संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|पंचमाष्टक| चतुर्थोsध्याय: पंचमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: पंचमाष्टक - चतुर्थोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथालर्कबोधोपायनिरूपणं नाम पञ्चमाष्टके चतुर्थोsध्याय: Translation - भाषांतर हरि: ॐ ॥ प्रब्रह्मकपरत्वाज्ञ: परिसंख्यामपि भ्रमात् ॥मेने राट् चोदनां मत्वा रतामिषसुरादिषु ॥१॥राज्यं कुर्वन्यजन्नीरां यज्ञेश्च बहुदक्षिणै: ॥षट्षष्ट्यब्दसहस्रं स पशुभोग्यार्थभागभूत् ॥२॥सुबाहुस्तादृशं विद्वान्बुबोधयिषुरात्मनि ॥काशिराजसहायार्थी स पुनर्योद्भुमाययौ ॥३॥ज्येष्ठभ्रात्रे देहि राष्ट्रमिति प्राग्बोधितोsपि स: ॥काशिराजेन सोsलर्को मत्तोsमंस्त न तद्धितम् ॥४॥सुबाहु: काशिराजश्च चतुरङ्गबलान्वित: ॥भित्त्वा दुर्गान्सपालांश्च तद्राष्ट्रं स्ववशेsनयत् ॥५॥कांश्चिद्दानेन साम्ना च कांश्चिद्भेदेन चापरान् ॥दण्डेनापि वशं निन्ये सामन्तान्मन्त्रिणोsपि च ॥६॥भ्रात्रा रुद्धं पुरं क्षीणान्कोशान्परवशांश्च तान् ॥मन्त्र्यादीन्वीक्ष्य सोsलर्को भीतो दुद्राव पीडित: ॥७॥एकाकी सोsश्वमारुह्य रात्रौ गत्वा वनं स्थित: ॥ऋष्याश्रमे स्मरन्मातुरुपदेशं तदा नृप: ॥८॥प्रात: स्नात्वा स निष्कास्य मुद्रां कृतसमङ्गल: ॥वाचयामास विप्रेण मात्रा विलिखितं हितम् ॥९॥त्याज्य: सर्वात्मना सङ्ग: स चेत्त्यक्तुं न शक्यते ॥स सद्भि: सह कर्तव्य: सन्तो दु:सङ्गभेषजम् ॥१०॥काम: सर्वात्मना हेयो हातुं चेच्छक्यते न स: ॥मुमुक्षां प्रति कर्तव्य: सैव कामार्तिभेषजम् ॥११॥इति श्रुत्वा मातृहार्दं बुध्वा सह्याद्रिसंस्थितम् ॥ज्ञात्वा सत्तममात्रेयं निर्विप्ण: शरणं ययौ ॥१२॥प्रणम्याह स भो ब्रह्मन्प्रसादं कुरु मे प्रभो ॥दैवाद्दु:खं समुत्पन्नं कृपया तदपाकुरु ॥१३॥भगवांस्तद्वच: श्रुत्वा ज्ञात्वाsलर्कं महामतिम् ॥मदालसागर्भरत्नं प्रहस्येदमभाषत ॥१४॥दु:खं नृप किमर्थं ते कस्त्वं दु:खं च कस्य च ॥विचार्याङ्गानि चात्मानं क्क दु:खं सत्यमिद्वद ॥१५॥इत्युक्त: स चिरं ध्यात्वा विमृश्य च पुन:पुन: ॥विहस्याहात्मनात्मानं ज्ञात्वा सर्वाककारणम् ॥१६॥खं वायुरग्निरम्बु क्ष्मा नाहं तज्जानि चेह तु ॥संघेsहमिति मन्तुस्तद्भाति दु:खाद्यसद्विभो ॥१७॥नित्यो मे महिमा नास्य क्षयो वृद्धिश्च यद्यपि ॥भौतिके तौ सुखाद्यं वा किं पारक्येन तेन मे ॥१८॥नित्य: सदैकरूपोsहं परिणाम: कुतो मम ॥सङ्गे देहस्य संत्यक्ते दु:खादि क्कोपलक्ष्यते ॥१९॥स्थूलेsत्र भौतिके सूक्ष्मे तन्मात्रावस्थितेsपि च ॥उत्थितं त्रिविधं दु:खं पश्यतो मम तेन किम् ॥२०॥मनो मतिरहंकारश्चित्तं च न भवाम्यत: ॥अन्त:करणजैर्दु:खै: संबन्धो न परस्य मे ॥२१॥राज्यं करोत्वग्रजोsत्र किं मे संघाभिमानत: ॥स चाहं देहतोsन्योsपि पार्थक्यं न सतो हि मे ॥२२॥यस्य भूतस्य हस्तादिसंबन्धो नात्मन: पुन: ॥ क्केभश्वकोशराष्ट्राद्यैरसङ्गस्य चिदात्मन: ॥२३॥तस्मान्नारिर्न मे मित्रं सुखं दु:खं पुरं बलम् ॥पुरोत्पन्नोsपि मोहोsयं नष्टो भग्वदनुग्रहात् ॥२४॥यथैकमपि खं भाति बहुधोपाधिभेदत: ॥तथाहं काशिपो भ्राता न भेद: पारमार्थिक: ॥२५॥असम्यग्दर्शनाद्दु:खं मतंमे स्वप्नसंनिभम् ॥निर्ममो निरहंकरस्तन्नेक्षेsद्य सुखाब्धिग: ॥२६॥यथौतुभक्षिते दु:खं शुकादौ ममतावृते ॥न तथा ममताहीने वृकादौ तद्वदत्र तु ॥२७॥न दु:खी न सुखी सोsहं निर्मम: प्रकृते: पर: ॥यो भूताभिभवो भूतै: सुखदु:खात्मक: स च ॥२८॥श्रीदत्त: प्राह भूपेन्द्र सम्यग्व्यवसितं त्वया ॥दु:खमूलं ममेत्यस्य निवृत्तिर्न ममेति च ॥२९॥ब्रह्मनिष्ठोस्थ मे प्रश्नात्स्वानुभूत्या निराकृता ॥ममता शाल्मलीतूल इव वातेन तेsधुना ॥३०॥अज्ञानबीजोsहंकारङ्कुरोsयं ममतालत: ॥गृहक्षेत्रविशाखो द्रुर्दारपुत्राप्तपल्लव: ॥३१॥पुण्यापुण्यप्रसूनश्च सुखदु:खफलोsनव: ॥महान्मोक्षपथव्यापी मूढसत्सङ्गिसेवित: ॥३२॥विधित्साभ्रमरव्याप्ता: श्रान्ता भ्रान्त्येह संश्रिता:सौख्यं क्कात्यन्विकं तेषां वृक्षेsस्मिन्मायिकोपमे ॥३३॥छिन्नोsसङ्गासिना यैयैंर्लब्धामार्गास्ततश्च ते ॥गत्वा परं पदं शान्तं विश्राम्यन्ति न चेतर ॥३४॥राज्यं भूतेन्द्रियग्रामो जगदेतच्चराचरम् ॥गुणात्मकोsयं संघात: क्षेत्रं तज्ज्ञस्य तेन किम् ॥३५॥मशकोदुम्बरेषीकामुञ्जाब्जापां यथा तथा ॥क्षेत्रात्मन: पृथग्भावो विज्ञात: सोsधुना त्वया ॥३६॥अलर्क: प्राह भगवत्प्रसादाज्ज्ञातवाविदम् ॥अहंकारत्मपार्थक्यं दुर्ज्ञेयं कल्पकोटिभि: ॥३७॥देवदेव जगन्नाथ दयाब्धे भगवन्प्रभो ॥वासनाक्रान्ताचित्तवात्कथं तिष्ठेदिदं मयि ॥३८॥भूयो न भूयां येनेश निर्गुणत्वमियां कथम् ॥तं योगं ब्रूहि चैकत्वं व्रजेयं ब्रह्मणा यत: ॥३९॥इदमेव परं कार्यं नरेण हितमिच्छता ॥कान्तापावृतमुक्तिद्वार्नृजन्मच्युतिरन्यथा ॥४०॥संपृष्ट इत्यलर्केण भगवानत्रिनन्दन: ॥तस्मै सत्कृत्य योगीन्द्रो गुह्यं योगमुपादिशत् ॥४१॥श्रृणुष्वावहितोsलर्क मुक्तये कारणं त्रयम् ॥तत्त्वज्ञानं मनोभङ्गो वासनाक्षय इत्यद: ॥४२॥हृच्छुद्धिं प्राप्य सत्कृत्यै: सर्वं संन्यस्य सद्गुरो: ॥तत्त्वज्ञानमवाप्याथ जह्याद्योगेन तद्द्वयम् ॥४३॥अन्वयव्यतिरेकाभ्यां देहेsधीशं चिदन्वयात् ॥ज्ञात्वाsभ्यसेदमुं योगं यतो मुक्तिर्ध्रुवाsचिरात् ॥४४॥सा मुक्तिर्ब्रह्मणा योगो वियोग: प्राकृतैर्गुणै: ॥सङ्गत्यागात्स तु प्राप्य: स वैराग्येण नान्यथा ॥४५॥ज्ञानादेव च वैराग्यं तज्ज्ञानं च विवेकत: ॥विवेक: सदसद्वस्तुविचारात्सोsत्र कथ्यते ॥४६॥देहेन्द्रियमन:प्राणाहंकारा भौतिका अमी ॥साद्यन्ता: सविकाराश्च न सन्तस्तेsन्विता अपि ॥४७॥अन्योन्याध्यासतोsग्न्यक्तलोहवच्चित्त्वमस्य च ॥जडत्वं चात्मनो मोहात्साक्षिण: केवलस्य च ॥४८॥देहाद्यध्यासतोsहंता तत: कर्मास्य बन्धकम् ॥कर्मणैवावशं शश्वद्भ्रमणं यन्त्रवन्नृणाम् ॥४९॥तस्माज्ज्ञात्वा विवेकेन स्वात्मानं सुविरक्त इत् ॥स्वस्थो भवत्यसावेव विमुक्तो मुच्यतेsचिरात् ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टके चतुर्थोsध्याय: ॥४॥॥ इति श्रीदत्त० पञ्चमाष्टके चतुर्थोsध्याय: ॥५।४॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP