संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|अष्टमाष्टक| प्रथमोsध्याय: अष्टमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: अष्टमाष्टक - प्रथमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ गालवर्षिसुतेन ब्रह्मचारिधर्मकथनं नामाष्टमाष्टके प्रथमोsध्याय: Translation - भाषांतर श्रीदत्तात्रेयाय नम: ॥ हरि: ॐ ॥प्रहोता स्वयमेवायं भूत्वेहाग्न्यात्मनावति ॥मन्दांस्तेनेश्वरेणोक्तो धर्म आद्योsत्र वर्ण्यते ॥१॥गालवस्य मुने: पूर्वं नर्मदातीरवासिन: ॥शान्तो दान्तोsभवत्पुत्रो व्रती बालोsपि वृद्धवत् ॥२॥क्रीडाकालेsपि स स्निग्धानाहूयार्चां प्रकल्प्य च ॥मृदाद्येsपूजयद्विष्णुं संकल्प्यैकादशीव्रत्म् ॥३॥दृष्ट्वैवं तत्पितापृच्छत्कोsर्च्यतेsयं त्वयात्र तु ॥केनेदमुपदिष्टं ते निर्द्वन्द्वं दु:सहं व्रतम् ॥४॥स प्राहादिगुरु: प्राह व्रतं धर्मांश्च सर्वश: ॥प्रसन्नो मेsनसूयात्रितप:संतानसत्फल: ॥५॥पुराssसं धर्मकीर्त्याख्यो राजाsहं सोमवंशज: ॥नववर्षसहस्राणि धर्मतो भूर्मयाsविता ॥६॥दैवात्पूर्तेष्टदत्ताढ्योsप्यहं दु:सङ्गतश्च्युत: ॥पूज्यैस्तिरस्कृत: खिन्नो रेवातीरे वनं ह्यगाम् ॥७॥कष्टात्सजागरं दैवात्तत्रैकादश्युपोषिता ॥प्रातर्मृतं भटा निन्युर्मां कृच्छ्रेण यमान्तिकम् ॥८॥यमो मां वीक्ष्य तानाह नायं दुर्गतिभागत: ॥स्वर्गे नयध्वं सुकृतभुक्त्यै सत्कृत्य सत्वरम् ॥९॥योगी श्रीदत्तशिष्योsयं दैवाद्भ्रष्टोsपि सद्व्रतम् ॥चक्रे पपौ च रेवाम्भ: पुण्यलोकस्ततोsस्य हि ॥१०॥इत्युक्त्वा पुण्यलोकान्मां प्रापयत्तत्र मे चिरम् ॥भुक्त्वा ततोत्तमान्भोगानिह योगिकुलेsभवम् ॥११॥दत्तात्रेयप्रसादेन न नष्टा मे महास्मृति: ॥राज्यं प्रशासत: पूर्वं जातं मे दत्तदर्शनम् ॥१२॥दैवाद्दृष्ट: सद्यसानाववधूतो दिगम्बर: ॥वामेनालिङ्गितो गाढं कामिन्या दु:प्रकम्पया ॥१३॥मक्षिकावृतसर्वाङ्गो रक्ताक्षोsगाधहृद्यती ॥तया साकं हसन्गायन्मदमत्त इव स्थित: ॥१४॥दृष्ट्वा हृष्टेन मनसा दूराद्भक्त्या नमस्कृत: ॥क्रुद्धवन्माहनत्सोsपि काष्ठलोष्टेष्टिकादिभि: ॥१५॥सेवया सुचिरेणापि नाप्तो मे तदनुग्रह: ॥धिक्करोति स मां नित्यं निर्भर्त्सयति चासकृत् ॥१६॥कदाचिन्मां विषीदन्तं दीनं प्राह दयापर: ॥मया व्रात्येन ते कार्यं किं ब्रूहि नृपसत्तम ॥१७॥ममास्ति धर्मजिज्ञासा व्रात्यो ह्यन्वर्थको भवान् ॥इत्युक्त: स मया प्राह धर्मान्त्सर्वान्त्सनातनान् ॥१८॥वर्णाश्रमविभागेन समूलान्सोपपत्तिकान् ॥तान्त्सर्वान्त्संस्मरे योगभ्रष्टत्वान्मे न विस्मृति: ॥१९॥यदि ते श्रवणे श्रद्धा वक्ष्ये ताञ्छृणु सादरम् ॥धर्मान्त्सनातनान्गुह्याञ्छ्रीदत्तात्रेयभाषितान् ॥२०॥ब्रह्मक्षत्रविश: शूद्रा वर्णा ब्रह्मसमुद्भवा: ॥एते विभक्तकर्माण: स्वभावप्रभवैर्गुणै: ॥२१॥वर्णी वनी गृही चैते स्वाश्रमा आद्य एव स: ॥संन्यासान्नैष्कर्म्यसिद्धिभाक् परावीशनिष्ठया ॥२२॥शमो दमस्तप: शौचं ज्ञानास्तिक्ये क्षमाssर्जवम् ॥सहजं ब्रह्मकर्मेदं पाठादि नियतं विधे: ॥२३॥शौर्यं तेजो धृतिर्दाक्ष्यं युद्धस्थैर्यं प्रजाsवनम् ॥व्रतं च क्षात्रकर्मेदं श्रद्धाद्यागन्तुसाधनम् ॥२४॥गोरक्षा कृषिवाणिज्यं विश: शूद्रस्य सेवनम् ॥इज्याध्ययनदानानि त्रयाणां पावनानि च ॥२५॥याजनाध्यापनादानैर्जीविकाssद्यस्य कामत: ॥वधूकरग्रहस्त्वेषां निवृत्तिस्तु परं पदम् ॥२६॥श्रुतिस्मृतिपुराणानि धर्ममूलं श्रुतिर्वरा ॥तद्वैरे द्वौ वृषौ श्रुत्योर्द्वैधे स्मृत्योस्तु लौकिक: ॥२७॥वर्णाश्रमविभागोक्तो देशकालोचितो वृष: ॥लौकिकोsपि चतुर्वर्णै: सेवनीय: प्रयत्नत: ॥२८॥स्वगृह्योक्तोsविरुद्धोsपि स्मार्तो ग्राह्यो द्विजातिभि: ॥स्वधर्मत्यागतश्चैषां पाखण्डत्वं सुदु:खदम् ॥२९॥समुद्रयात्राsसवर्णस्त्र्युपयामश्चिरव्रतम् ॥प्रायोद्वाहितादानं पुनश्च न्रश्वमेधकौ ॥३०॥पुत्रोत्पत्तिर्देवराच्च मधुपर्के पशोर्वध: ॥मधुमांसार्पणं श्राद्धे दिव्यं वननिषेवणम् ॥३१॥महाप्रस्थानमित्येते धर्मा वर्ज्या: कलौ युगे ॥लुप्ते वर्णविभागेsत्र न संन्यासाग्निहोत्रकौ ॥३२॥सुजन्मनापि शूद्रोsयं संस्काराज्जायते द्विज: ॥आचार्योsत्र पिता माता सावित्री सूरिभि: स्मृता ॥३३॥विप्रोsष्टमे नृपश्चैकादशे विड् द्वादशे क्रमात् ॥ संस्कार्यो द्विघ्नस्वाब्दोर्ध्वं पतितश्चेदसंस्कृत: ॥३४॥ऐणेयरौरवाजत्वगेषां वस्त्राणि वा क्रमात् ॥काषायरक्तपीतानि केशकूर्चासुसंमिता: ॥३५॥पर्णोदुम्बरबिल्वोत्था: सत्वग्दण्डाश्च मेखला: ॥क्रमान्मौञ्जीधनुर्ज्याsव्य: स्वसूत्रै: संस्कृता द्विजा ॥३६॥कार्याश्चौलव्रतोद्वाहा उत्तरायणगे रवौ ॥शुक्लपक्षे पुण्यभे च स्फुरद्रश्मौ गुरौ सिते ॥३७॥मेखला सूत्रं दण्डश्चेद्भ्रष्टो धार्य: पुनर्नव: ॥सायंप्रातश्चाग्निकार्ये कार्ये स्वापो दिवा न च ॥३८॥प्राङ्मधान्त्यभवच्छब्दैर्विप्राद्यैर्भिक्षितं शुभम् ॥भोज्यं गुर्वाज्ञया वेदा ग्राह्या: शक्त्या यथाविधि ॥३९॥मधुस्त्रीमांसलवणताम्बूलोच्छिष्टसेवनम् ॥पादुकाछत्रगीताद्याकल्पासत्सङ्गलेपनम् ॥४०॥विप्रलापद्युतवाददु:स्पर्शाष्टङ्गमैथुनम् ॥प्रेतकार्यं च नो कार्यं हीनानां वन्दनं न च ॥४१॥ताताम्बागुर्वन्त्यकार्ये न दोषोsथाभिवादयेत् ॥क्रमान्नाम्ना शर्मवर्मगुप्तान्तेन गुरूनपि ॥४२॥पूर्णामाद्येशतिथ्यर्कक्रान्तौ मनुयुगादिषु ॥अकालवर्षोत्पातेषु पाठे दोषो न नित्यके ॥४३॥शब्दब्रह्ममयो विष्णुर्वेद: साक्षाद्धरि: पर: ॥वेदाध्यायी ततो विप्र: शुद्ध आर्षर्णवर्जित: ॥४४॥उत्सृष्टोपाकृताभ्यस्तगुप्तवेदमनुर्भुवि ॥विप्रेभ्यो नार्पयति किं प्रत्येक: कामधेनुवत् ॥४५॥अनध्यायेsधीतवेदा: प्रज्ञायु:श्रीबलापहा: ॥वेदान्विहाय योsधीते शास्त्रं शूद्रसम: स च ॥४६॥विप्रोत्थो गोलक: कुण्डो द्विजस्त्रीषु स तु क्कचित् ॥संस्कार्योsध्यापनीयश्चेत्युपदेशानुसारि तत् ॥४७॥चतुर्व्रतेषु लुप्तेषु प्रायश्चित्तं चरेद्व्रती ॥लक्षवारं जपेत्तंवोधियेति स्वव्रतात्यये ॥४८॥अर्थत: केवलं वेष्टमधीत्य गुरवे मुदा ॥दत्त्वेष्टं तदनुज्ञात: शुचि: स्नायाद्यथाविधि ॥४९॥शक्तश्चेन्नैष्ठिको भूयात्प्रव्रजेत्सुविरक्त इत् ॥अनाश्रमी न तिष्ठेत गृही भूत्वा यजेदत: ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां त्रिकाण्डमण्डितायां श्रीवासुदेव्यां कर्मकाण्डे अष्टमाष्टके प्रथमोsध्याय: ॥१॥॥ इति गालवर्षिसुतेन ब्रह्मचारिधर्मकथनं नामाष्टमाष्टके प्रथमोsध्याय: ॥८।१॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP