तृतीयाष्टक - अष्टमोsध्यय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ इदमुत्यत्पुरुतमं ज्योतिरानन्दमात्मवान् ॥
ज्ञात्वाप्यस्थिरबोधोsङ्ग द्वैताद्बिभेति तच्छृणु ॥१॥
प्रतिष्ठाने द्विज: कश्चिज्ज्ञानविज्ञानतत्पर: ॥
पूर्वाभ्यासाज्जन्मनैव मुक्तोप्यासीत्पिशाचवत् ॥२॥
लोकसङ्गाद्भृशं भीतो विषयेभ्यो विषादवान् ॥
मानभीत्यापि सर्वज्ञो दुश्चेष्टा व्यकृणोद्धिया ॥३॥
जन्मनैव ग्रहग्रस्तं मत्वा तं पितरौ बुधम् ॥
चक्रतु: पुत्रवात्सल्यात्प्रतीकारं प्रयत्नत: ॥४॥
व्रतोपासननियमजपशान्तिसुरार्चनै: ॥
रक्षाबन्ध्नसत्तीर्थयात्रादानौषधादिभि: ॥५॥
प्रकृतिं न ययौ जाता: प्रयत्ना निष्फलास्तयो: ॥
मलं मूत्रं तथा भक्ष्यं पानमन्नं न वेद स: ॥६॥
मलोत्सर्गादि कुरुते तिष्ठन्वापि स्वपन्नपि ॥
अनर्थं किमपि ब्रूते न वेत्ति च हिताहितम् ॥७॥
उपनीतोsष्टमेsब्देsपि सावित्रीं न जजाप स: ॥
न चक्रे शिक्षितोsत्युच्चै: स संध्यावन्दनादिकम् ॥८॥
विष्णुदत्तस्य माहात्म्यं श्रुत्वा तं पितरौ गृहम् ॥
नीत्वा तस्योचतु: खिन्नौ भो ब्रह्मन्पाहि न: पित: ॥९॥
एक एव सुतो जातो जडो जन्मत आवयो: ॥
ग्रहग्रस्तोsथवोन्मत्तो ज्ञात्वा नौ देहि जीवनम् ॥१०॥
पुत्रं कृतार्थं ज्ञात्वा तत्पितरौ प्राह स द्विज: ॥
विश्राम्यतां गृहे भुक्त्वा पुत्रो वामत्र तिष्ठतु ॥११॥
इत्युक्तौ तौ गतौ भुक्तुं विष्णुदत्तोsवदत्स तम् ॥
कस्त्वं कस्य किमायात: किं ते कार्यं करोषि किम् ॥१२॥
गम्यतां स्वपितुर्गेहे भुज्यतां सुखमुत्तमम् ॥
मया ते किं विधातव्यं त्यज चेष्टां वदाधुना ॥१३॥
इत्युक्त: प्राह संबन्धो निजबोधात्मन: क्क मे ॥
किं करोमि क्क यास्यामि किं गृह्णामि त्यजामि किम् ॥१४॥
ततं कल्पाम्बुनेवेदमात्मना सच्चिदात्मना ॥
अन्नदोsहमहं चान्नं किं मे भोग्यं सुखात्मन: ॥१५॥
तच्छ्रुत्वा तं समालिङ्ग्य दत्तभक्तोsवदन्मुदा ॥
तर्ह्याचारेण विद्वंस्ते कोsत्र दोषो भविष्यति ॥१६॥
जागृतिस्तिसृषु स्वप्नस्तुर्या भूर्ब्रह्मवित्त्विह ॥
परा निद्रेह ब्रह्मज्ञवरो गाढसुषुप्तिका ॥१७॥
षष्ठीहान्यत उत्तिष्ठेद्वरीयान्सोsपि कर्मकृत् ॥
तुर्यान्त्यात्र वरिष्ठो ज्ञोsक्रियस्तादृग्भवान्न हि ॥१८॥
जीवन्मुक्त: सुखं तिष्ठ शिक्षयान्यान्क्रिया: कुरु ॥
बन्धो देहाभिमानोsत्र तत्त्यागो मुक्तिरुच्यते ॥१९॥
अहं ममेति संबन्ध: कुत: स्वात्मदृशो भवेत् ॥
मानावमानजो दोषो निरहंकृतित: कुत: ॥२०॥
मानाद्यभावे विषयवासनाविक्रिया कुत: ॥
समाहितमनास्तस्मान्मुक्तोsयं निरहंकृति: ॥२१॥
एवं सन्नपि नो मूढो बध्यते किं पुनर्भवान् ॥
मनोsर्थसङ्गि बन्धाय निरथं मुक्तये च तत् ॥२२॥
गृहकृत्यरतापि स्त्री परव्यसनिनी यथा ॥
तदेवास्वादतत्यन्त: परसङ्गसायनम् ॥२३॥
तथा ब्रह्मणि विश्रान्त: समाहितमना: सुधी: ॥
तदेवास्वादत्यन्तर्बहिर्व्यवहरन्नपि ॥२४॥
दिवस्पृष्ठेsङ्ग मोक्षो न पातालेsपि न भूतले ॥
अहंकृतेर्विर्मोहस्य क्षयो मोक्षो न चापर: ॥२५॥
सुकरोsहंकृतेस्त्याग: पुष्पावदलनादपि ॥
दृड्मीलनादपि प्राज्ञ न क्लेशोsत्र मनागपि ॥२६॥
स्फूर्तिभ्रान्तिगतिव्याप्तिसंहृतिस्वान्यतामुखा: ॥
ज्ञात्वा चलनश्चेष्टास्तत्परस्त्वं सुखी भव ॥२७॥
निर्बन्धं न करोमि ज्ञ कंचित्कालं तथा वस ॥
पित्रो: प्रेम समालोच्य बन्धस्तेन न ते स्वदृक् ॥२८॥
इत्युक्त: स तथेत्युक्त्वा भुक्त्वा तद्धाम्नि सङ्ग्जम् ॥
भयं साध्व्यन्नमाहात्म्याज्जहौ चेष्टाश्च कल्पिता: ॥२९॥
पितरौ प्रेक्ष्य तं शान्तं विप्रं नत्वोचतु: प्रभो ॥
को मन्त्रो भेषजं वास्य कल्पितं शीघ्रमुक्तिदम् ॥३०॥
दत्तं नौ जीवनं ब्रह्मन्नित्युक्त्वा तौ गतौ गृहम् ॥
तदादिष्टोsप्यभी: पुत्रस्तस्थौ धाम्न्यात्मसंगत: ॥३१॥
तदेकं शास्त्रतात्पर्यमज्ञस्यानुपदं भयम् ॥
भयमात्रावशेषो हि विज्ञानामृतसागर: ॥३२॥
बुद्धोsपि सङ्गभीमात्रावृतो विप्रसुतो यथा ॥
तथा सर्वोsपि लोकोsयं मोहमात्रावृतो मृषा ॥३३॥
स्वात्मानमनुभूयापि सर्वदा चिद्धनं परम् ॥
कर्ता विकर्ता दाताहं भोक्ता च सुखदु:खयो: ॥३४॥
कोsहं केsमी कुतो मोह: क्क सुखं चेति चिन्तयन् ॥
भ्रान्त्यैव नित्यमुक्तोsपि बहिर्धावति मुह्यति ॥३५॥
नासाभूषां यथा कण्ठे धृत्वा विस्मृत्य सा मम ॥
नष्टेति शोचत्यज्ञा स्त्री तथात्मार्थमयं जन: ॥३६॥
तदर्थं सर्वशास्त्राणि बोधयन्ति प्रकारत: ॥
मोहमात्रनिरासे हि पर्यवस्यन्त्यनुक्रमात् ॥३७॥
महान्त्यल्पानि शास्त्राणि नाणुमात्रभ्रमाय हि ॥
स्वबुध्द्येदं विचार्येन्द्र वदेदं साध्वसाधु वा ॥३८॥
इत्युक्तो गुरुणाहेन्द्रो नत्वा साधूदितं गुरो ॥
क्षमस्वातिक्रमं मेsद्य शास्त्रतत्त्वमवेदि सत् ॥३९॥
श्रीदत्त: प्राह राजेन्द्र संवादोsयं मयोदित: ॥
शास्त्रैर्विप्रतिपत्ति: क्क सर्वाण्येकपराणि हि ॥४०॥
मनोजवा गतिर्व्योम्नि विविधा योगसिद्धय: ॥
तत्सर्वं नश्वरं विद्धि मोक्षमेकं सनातनम् ॥४१॥
सोsप्यात्मन्युपचारोsयं बन्ध: क्कास्योत मोक्षणम् ॥
अज्ञानजनबोधाय व्यवस्थेयं प्रकल्पिता ॥४२॥
सत्यं ज्ञानमनन्तं यद्ब्रह्माचिन्त्यमरूपकम् ॥
भ्रमेण कल्पितं नामरूपेsत्र सदसत्परे ॥४३॥
मोहमात्रो भ्रमोsनादिस्तन्नाशायात्र वस्तुनि ॥
विकल्पितत्वलक्ष्यत्वसंबन्धाद्यास्तु कल्पिता: ॥४४॥
जीवईशश्च तद्भेदोsविद्याचित्तद्युतिस्त्वियम् ॥
षडस्माकमनादीयं मृषा जीवेशकल्पना ॥४५॥
रौप्यं शुक्ताविव स्थाणाविव तस्कर आत्मनि ॥
नाविद्यात: कुतो भेद: केन योग: परात्मन: ॥४६॥
मिथ्याभ्रमोsप्यनर्थाय यतो भेदो विमोहद: ॥
योगादिस्तद्विनाशाय नैवायं वस्तुसिद्धये ॥४७॥
वस्तु सत्स्वप्रकाशं नो न क्काप्यन्यदपेक्षते ॥
भ्रममात्रान्तरे त्वत्र विकल्प नैव वस्तुनि ॥४८॥
द्वैतं नास्त्यत्र नासीत्प्राङ् न भविष्यत्यनर्थकम् ॥
अपि भातं मृषैवेन्द्रजालवत्तन्मनोमयम् ॥४९॥
भ्रम एव जगत्सर्वं भ्रम एवास्य संसृति: ॥
भ्रमे सति प्रणष्टेsस्मिन्नेक: स्वात्मैव शिष्यते ॥५०॥
तस्माद्भ्रमं निराकृत्य ज्ञानयोगपरो नर: ॥
इहैव भजति स्वस्थ: परमानन्द आप्लुत: ॥५१॥
इति श्रुत्वा गुरोर्वाक्यमर्जुनो नष्टसंशय: ॥
स्थैर्याय प्राप्तबोधस्य पर्यपृच्छत्त्र्यधीश्वरम् ॥५२॥
इति श्रीमद्दत्तारेयपुराणे सा० त्रि० सं० वासु० उपासनाकाण्डे तृतीयाष्टकेsष्टमोध्याय: समाप्त: ॥३।८॥
॥ इति उपासनाकाण्डे तृतीयाष्टक: संपूर्ण: ॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP