रां च ग्रामसीमां नदीं तथा ॥५१॥विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ॥कालेsपराह्णभूयिष्ठे दण्डी भिक्षां चरेद्यति: ॥५२॥माधूकरं चोपपन्नं तात्कालिकमयाचितम् ॥अत्र माधूकरं श्रेष्ठं यतो दोषो न विद्यते ॥५३॥मन:संकल्परहितान्गृहांस्त्रीन् पञ्च सप्त वा ॥संतोषपूर्वं भिक्षेत स्मृतं माधूकरं तु तत् ॥५४॥लब्धाग्रभिक्षातुर्यांशं ब्रह्मादिभ्य: समर्प्य च ॥निवेद्य विष्णवे शिष्टं तदद्यादौषधोपमम् ॥५५॥एकान्नाशी भवेद्यस्तु कदाचिल्लंपटो यति: ॥स चण्डालसमो ज्ञेयस्तस्माद्भैक्ष्यं समाहरेत् ॥५६॥मद्यमांसोपमं पश्येद्यतेरन्नं जलं गृही ॥आद्यन्तजलयुग्दद्यादन्नं तस्मै महाफलं ॥५७॥भिक्षामा सप्तमान्मासान्नचरेद्गर्भिणीगृहे ॥उदक्यायाश्चतुरहं हव्यकव्यदिने तथा ॥५८॥पुत्रोद्भवे मासमेकं सार्धं कन्योद्भवे तथा ॥गोमहिष्यादिसूतौ च दशाहं सूतके तथा ॥५९॥षोडशाहं व्रतोद्वाहे वर्जा वृद्धिदिने तथा ॥श्राद्धेष्ट्यादौ वैश्वदेवकर्तु: क्षौरदिने तथा ॥६०॥पितर्यब्दं मृतेsर्धाब्दं मातर्यब्दाङ्घ्रिकं स्त्रियि ॥पितामहे च पुत्रादौ तदर्धं मासमन्यके ॥६१॥अयने विषुवे रात्रवेकादश्यां न भोजनम् ॥सायंतनं श्वस्तनं वा न संगृह्णीत भिक्षितम् ॥६२॥क्षौरं द्विमास्या पौर्णायां यतेर्दाहक्रियादि नो ॥व्यसुर्देहो गवि क्षेप्य: पुत्रश्चेच्छ्राद्धमाचरेत् ॥६३॥कुटीचको बहूदश्च हंस: परमहंसक: ॥अत्रोत्तरोत्तर: श्रेष्ठश्चान्त्यो नैष्कर्म्यसिद्धिभाक् ॥६४॥स्वशाखोपनिषद्गीताविष्णुनामसहस्रकम् ॥श्रीरुद्रं पौरुषं तारं जपन्मुच्येत्परात्मदृक् ॥६५॥बालोsपि योगभ्रष्टत्वात्पित्रे लब्धस्मृतिर्जगौ ॥दत्तोपदिष्टान्सद्धर्मान् तारांस्तत्संग्रहस्त्वयम् ॥६६॥इति भ्रमनिवृत्त्यै श्रीदत्तात्रेयो यदाह तत् ॥समासेनेह ग्रथितमनेन प्रीयतां स्वराट् ॥६७॥समानी वोsस्त्विहाकूति: समानहृदयानि व: ॥समानमस्तु वो दत्ते मनो नोsव्यात्त्र्यधीश्वर: ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्त्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे आदित अष्टमाष्टकेsष्टमोsध्याय: ॥८॥॥ इति प्रलय - युगमान - संन्यासपद्धतिकथनं नामाष्टमाष्टकेsष्टमोध्याय: ॥८।८॥अत्र काण्डास्त्रयोsध्यायश्चतुष्षष्टिस्तथाष्टका: ॥अष्टौ सार्धत्रिसाहस्रश्लोका ॐकारसंमिता: ॥१॥सद्वादशसहस्राढ्यलक्षा ११२००० क्षरात्मकं त्विदम् ॥श्रोतुर्वक्तुर्दत्तलोकप्रदं तारं पुराणकम् ॥२॥॥ इति श्रीदत्तपुराणं सटीकं समाप्तम् ॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP