संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| तृतीयाष्टक उपासनाकाण्डं| पञ्चमोsध्याय: तृतीयाष्टक उपासनाकाण्डं प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्यय: तृतीयाष्टक - पञ्चमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ शिल्पकामशस्त्रयोर्गतिर्नाम तृतीयाष्टके पञ्चमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ वैश्वानरसमो राजा प्रतापेनापि दुर्धर: ॥यं यं प्राप्तमुपादत्ते श्रीदत्तात्रेयसंनिधौ ॥१॥नमस्कृत्य पुनर्याति कदाचिन्निवसत्यपि ॥कदाचिद्धर्मशास्त्राणि श्रृणोत्येवं प्रियोsभवत् ॥२॥एवं सन्नेकदा राजा निर्विण्णो मनसा भृशम् ॥तत्त्वजिज्ञासया देवमुपतस्थे कृताञ्जलि: ॥३॥देवोsपि तत्परीक्षार्थं समाधिस्थ इवाबभौ ॥युक्तं चैतद्रुरूणां हि शिष्यधीदार्ढ्यहेतवे ॥४॥कर्मणा मनसा वाचा सर्वभावार्पणेन च ॥सेवमानो हृषीकेशं स्थितो राजातिभक्तित: ॥५॥त्यक्तोदमपि तं खिन्नं स्तुवन्तमपि सूक्तिभि: ॥प्रणमन्तमभीक्ष्णं नो धियाप्याश्वासयत्प्रभु: ॥६॥यत्रास्तेsचिजागद्भ्रान्ति: स्वप्नाभाव्यसती सति ॥अलातचक्रवल्लोला मायिका यत उत्थिता ॥७॥तां विद्वान् ज्ञानखङ्गेन यतात्मा सन्महाव्रत: ॥छित्त्वा सदुक्तितीक्ष्णेन क्षिप्रं संयाति यत्पदम् ॥८॥तं त्वां त्र्यधीशं गोविन्दं मुमुक्षु: प्रणतोsस्म्यहम् ॥नित्यमुक्तेश सर्वज्ञ बद्धं मां शिव पाह्यज ॥९॥ओतं प्रोतमिदं यस्मिन्वसने तन्तवो यथा ॥प्रपद्ये सच्चिदानन्दं तं त्वां नारायणं परम् ॥१०॥बिलाविष्टं कुसौख्योरुतर्षं मां कृपयोद्धर ॥कालाहिदष्टभवशं स्मृत्यैवाश्वेहि भो हरे ॥११॥कस्तेsर्हतीह तं ज्ञातुं वाङ्मनोsगोचरं परम् ॥ब्रह्माद्या मोहिता यत्र तत्राहं दुर्मति: कियान् ॥१२॥तापतप्तं भवाटाव्यामनन्यं मरणोन्मुखम् ॥दृष्ट्वा मां दीनमेहि त्वमन्वर्थत्वं दयाघन ॥१३॥मुमुक्षोस्तेsवतारोsयं ज्ञानविज्ञानयोगद: ॥उद्धरकोस्त्यतोsधीश सर्वात्मन्पाहि माsधुना ॥१४॥स्त्रीपुत्रार्थसुहृद्राज्यभोगा मायामया हि तै: ॥स्वरूपाच्छादकै: किं मे सर्वत्रोद्वेगदै: सदा ॥१५॥भवचक्रं विनात्युग्रं न बिभेमि रिपोर्यमात् ॥तीक्ष्णदण्डादपि पवेर्भूतभौतिकतोsप्यज ॥१६॥देहि तच्चक्रभङ्गाय निवासं त्वत्पदाम्बुजे ॥येनानन्दाश्रुसान्द्रोsहं यास्यामि विभव: शमम् ॥१७॥उचितोsर्थप्रसङ्गोsयं त्वत्पादविमुखेsनल: ॥त्वत्पादभक्ते सारज्ञे स कथं सुखयत्यसन् ॥१८॥नात्रामुत्रापि भोगेच्छा प्रसादात्ते ममाधुना ॥वासनारूढदुर्योगवियोगं योगमादिश ॥१९॥धन्योsत्रिरनसूयपि यत्प्रसादाद्भवत्पदम् ॥अभवं वेदमृग्यं तज्जातं सुलभमत्र तु ॥२०॥नमस्ते वासुदेवाद्य पुराणपुरुषोत्तम ॥विश्वाध्यक्ष हृषीकेश भक्ताधिव्याधिमर्दन ॥२१॥एवं स्तुत्वाsभवत्तूष्णीं सिद्धा अत्रान्तरेsमिता: ॥ब्राह्मे मुहूर्त एत्येशं नत्वा जग्मुर्विमानगा: ॥२२॥सगन्धर्वाप्सरोदेवास्तदैवैत्य प्रणभ्य तम् ॥परिक्रम्य ययुर्विप्रा मुनयोsपि तथामिता: ॥२३॥समृज्जल: शान्ततपा उषस्यापित्थित: प्रभु: ॥राक्षस्याशां ययौ मौनी विमल: पुनरागत: ॥२४॥समृज्जलसमित्तावत्प्राप्तोsन्यो मुनिरीश्वर: ॥कृतशौचोsम्भसि स्नात्वा देवर्ष्यादीनतर्पयत् ॥२५॥सवल्कभस्मदर्भोsन्यस्तावत्प्राप्तो यथाविधि ॥कृत्वाह्निकं विभुस्तस्थौ ध्याननिश्चलदृष्टिवत् ॥२६॥स्थित: खिन्नोsभवद्राजा तत: शान्ततपा जगौ ॥भक्तोsयं धार्मिक: खिन्नो राजोपेक्षास्य नोचिता ॥२७॥प्रहस्याह प्रभु: समाट् समृद्ध: खिद्यसे कृत: ॥कां भूतिमिच्छस्याप्राप्तां किं मद्भक्तस्य दुर्लभम् ॥२८॥साश्रुनेत्रोsवदत्सम्राडनयालं परीक्षया ॥प्रशंसन्तीह योग्याय योग्यं दानं मनीषिण: ॥२९॥तृषितेsम्भोsन्नं क्षुधिते दानं दीनेsवनं तथा ॥आर्ते योग्यं तथा ज्ञानं मुमुक्षौ वेत्सि सर्ववित् ॥३०॥वाड्मनोsगोचरं शुद्धं ब्रह्मैकं सदसत्परम् ॥वेदान्ती प्राह दृश्यं च मायिकं रज्जुसर्पवत् ॥३१॥प्राहान्योsनादि तत्सत्यं मिथ्या चेद्दृश्यते कथम् ॥उत्तमत्वादिकं त्वस्य कर्मणैवापरेsब्रुवन् ॥३२॥नानात्मत्वं जगुश्चान्ये प्रधानं कारणं परम् ॥निमित्तं द्वन्द्वजं चान्ये क्षणिकत्वं परेsस्य च ॥३३॥युक्त्या स्वपक्षदार्ढ्यार्थं वेदादीन्योजयन्त्यपि ॥युक्तं किमत्र भववन्भ्रमशान्त्या उपादिश ॥३४॥मच्छासनं त्वत्प्रसादात्सर्वत्राव्याहतं द्विष: ॥भृत्या मे वासना कापि न मे मोक्षादृतेsधुना ॥३५॥यया कयापि युक्त्या मामुत्तारय भवाम्बुधे: ॥ब्रह्मादीनामपि ब्रह्मन् त्वमेवास्यपरो गुरु: ॥३६॥भगवान्प्राह शास्त्राणामेकं तात्पर्यमीरितम् ॥बृहस्पतीन्द्रसंवादं श्रृणु संशयभेदकम् ॥३७॥लौकायतस्मारशिल्पसौगतादिश्रुतान्यपि ॥पाठयन्तं स्वशिष्येभ्यो गुरुं नत्वा वृषाsवदत् ॥३८॥जात्यैव प्राणिनां प्राप्ता रागतो विषयात्मता ॥एतैरर्थात्मकै: शास्त्रै: किं विधेयं विपश्चिता ॥३९॥विषयाक्रान्तचित्तानां किं तत्तत्त्वबहिर्मुखै: ॥किं विद्वान् लभतेsत्राज्ञं कूपेsन्धमिव पातयन् ॥४०॥गुरु: प्राह क्रमदेतैश्चित्तशुद्धिर्भविष्यति ॥सप्तोदाहरणान्यत्र संशयान्तानि मे श्रृणु ॥४१॥कापिल्ये शिल्पवित्कश्चिद्विधिज्ञाख्य: पुरेsभवत् ॥गृहान्त्स निर्ममे कान्तांश्छिल्पशास्त्रोक्तवद्बहून् ॥४२॥गृहकर्मणि तं सर्वे मान्यं वाञ्छति वेतनम् ॥भूरि प्रायोपजीवन्ति तमेवान्ये स सत्यवाक् ॥४३॥मृतस्ततोsगात्स्वर्गं स भोगान्भुक्त्वाभवन्नृप: ॥यज्वा स भूतले देवगृहवापीतडागकृत् ॥४४॥धार्मिक: स मृत: स्वर्गे भोगान्भुक्त्वा द्विजोsभवत् ॥वेदशास्त्रार्थतत्त्वज्ञो ध्याननिष्ठो महाव्रत: ॥४५॥चतुर्थाश्रममासाद्य जीवन्मुक्तश्चचार गाम् ॥शास्त्रं धीशुद्धिकृद्यस्माच्छिल्पज्ञोsगात्क्रमाद्गतिम् ॥४६॥माहिष्मत्यां द्विज: कश्चिद्गीतवादित्रवित्कवि: ॥सुन्दर: कामशास्त्रज्ञो भार्यार्थं क्ष्मां चचार स: ॥४७॥तद्धार्दज्ञो नृप: कश्चित्तस्मै कन्यां व्यदर्शयत् ॥शास्त्त्रोक्तसर्वलक्ष्माढ्यां दृष्ट्वोच्चैर्मूर्च्छितोsभवत् ॥४८॥सापि तं चकमे कान्तं हृष्टो राजा स तां ददौ ॥राज्यार्धमपि तस्मै स द्विजो रेमे तया सह ॥४९॥सुखं यदात्मनो रूपं सर्वेहोपरतौ स्फुटम् ॥वाङ्मनोsगोचरं नित्यं श्रेष्ठमात्यन्तिकं परम् ॥५०॥मनुष्यानन्दमारभ्य ब्रह्मानन्दान्तमेव यत् ॥दशोत्तरगुणं तत्तु ब्रह्मानन्दांशतो गतम् ॥५१॥वृत्त्यारूढं च तत्पूर्णं भाव्यते रतिकर्मणा ॥विधिज्ञेन न मूर्खेण तत्सौख्यं सोsलभत्सदा ॥५२॥पत्नी नान्यं हृदाप्यैच्छत्तस्याभूद्धृद्धरा सती ॥रेमे तयैव गीतज्ञो विप्रश्चित्तानुरूपया ॥५३॥चक्रे वित्तानुसारेण नित्यनैमित्तिका: क्रिया: ॥यथारुचि यथाकालं दिव्यार्थान्बुभुजे स च ॥५४॥न श्रुतं नानुभूतं च ताभ्यामंहोsल्पमप्यकम् ॥दैवात्प्रेत्य स सस्त्रीको गन्धर्वेशोsभवत्सुधी: ॥५५॥तत्रैव नादवित्सोsपि चार्व्या पत्न्या सदाsरमत् ॥तन्व्या सर्वकालभिज्ञो विधिना रमयन्सुरान् ॥५६॥हिमाचलवने रम्ये कदाचिच्छिवया शिव: ॥उच्चैर्गायन्तमाकर्ण्य सुस्वरं तमवाप स: ॥५७॥नत्वेशं सह पत्न्या स नादज्ञो मञ्जुलश्वर: ॥गीतैरतोषयत्प्राह मौलिमान्दोलयञ्छिव: ॥५८॥सुशिक्ष्योsस्यद्ययावन्मे श्रुतं नेदृङ्मनोरमम् ॥धन्योसि त्वं दिवं याहि भुंक्ष्व भोगान्सुदुर्लभान् ॥५९॥ततो लब्धवरो गत्वा विमानेन दिवं स तु ॥त्वदादीन्रमयामास सुगीतैर्भार्यया सह ॥६०॥कदाचिद्ब्रह्मलोकेsभून्महोत्साहोsखिला: सुरा: ॥संप्राप्तास्तत्र सदसि गन्धर्वाप्सरसो जगु: ॥६१॥ततानद्धघनच्छिद्रवाद्यै: सह सुमञ्जुलम् ॥तत्र सर्वेषु गायत्सु ब्रह्मैकाग्रमना अभूत् ॥६२॥ब्रह्माssहैषां तु सर्वेषां कोsयं गायति सुस्वरम् ॥तदा त्वयेन्द्र स स्रष्ट्रे दर्शितो नेत्रसंज्ञया ॥६३॥तदा निवारयामास क: सर्वान्हस्तसंज्ञया ॥सस्त्रीक: स ततो गायन्नानारागं च सुस्वरम् ॥६४॥श्रुत्वा गीतं तदानन्दं ज्ञात्वोवाच विधिस्तदा ॥नादब्रह्मात्मतत्त्वं तत्सम्यक् प्राप्तमनेन हि ॥६५॥विलक्षणोsस्य चानन्दो रमयत्यपरानपि ॥ब्रह्मलोकनिवासोsस्य युक्तो भार्यान्वितस्य हि ॥६६॥इत्युक्त्वा कृपया तस्मै यद्ब्रह्म श्रुत्यगोचरम् ॥मुदा प्रदर्श्य सस्त्रीकं तं स्वाग्रेsस्थापयद्विधि: ॥६७॥एवं स कामशास्त्रज्ञो भोगान्भुक्त्वाsखिलान्क्रमात् ॥सस्त्रीकोsगात्परानन्दं शास्त्रं शुद्धिकरं न किम् ॥६८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके पञ्चमोsध्याय: ॥५॥॥ इति श्रीदत्तपुराणे तृतीयाष्टके पञ्चमोsध्याय: ॥३।५॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP