संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|अष्टमाष्टक| चतुर्थोsध्याय: अष्टमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: अष्टमाष्टक - चतुर्थोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती तिथ्यादिनिर्णयसप्तसंस्थाग्रहणोपाकर्मनिर्णयो नामाष्टमाष्टके चतुर्थोsध्याय: Translation - भाषांतर हरि: ॐ ॥ विहितं कर्म निर्णीय तिथीन्कार्यं हि धीमता ॥अनिर्णीतासु तिथिषु न किंचित्फलदं कृतम् ॥१॥व्यर्केन्द्वंशा द्वादशाप्तास्तितिर्यातेतशेषकम् ॥भोग्यं हराच्च्युतं भुक्त्यन्तर्भक्तास्तत्कला: क्रमात् ॥२॥यातैष्यघटय: प्रतिपदन्त्यर्धात्करणं बवात् ॥कृष्णे भूतोत्तरार्धात्तु चत्वारि शकुने: क्रमात् ॥३॥ग्लो: केन्द्वोरष्टशत्याप्ता लिप्ता यातौ भयोगकौ ॥ग्लो: केन्द्वोर्गतिहृत्षष्ठीघ्नलिप्तास्तिथिवद्धटी: ॥४॥पितरेकादशी पूर्णा तृतीयामा चतुर्दशी ॥परविद्धाष्टमी षष्ठी ग्राह्याsन्या: पूर्वसंयुता: ॥५॥स्कन्दोsहिविद्धोsर्क: शंभुविद्धो नोपोषणे शुभ: ॥पर्वद्वयार्कविश्वे प्राग्विद्धा अपि तथैव च ॥६॥तिथीशा अग्निकौ गौरी गणेशोsहिर्गुहो रवि: ॥शंभुर्दुर्गा यमो विश्वे विष्णु: काम: शिव: शशी ॥७॥क्कचित्कृष्णे शिवौ शस्तौ पूर्वविद्धौ शिवेपि च ॥शुल्केsपराह्णात्पूर्वाह्णादन्यदा सत्तिथिर्व्रते ॥८॥असंभवे व्रतादीनां यदा पौर्वाह्णिकी तिथि: ॥द्विमुहूर्ताधिका ग्राह्या साकल्योक्त्योदयाद्र्वे: ॥९॥प्रदोषाधिव्यापिनीष्टा तिथिर्नक्तव्रते सदा ॥उपोषितव्यं नक्षत्रं येनास्तं याति भास्कर: ॥१०॥अर्धरात्रादधो भानोर्नक्षत्रविहिता तिथि: ॥सैव ग्राह्या मुनिश्रेष्ठ नक्षत्रविहितव्रते ॥११॥तिथिनक्षत्रसंयोगो विहितो व्रत्कर्मणि ॥प्रदोषव्यापिता श्रेष्ठा तयोर्न्यूना त्वनिष्टदा ॥१२॥अर्धरात्रे यदा व्याप्तनक्षत्रं तु दिनद्वये ॥यत्पुण्यतिथिसंयुक्तं तदा तद्ग्राह्यमुच्यते ॥१३॥दिनद्वयेsर्धरात्रे चेन्नक्षत्रं च तिथिर्यदि ॥क्षये पूर्वा प्रशस्ता स्याद्वृद्धौ कार्या तथोत्तरा ॥१४॥अर्धरात्रद्वयव्याप्तिर्नास्ति नक्षत्रसंयुता ॥ह्रासवृद्धिविहीना चेद् ग्राह्या पूर्वाथवा परा ॥१५॥ज्येष्ठासंमिश्रितं मूलं रोहिणी वह्निसंयुता ॥मैत्रेण सहिता ज्येष्ठा संतानधनहानिदा ॥१६॥तत्र स्युस्तिथय: पुण्या: कर्मानुष्ठानतो दिवा ॥रात्रिव्रतेषु सर्वेषु संधियोगो विशिष्यते ॥१७॥तिथिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता ॥तस्यां तु यद्व्रतं कार्यं सैव ग्राह्या विचक्षणै: ॥१८॥मध्याह्नव्यापिनी ग्राह्या श्रवणद्वादशीव्रते ॥सूर्येन्दुग्रहणं यावत्तावद्ग्राह्या जपादिषु ॥१९॥मध्याह्नव्यापिनी ग्राह्या गणेशर्ष्यहिपूजने ॥पर्वणो यश्चतुर्थांश आद्या: प्रतिपदस्त्रय: ॥२०॥यागकाल: स विज्ञेय: प्रातरुक्तो मनीषिभि: ॥पूर्वाह्णमध्याह्नसंधौ याग: संधिदिने शुभ: ॥२१॥पूर्वेद्युरन्वाधानं चेदपराह्णे तु तद्दिने ॥यागोsन्येद्यु: संगवोर्ध्वं यदि चावर्तनात्पुरा ॥२२॥पूर्णा संधिमती तत्र सद्यस्काले द्वयं स्मृतम् ॥समापनीया प्रतिपदीष्टिर्नैव तु पर्वणि ॥२३॥सर्वैरेकादशी ग्राह्या दशमीपरिवर्जिता ॥एकादशी कलामात्रा द्वादशी तु प्रतीयते ॥२४॥त्रयोदशी च रात्र्यन्ते तत्रैवं निश्चयो मत: ॥पूर्वोपोष्या गृहस्थिअस्तु यतिभिश्चोत्तरा तथा ॥२५॥उपोष्या द्वादशीविद्धाsलाभे त्वेकादशी यदा ॥कलामात्रा द्वादशी चेत्पारणार्हा परैव तु ॥२६॥शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम् ॥पूर्वा ग्रुहस्थस्य परा मुमुक्षुयतिनाम स्मृता ॥२७॥द्वादश्यां विद्यते किंचिद्दशमीसंयुता यदि ॥दिनक्षये द्वितीयेsह्नि सर्वेषां परिकीर्तिता ॥२८॥विद्धाप्येकादशी ग्राह्या परतो द्वादशी न चेत् ॥अविद्धापि निषिद्धैव परतो द्वादशी यदि ॥२९॥एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥द्वादश द्वादशी हन्ति त्रयोदश्यां तु पारणम् ॥३०॥एकादशी कलामात्रा विद्यते द्वादशी यदि ॥द्वादशी च त्रयोदश्यां नास्ति वा विद्यतेsथवा ॥३१॥विद्धाप्येकादश्युपोष्या पूर्वैव गृहिणा तदा ॥अवीराभिश्च यतिभिरुपोष्येहोत्तरा वरा ॥३२॥संपूर्णैकादशी विद्धा द्वादश्यां नास्ति किंचन ॥द्वादशी च त्रयोदश्यामस्ति तत्र द्विजोत्तम ॥३३॥उपोष्या द्वादशीविद्धा क्कचित्पूर्वेति चोच्यते ॥तिथिर्मध्याह्नगा ग्राह्या भवोत्सर्जनकर्मणि ॥३४॥क्षयाहदर्शश्राद्धादौ तिथिर्ग्राह्यापराह्णगा ॥द्विस्वभावे मृगे चोर्ध्वं स्थिरे कर्कटके परा ॥३५॥तुलाजोभयतस्त्रिंशन्नाडय: पुण्या बुधै: स्मृता: ॥नोपवास: क्रान्तिपातग्रहार्के सार्भगेहिन: ॥३६॥अर्कद्विपर्वरात्रौ च चतुर्दश्यष्टमी दिवा ॥एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥३७॥ग्रहयामाच्चतुर्यामं पूर्वं वेध इनग्रहे ॥न क्कचिद्भोजनं पानं कृतं चेन्मांसमद्यवत् ॥३८॥तथा चन्द्रग्रहे यामत्रयं वेधोsत्र चापदि ॥अतिवृद्धार्भातुराणां वेध: स्यात्सार्धयामक: ॥३९॥मेघादिनाप्यदृष्टेsस्मिञ्शास्त्राज्ज्ञात्व चरेत्क्रियाम् ॥४०॥राहुग्रस्तौ च सूर्येन्दू तथैवास्तंगतौ यदि ॥दृष्ट्वा स्नात्वाथ भुञ्जीत परेद्यु: शुद्धमण्डलम् ॥४१॥अन्वाधानेष्टिमध्ये चेच्चन्द्रसूर्यग्रहस्तदा ॥प्रायश्चित्तं प्राक् सह वा कृत्वा यागं चरेद्बुध: ॥४२॥उदुत्यमासत्येनेति द्वाभ्यां सूर्यग्रहे हुनेत् ॥नवोनवश्चाप्ययस्वेत्याभ्यां चन्द्रग्रहेपि च ॥४३॥श्रावण्यां श्रवणाकर्म प्रदोषेsहिबलिस्तत: ॥आश्वयुज्यामाश्वयुजीकर्म मध्याह्न एव तत् ॥४४॥वर्षाशरत्पर्वणि च पृथक् तन्त्रेण वा स्मृतम् ॥श्यामाकव्रीह्याग्रयणं मार्गे प्रत्यावरोहणम् ॥४५॥अस्तेsथ कृष्णे हेमन्तशिशिराष्टमिकासु च ॥अष्टका अन्वष्टकाश्च पूर्वेद्युश्चेति गृह्यत: ॥४६॥गृह्योक्ते भे तिथौ शुक्ले नभसि श्रुत्युपाकृति: ॥भाद्रे वौषध्यनुत्पत्तौ ग्रहसंक्रान्त्यदूषिते ॥४७॥एवं तिथीर्विनिश्चित्य सिद्धान्तार्केन्दुयोगत: ॥य: करोति व्रतादीनि तस्य स्यादक्षयं फलम् ॥४८॥नित्योपवासकार्यादौ तिथिस्तात्कालिकी मता ॥व्रतादौ निर्णयाद्ग्राह्या तत: श्रेय: परं स्मृतम् ॥४९॥वेदप्रणिहितो धर्मो धर्मात्तुष्यति तत्पति: ॥तस्माद्धर्मपरा ये ते विष्णुसायुज्यभागिन: ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके चतुर्थोsध्याय: ॥४॥॥ तिथ्यादिनिर्णयसप्तसंस्थाग्रहणोपाकर्मनिर्णयो नामाष्टमाष्टके चतु० ॥८।४॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP