संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|पंचमाष्टक| अष्टमोsध्याय: पंचमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: पंचमाष्टक - अष्टमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती सुबाहुना कृतकृत्युमलर्कमागतं वीक्ष्य काशिपायोपदेशो नाम पञ्चमाष्टकेsष्टमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ दूरात्त्यक्ता मयाsहन्ता ममता च चिरागता ॥भवत्प्रसादात्स्वस्थोsद्य मुक्तसङगश्चरे महीम् ॥१॥इत्युक्त्वेशं प्रणम्याशु गत्वाsलर्क: प्रसन्नधी: ॥स काशीशं सुबाहुं स प्रोवाच प्रहसन्निव ॥२॥राज्यकामुक काशीश भुंक्ष्व राज्यमकण्टकम् ॥त्वं वा सुबाहवे चाद्य प्रयच्छेदं यथारुचि ॥३॥काशीश: प्राह किं राज्यं परित्यक्तं रणं विना ॥भवान्क्षत्रियदायादो नेदं त्वय्युपपद्यते ॥४॥प्रनष्टामात्यसेनोsपि त्यक्त्वा मरणजं भयम् ॥लक्ष्यं शत्रुं समुद्दिश्य संदधीत नृप: शरान् ॥५॥हतो वा याति स स्वर्गं जित्वा वा स भुनक्ति गाम् ॥नोभयत्रास्यं हानिर्हि यज्ञवच्चोदितो रण: ॥६॥जित्वारीन्नृपतिर्भोगान्यथाभिलपितान्हितान् ॥दिव्यान्भुञ्जीत संसिध्द्यै यजेतेशं महामखै: ॥७॥आततायिनमायान्तं दृष्ट्वा भीतो यदा नृप: ॥पलायते स हित्वेह कीर्तिं प्रेत्यैति दुर्गतिम् ॥८॥प्राहालर्क: पुरैतादृङ् मतं मेsभूत्तु सांप्रतम् ॥न तथाsहं हि नो देह: क्षत्रियत्वं पुन: कुत: ॥९॥यथा भौमो जड: कुम्भस्तथेयं देहिनस्तन् ॥गुणा: प्राणा मनश्चापि चित्सांनिध्यात्सचेतना ॥१०॥चिच्छिक्तिरेक एवायं यदा नान्योsस्ति कश्चन ॥कुतस्तदारिमित्रादिधीरज्ञानाद्यतो हि सा ॥११॥त्वन्निमित्तेन यद्दु:खं मायिकं मेsभवत्तत: ॥दत्तात्रेयप्रसादोsभून्मयि येनेदृशोsभवम् ॥१२॥निर्जितारीन्द्रियगणस्त्यक्त्वा सङ्गमशेषत: ॥मनो ब्रह्मणि संधास्ये जय: सर्वत्र तज्जये ॥१३॥नारिर्मे त्वं न चाहं ते सुबाहुस्तूपकारकृत् ॥भेददृष्टि: क्क मे सर्व मयि सर्वत्र चाप्यहम् ॥१४॥इति तद्वचनं श्रुत्वा तमालिङ्ग्य मुदा दृढम् ॥दिष्ट्योक्तं भ्रतरित्युक्त्वा सुबाहु: प्राह काशिपम् ॥१५॥यदर्थं काशिराजेह त्वामहं शरणं गत: ॥नि:शेषं तन्मया लब्धं यास्यामि स्वस्ति तेsस्तु भो: ॥१६॥काशिप: प्राह मां ब्रूहि निष्पन्नोsर्थ: कथं तव ॥किमर्थमागतोsसि त्वं कौतुकं प्रतिभाति मे ॥१७॥पित्र्यं राज्यं ममाक्रान्तं भ्रात्रा निर्जित्य तं हि मे ॥देहीति शरणं प्राप्य मामद्यात्थान्यथा कथम् ॥१८॥सुबाहु: प्राह काशीश यदर्थमयमुद्यम: ॥विहितस्त्वत्सहायेन श्रृणु तत्कारणं त्विदम् ॥१९॥विद्वांसौ वातरशनौ विमुक्तौ भ्रातरौ मम ॥तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे ॥२०॥सिक्तं तथैव बोधोsपि विन्यस्त: कर्णयोस्तथा ॥नास्य कर्णेsपतद्दैवात्पशुप्रायोsनुजोsभवत् ॥२१॥स्त्रीषु स्त्रैणेषु सततं संसक्तोsयं यथा पशु: ॥जैह्वयौपस्थ्यसुखासक्त्यानाsयमल्पोsभवत्कुधी: ॥२२॥यथैकसार्थयातानामेकस्मिन्नेव सीदति ॥दु:खं भवति सार्थानां तथाsस्माकमभून्नृप ॥२३॥लब्ध्वा गार्हस्थ्यमात्मानं सुखिनं मन्यते स्म स: ॥भ्रान्तिरस्येति संप्रेक्ष्य खेदोsस्माकमभून्नृप ॥२४॥ततो मया विनिश्चित्य दु:खं वैराग्यकारणम् ॥कृतं भवत्सहायेन तथैवार्थोsभवन्मम ॥२५॥दु:खमस्मै मया दत्तं विरक्तोsभूत्ततस्त्वयम् ॥मम कार्यं हि संसिद्धं भद्रं तेsस्तु व्रजाम्यहम् ॥२६॥माता मदालसाsस्माकं योगिमान्यापि तत्पय: ॥पीत्वा यन्न पतत्वेवं मनस्यानीय यत्नत: ॥२७॥भवत्संश्रयत: सर्वं निष्पन्नं किं ममामुना ॥मर्त्यराज्येन साम्राज्यं स्वरूपानन्दतो मम ॥२८॥नोपेक्ष्यो विदुषा राजन्सीदमान: स्वबान्धव: ॥उद्धर्तव्य: प्रयत्नेन विद्वत्ता सैव तस्य हि ॥२९॥सुहृदि स्वजने बन्धौ समर्थे योsवसीदति ॥धर्मार्थकाममोक्षेभ्यो निन्द्यास्ते नात्र संशय: ॥३०॥इत्युक्त: काशिराजोsपि क्षणसत्सङ्गनिर्वृत: ॥भूत्वा दीनमना: प्राह सुबाहुं कृपयान्वितम् ॥३१॥उपकारो ह्यलर्कस्य कृत: साधो त्वया महान् ॥कथं ममोपकाराय न करोषि मन: सखे ॥३२॥फलदो हि सतां सङ्ग इत्युक्ति: कथमन्यथा ॥तस्मान्मामपि संसारात्समुद्धर विचक्षण ॥३३॥इत्युक्त: स सुबाहुस्तं प्रहस्य प्राह काशिप ॥सत्यमेव त्वया प्रोक्तं किंतु कालोsत्र युज्यते ॥३४॥धर्मार्थकाममोक्षाख्या: पुरुषार्था इहोदिता: ॥त्रिवर्ग: सफलस्तेsत्र शिष्टो मोक्ष: स साधनै: ॥३५॥विना न सिध्द्यति ततो यतितव्यं प्रयत्नत: ॥तत्ते संक्षेपतो वक्ष्ये यथेथा: श्रेयसे तत: ॥३६॥प्रत्ययोsहंममेत्येवं कर्तव्यो न पुनस्त्वया ॥अहंममेति संज्ञेयं कस्येत्यालोचयानिशम् ॥३७॥अव्यक्तादिविशेषान्तं सविकारमचेतनम् ॥व्यक्ताव्यक्तं त्वया ज्ञेयं ततोsसङ्गत्वमेष्यसि ॥३८॥आत्मानात्मविचारेण ज्ञातव्यमखिलं तत: ॥स्वात्मानमेकमालोच्य कृतकृत्यो भविष्यसि ॥३९॥यद्यप्यलर्को दैवेन भोगासक्तोsपि कामुक: ॥विशुद्धो मातृकृपया क्षणाल्लेभे गुरो: कृपाम् ॥४०॥त्वमिदानीं विरक्तोsपि प्रतिबद्धोsस्यतोsनिशम् ॥यत: स्वप्रतिबन्धान्ते मुक्तिमेष्यस्यसंशयम् ॥४१॥इत्युक्त्वालर्कमालिङ्ग्य तमुवाच प्रसन्नधी: ॥राज्यं कुरु वनं वैहि नात: कुत्रापि लिप्यसे ॥४२॥विद्वंस्तव न दोषोsस्ति यथेच्छसि तथा कुरु ॥अलर्क: प्राह भो बन्धो मूढोsहं केवल: पुरा ॥४३॥जडीभूत: स्थितो राज्ये प्रसादात्तेsद्य मोचित: ॥एकोदरसमुत्पन्न मान्यनारीसुता वयम् ॥४४॥अद्यैव समतां प्राप्तास्तत्पुण्यं मातुरेव न: ॥इत्युक्तोsथ सुबाहु: स प्रययो वनमुत्तमम् ॥४५॥स्वपुरं काशिराजोsपि गत्वा यत्नपरोsभवत् ॥अलर्क: पुरमासाद्य पुत्रं राज्येsभिषिच्य च ॥४६॥वनं जगाम संत्यज्य सर्वसङ्गविमुक्तये ॥तत्र कालेन महता निर्द्वन्द्वो निष्परिग्रह: ॥४७॥प्राप योगर्द्धिमतुलां पूर्णां निर्वाणलक्षणाम् ॥पश्यन्विश्वमिदं सर्वं सदेवासुरमानुषम् ॥४८॥पाशैर्गुणमयैर्बद्धं बध्यमानं च नित्यश: ॥स्त्रीपुत्रभ्रातृमित्रारिस्वपारक्यादिभावितै: ॥४९॥आकृष्यमाणं करणै: संभ्रान्तं भीमदर्शनम् ॥अज्ञानपङ्कमग्नं च स्वात्मानमपि तादृशम् ॥५०॥समुत्तीर्णं समाज्ञाय गाथामेतामगायत ॥अहो कथं तदस्माभि: पूर्वं राज्यमनुष्ठितम् ॥५१॥अपि पश्चन्मया ज्ञातं योगान्नास्त्यपरं सुखम् ॥यद्भूम्यां धनधान्यस्त्रीपुत्रादिसुखभावितम् ॥५२॥तृष्णाक्षयसुखस्येदं कलां नार्हति षोडशीम् ॥तृष्णासत्त्वे तु तत्सर्वं नैकस्यार्तिदमप्यलम् ॥५३॥सुखं भूमात्मरूपं तदविद्वान्मूढधीर्बहि: ॥मृगयत्यवशस्तेन सर्वदा दु:खभाजन: ॥५४॥सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योति: सनातनम् ॥तदेवात्मैक एवाहं भूमा सुखमय: सदा ॥५५॥भ्रातुर्मातु: प्रसादेन श्रीदत्तानुग्रहेण च ॥कृतं कृत्यं प्रापणीयं मया प्राप्तं न संशय: ॥५६॥एवमुक्त्वा महात्मा स समभ्यस्य प्रयत्नत: ॥संप्राप्तश्चरमां भूमिं यत्र द्वैतस्मृतिर्न च ॥५७॥तत: प्रारब्धभोगान्ते निर्गतोपाधिक: स च ॥दत्तलोके विलीनोsभून्नामरूपादिवर्जित: ॥५८॥इति पुत्रेण पित्रेsसौ योगचर्योपदेशिता ॥सेयं समासतस्तत्र ग्रथिता बुद्धिशुद्धये ॥५९॥पुत्र: प्राह ततैवं त्वं योगाभ्यासं समाचर ॥प्राप्स्यसे तत्परं ब्रह्म यत्र गत्वा न शोचति ॥६०॥तद्ब्रह्माsहं न संसारी किं मेsध्ययनकर्मभि: ॥कृतकृत्यस्य करणमस्ति चेन्न स तत्त्ववित् ॥६१॥एतत्ते सर्वमाख्यातं तव प्रश्नानुसारत: ॥ममोदन्तश्च कथितो यतमानो भवाधुना ॥६२॥इत्युक्त्वा पितरं नत्वा ततोsनुज्ञामवप्य च ॥संत्यक्ताखिलसङ्गोsसौ गां चचार समाहित: ॥६३॥तत्पितापि सुनिर्विण्णो वानप्रस्थविधानत: ॥शुद्धिं प्राप्याथ संन्यस्य जातो नैष्कर्म्यसिद्धिभाक् ॥६४॥इत्यलर्ककथा धन्या गेया ध्येया मनीषिभि: ॥प्रमाणं यत्र भगवानवधूतो दिगम्बर: ॥६५॥किं वर्ण्यते भगवतो भक्तवात्सल्यमद्भुतम् ॥योsलर्काय ददौ मुक्तिं तुष्टो वन्दनमात्रत: ॥६६॥मध्यमं चरितं त्वेतद्यदलर्ककथान्वितम् ॥भुक्तिमुक्तिप्रदं रम्यं त्रीशसंतोषकारकम् ॥६७॥शश्वत्ते वन्दनं कुर्वे माधवातीन्द्रिय प्रभो ॥संतुष्ट: सौभगं त्वं न आयजस्व त्र्यधीश्वर ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टकेsष्टमोsध्याय: ॥८॥॥ इति सुबाहुना कृतकृत्य० वीक्ष्य काशिपायोपदेशो नाम पञ्च० अष्ट० ॥५।८॥॥ इति श्रीमद्दत्तपुराणे पञ्चमाष्टक: संपूर्ण: ॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP