द्वितीयाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


सुषुम्णाज्ञो नर: स्त्री वा युवा बालो जरन्नपि ॥
योगाभ्यासेsधिकारी स्यादभ्यासात्सिद्धिभागपि ॥१॥
सर्वेsप्याश्रमिणो वर्णा योगाभ्यासेsधिकारिण: ॥
भिक्षुर्विशेषान्नियतं ब्रह्मचर्यादि तस्य यत् ॥२॥
यतेर्यस्योदरे भिक्षोर्योगाभ्यासेन जीर्यते ॥
गृहिणा दत्तमन्नं स तं तारयति नेतर: ॥३॥
योगी यस्य गृहे भिक्षुर्याति धन्यस्तदाश्रम: ॥
स भिक्षुर्यद्भृहे भुंक्ते तत्र भुंक्ते हरि: स्वयम् ॥४॥
यत: पराड्मुखो भिक्षुस्ततो देवा: पराड्मुखा: ॥
तस्माद्देयं किमप्यस्मै देवर्षिपितृतृप्तिदम् ॥५॥
यतयेsन्नं ग्राप्तमात्रमाद्यन्तजलदानयुक् ॥
दत्तं चेन्मेरुजलधितुल्यं तदिति हि स्मृतम् ॥६॥
वासोsन्नं च मितं देयं यतये सोsधिकं यदि ॥
आदत्ते स्तेन एवं स्यात्पापोsन्नरसलोलुप: ॥७॥
धूर्त: शठो यतिर्भोगी शौचं ध्यानं विहाय य: ॥
व्रात्यवद्वर्तते सोsज्ञो दु:खभागुभयत्र हि ॥८॥
संन्यासित्वं लोके सुदुर्लभं प्राप्य तद्योsत्र ॥
तस्मात्प्रच्यवते चेद्याति चिरं दुर्गतिं स चान्यत्र ॥९॥
विशेषाद्यतिना तस्माद्योगाभ्यासेन चात्मन: ॥
प्राकसिद्धरूपमप्तव्यमध:पातोsन्यथाsस्य हि ॥१०॥
सत्योsद्वैतोsपि जीवोsयमात्मांशोsजोप्यविक्रिय: ॥
अप्रमेयोsव्ययोsच्छेद्योsदाह्योsक्लेद्यो ह्यशोषक: ॥११॥
स्वात्मावबोध: स्वारामो ध्रुवोsसंगोsपि केवल: ॥
मलिनोsभूदविद्यांशैर्मलच्छन्नसुवर्णवत् ॥१२॥
योगोज्ज्वलितविद्वह्नौ दग्ध्वाssत्मानं स पूर्ववत् ॥
स्वरूपं शुद्धमाप्नोति हेमाग्नाविव लोहवत् ॥१३॥
आत्मास्मीत्युपगन्तवुं न प्रतीकं यतो न स: ॥
कार्योत्कर्षादात्मदृष्टि: प्रतीकेsङ्गे तु तन्मति: ॥१४॥
इत्यात्माधिगमाभ्यासात्सर्वकर्म विदो बुध: ॥
आदेहपातमारब्धभोग एवाधिकारिण: ॥१५॥
चित्ते गोवृत्तिविलयस्तस्य प्राणेsस्य चात्मनि ॥
विद्याप्रकाशितहृदा स यात्याद्यं सुषुम्णया ॥१६॥
न शुक्लगत्यपेक्षाsस्य विदो रश्म्यनुसारिण: ॥
नेदं लभ्यं संसरतोsज्ञस्य कर्मानुयायिन: ॥१७॥
कृतिनो यान्त्यार्चिराद्यैरस्वतन्त्रा: परे त्वध: ॥
तद्भ्रमो मायिके पादे दत्तलोके विदो गति: ॥१८॥
पूर्वसिद्धं चिदान - दैकरसं भूम निष्कलम् ॥
स्वरूपं ज्ञानयोगेन गतो नावर्तते पुन: ॥१९॥
सत्यवैकुण्ठकैलासलोकानामप्युपर्ययम् ॥
दत्तात्रेयाख्यालोकोsस्ति प्रसिद्धोsमृतसंज्ञित: ॥२०॥
न यत्र शुग्जरा मृत्यु: क्रियाभोगोपि यत्र नो ॥
मोहोsवस्था न च द्वैतमगम्योsयं सुरैरपि ॥२१॥
अध्यात्मयोगमार्गेण लभ्योयं ब्राह्मणेन हि ॥
श्रुत्यामृतं दिवीत्युक्तो दत्तलोकोsयमेव स: ॥२२॥
तल्लोकप्राप्तयेsथर्वा कृपया दीनवत्सल: ॥
शाण्डिल्याय जगौ ज्ञानं पूर्वोक्तं सुगमं स्फुटम् ॥२३॥
पुन: पप्रच्छ शाण्डिल्यो भगवन्नक्षरं त्विदम् ॥
अविक्रियं परं ब्रह्म सन्मात्रं निष्कलं शिवम् ॥२४॥
जायतेsस्मात्कथमिदं रक्ष्यते लीयते च तत् ॥
सोब्रवीच्छृणु शाण्डिल्यारूपस्य ब्रह्मणोsस्य तु ॥२५॥
निष्कलं सकलं मिश्रं त्रीणि रूपाण्युपाधित: ॥
अखण्डं सच्चिदानन्दं निष्कलं यन्निरञ्जनम् ॥२६॥
शिवं सूक्ष्मं सर्वगतमनन्तं विश्वतोमुखम् ॥
अनिर्देश्यं निष्कलाख्यं रूपमस्योत्तमोत्तमम् ॥२७॥
त्रिगुणा मूलप्रकृतिर्मायाविद्येति चोच्यते ॥
शक्ति: सहोत्था तद्युक्तो देवोsसौ कृष्णपिङ्गल: ॥२८॥
महेश्वरो य ईष्टे तन्मिश्ररूपं प्रकीर्तितम् ॥
स तु ज्ञानेन तपसा तप्यमानो ह्यकामयत् ॥२९॥
बहु स्यां च प्रजायेयमित्यस्मात्तपसोsभवत् ॥
ॐकारोsस्य तिस्रो मात्रा ऋषिछन्दांसि देवता: ॥३०॥
बीजानि शक्तयो वर्णावस्थास्थानानि च स्वरा: ॥
गुणाग्निवेदसवनतत्त्वात्मानस्त्रयस्त्रय: ॥३१॥
तदाढ्योsयं जगद्बीजं यत्परापरसंज्ञकम् ॥
तद्वाचकोसौ भगवान्मायावी व्यापक: पर: ॥३२॥
सर्वभूतहृदाविष्टो मायया क्रीडतीह स: ॥
सृजत्यवति हन्तीश: स ब्रह्मा स हरि: शिव: ॥३३॥
देवा इन्द्रादयो भावा: सर्वभूतानि पञ्च च ॥
स्थूलान्यपि च सूक्ष्माणि भौतिकानि स एव हि ॥३४॥
तत्त्वानि जन्तव: सर्वे पुरस्तादच्युत: स च ॥
पश्चाद्दक्षिणतश्चापि स एवोत्तरतो विभु: ॥३५॥
उपरिष्टादधस्ताच्च स एव किल सर्वत: ॥
भूतं भव्यं भवच्चापि स एवेदं न चेतरत् ॥३६॥
देवस्यास्यात्मक्रीडस्य विभोर्भक्तानुकंपिन: ॥
दत्तात्रेयाभिधा मूर्ति: सुरूपा या दिगंबरा ॥३७॥
इन्दीवरदलप्रख्या चतुर्बाहुरघापहा ॥
सैषाsस्य सकलं रूपमासेचनकगात्रयुक् ॥३८॥
शाण्डिल्य: प्राह भगवन्सन्मात्रमिदमुत्तमम् ॥
परं ब्रह्मात्मा महेशो दत्तात्रेय इति प्रभो ॥३९॥
कस्मादुच्यत आख्याहि कृपया दीनवत्सल ॥
अथर्वोवाच सोम्येदं बृहत्सर्वं चराचरम् ॥४०॥
बृंहयत्युत्तमं तस्मात्परं ब्रह्मति गीयते ॥
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ॥४१॥
यच्चास्य संततो भावस्तेनात्मेति च गीयते ॥
मह्यते चेशशब्देन शक्त्येष्टेsखिलमेव यत् ॥४२॥
सर्वाधीशोsखिलात्मा च महेश इति गीयते ॥
मयाsहं तेsत्रये दत्त इत्युक्ते: स तथोच्यते ॥४३॥
इति श्रीमद्दत्तात्रेयपुराणे सा० त्रि० सं० वा० ज्ञा० द्वितीयाष्टके द्वितीयोsध्याय: ॥२॥
इति श्रीदत्तपुराणे द्वितीयाष्टके द्वितीयोsध्याय: ॥२॥२॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP