संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| द्वितीयाष्टक| प्रथमोsध्याय: द्वितीयाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: : अष्टमोsध्याय: द्वितीयाष्टक - प्रथमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ योगविवरणं नाम द्वितीयाष्टके प्रथमोsध्याय: Translation - भाषांतर ॐ प्रवरेतरहृद्वृत्तिनिरोधो योग उच्यते ॥संप्रज्ञातेतरौ योगौ धर्मौ चित्तस्य पञ्च च ॥१॥भ्वो मूढक्षिप्तविक्षिप्तैकाग्र्यविनिरुद्धका: ॥तिस्रो बन्धाय मुक्त्यै द्वे योगिनामीशसेविनाम् ॥२॥शान्तोग्रमूढवृत्त्यूने चित्ते नित्यैकरूपिण: ॥स्वरूपेsवस्थितिर्द्रष्टुर्वृत्तिसारूप्यमन्यत: ॥३॥क्लिष्टाक्लिष्टभिदा पञ्च वृत्तयोsत्र प्रमाणका: ॥वेदानुमानप्रत्यक्षरूपाद्याथ विपर्यय: ॥४॥मिथ्याज्ञानमतद्रूपप्रतिष्ठं क्लेशयुक्तथा ॥शब्दज्ञानानुपाती तु वस्तुशून्यो विकल्पक: ॥५॥अभावप्रत्ययालम्बा निद्रा सा तु तमोमयी ॥अनुभूताsसंप्रमोष: स्मृतिस्तासां निरोधनम् ॥६॥वैराग्याभ्यासतस्तत्र विरजोवृत्तिहृत्स्थितौ ॥यमाद्यनुष्ठानरूपो यत्नोsभ्यासश्चिरं स तु ॥७॥सत्कारसेवितो नित्यं दृढ: स्याच्चापराजित: ॥सत्कारा: स्युर्ब्रह्मचर्यश्रद्धाविद्यातपोमुखा: ॥८॥यतमानं हृन्मलान्तो गतैष्यमलनिश्चय: ॥व्यतिरेको हृदि लयोत्कण्ठैकेन्द्रियसंज्ञकम् ॥९॥वशीकारो दृष्टादृष्टार्थवैतृष्यं चतुर्विधम् ॥वैराग्यमाद्यं पुंज्ञप्तेर्गुणवैतृष्यमुत्तमम् ॥१०॥स्थूलस्यैंकाग्र्यं वितर्को विचारोsल्पस्य चिन्तनम् ॥आनन्द: स्थूलाविषयी सत्त्वप्रत्यक्षविन्मते: ॥११॥पुंस्त्वैक्यादस्मितायोगात्साक्षात्तद्ध्यानजं त्विति ॥परिकक्वास्त्रिपुट्यैते संप्रज्ञातस्तदन्वयात् ॥१२॥वृत्त्यभावे विरामस्तत्प्रत्ययो विरति: परा ॥तदभ्यासादि: संस्कारविशेष: सात्त्विकोsपर: ॥१३॥अयं विदेहप्रकृतिलयानां भवहेतुक: ॥गोभूताहंकृतिमहत्प्रकृत्यात्मात्मचिन्तक: ॥१४॥मन्वन्तराणां दशकमारभ्यात्र विलीयते ॥दशोत्तरे गुणं नैति लीनो यो निर्गुणे पुन: ॥१५॥श्रद्धायत्नक्रमध्यानसमाधिप्रज्ञकादिक: ॥उपायप्रत्ययोsसंप्रज्ञातोsन्येषां तु योगिनाम् ॥१६॥मृदुमध्याध्युपायास्ते नव तत्सिद्धयेsपि च ॥आसन्नस्तीव्रविरतेस्तारतम्यात्तथान्यत: ॥१७॥ईश्वरप्रणिधानाद्वा पुंविशेष: स ईश्वर: ॥अविद्यादिक्लेशकर्मफलाशयविवर्जित: ॥१८॥सर्वज्ञबीजं नि:शेषमनवच्छिन्नसद्गूरौ ॥प्रणवस्तद्वाचकस्तज्जपस्तदर्थस्य भावनम् ॥१९॥तत: प्रत्यक्त्वचैतन्यज्ञानं विघ्नात्ययस्तत: ॥व्याधिस्त्यानभ्रान्तिदृष्टिप्रमादालस्यसंशया: ॥२०॥भूम्यलाभमनोस्थैर्ये विरतिर्योगघातका: ॥तन्मूलाश्चित्तविक्षेपदौर्मनस्यव्यथादय: ॥२१॥तन्नाश ईशभक्त्यैव सुख्यकिक्षेमिपापिषु ॥मैत्रीदयाप्रीत्युपेक्षाभावनाद्धृत्प्रसादनम् ॥२२॥प्राणरेचनधृत्या वा प्रवृत्तिर्वाsर्थवत्यापि ॥यद्यशोका वा हृत्पद्मे ज्योतिष्मत्यथवा हृदि ॥२३॥वीतरागिस्थिते निद्रास्वप्नज्ञानावलम्बिते ॥बाढं ध्यायत्यभीष्टं वा स्थूलाद्यण्वन्तवस्तु वा ॥२४॥मणिवद्ग्राह्यग्रहणग्रहीतृस्थविवृत्तिहृत् ॥या तदञुजनता प्रोक्ता समापत्तिश्चतुर्विधा ॥२५॥सवितर्कात्र शब्दार्थविद्विकल्पैर्विमिश्रिता ॥स्मृतिशुद्धौ विरूपे वार्थैकभासापरानया ॥२६॥सविचारान्या च सूक्ष्मार्थोक्तास्या: सूक्ष्मकार्थता ॥आप्रधानं तु ता एव समाधि: स्यात्सबीजक: ॥२७॥निरूहस्वास्थ्ये त्वध्यात्मप्रसादोsत्र ऋतंभरा ॥प्रज्ञा श्रुतानुमानान्यार्थशेषार्थत्वतो भृशम् ॥२८॥संस्कारस्तद्भवो ह्यन्यबाधकस्तन्निरोधने ॥सर्वप्रज्ञानिरोधाद्धि स्यान्निर्बीज: समाधिरुत् ॥२९॥क्रियातपोजपेशार्चा: सिद्धयै क्लेशहराश्च ते ॥पञ्चाविद्यास्मितारागद्वेषश्चाभिनिवेशक: ॥३०॥आद्यान्यहेतुर्विच्छिन्नसुप्तोदारकृशा: परे ॥अनित्याशुचिदु:खानात्मस्वविद्यान्यभावना ॥३२॥स्वारस्यवाही ज्ञस्यापि तथारूढस्तु पश्चिम: ॥प्रतिप्रसवहेयास्ते सूक्ष्मास्तद्वृत्तय: पुन: ॥३३॥ध्यानहेया मलसमा: क्लेशमूल: क्रियाशय: ॥स्वदृष्टादृष्टजननवेदनीयो यथायथम् ॥३४॥सति मूले तद्विपाको जात्यायुर्भोगजोsत्र स: ॥पुण्यापुण्यनिदानत्वाद्धर्षतापफल: स्मृत: ॥३५॥परिणामतापसंस्कृतिदु:खैर्गुणदोषवैराच्च ॥सर्वं विवेकिनामकमेव हि हेयं त्वनागतं दु:खम् ॥३६॥द्रष्टृदृश्योर्हेयहेतु: संयोगो दृश्यमत्र तु ॥क्रियाप्रकाशसंबन्धशीलं भूतेन्द्रियात्मकम् ॥३७॥क्रमाद्भोगापवर्गार्थं गुणपर्वचतुष्टयम् ॥विशेषसामान्यलिङ्गमात्रालिङ्गानि चेति हि ॥३८॥द्रष्टा चिन्मात्र: शूद्धोपि प्रत्ययेनानुपश्यवत् ॥दृश्यं तु द्रष्टृभोगार्थं कृतार्थस्याप्यदृश्यकम् ॥३९॥दृश्यं तदन्यसामान्यात्तत्प्रत्येकेमृतं स्वत: ॥संयोग: स्वस्वामिशक्तिस्वरूपप्राप्तिहेतुक: ॥४०॥अविद्या संयोगहेतुस्तदभावे न संयुजि: ॥ततो मुक्तदृशेर्मोक्ष उपचारोsप्यमात्मनि ॥४१॥हानोपायोsविप्लवा या विवेकख्यातिरुत्तमा ॥योगिनस्तस्य तु प्रज्ञा सप्तधा प्रान्तभूमिका ॥४२॥आविवेकाज्ज्ञानदीप्तिर्योगाङ्गैरशुचिक्षये ॥यमा अहिंसासद्ब्रह्मचर्यास्तेयापरिग्रहा: ॥४३॥ते देशकालसमयजात्यच्छिन्ना महाव्रता: ॥लोभक्रुण्मोहजास्ते तु कृतानुमतमोदिता: ॥४४॥दु:खज्ञानानन्तफला मृदुमध्याधिमात्रका: ॥नियमा: शौचसंतोषदेवभक्तितपांसि तु: ॥४५॥वितर्कभावने चिन्त्यं प्रतिपक्षविभावनम् ॥स्वाग्रेsवैरं त्वहिंसायां सत्ये सिद्धे फलागम: ॥४६॥वीर्यं वर्णित्वेsस्तेयेsर्थोगमोsन्त्ये जन्मवेदनम् ॥शौचात्स्वाङ्गजुगुप्सान्यासंसर्गस्त्वान्तराल्लघु ॥४७॥सौमनस्येन्द्रियजयहृत्स्थैर्यात्मदृगर्हता ॥संतोषाद्वरसौख्याप्तिस्तपसोङ्गाङ्गिसिद्धिरुत् ॥४८॥स्वाध्यायादिष्टदेवाप्ति: समाधिर्देवभक्तित: ॥आस्यास्थिरसुखं यत्नविरामाच्छेषचिन्तया ॥४९॥द्वन्द्वाभावस्ततोsथास्वायामो वायुगतिक्षति: ॥रेचकै: पूरकै: कुम्भैर्देशकालप्रमाणत: ॥५०॥दीर्घ: परिवृढ: सूक्ष्मस्त्रय एते चतुर्थक: ॥बाह्यान्तर्विषयाक्षेपी तत: सत्त्वावृतिक्षति: ॥५१॥ततो हृद्धारणायोग्यं चित्तवृत्तानुकारवत् ॥प्रत्याहारस्वार्थायोगे तत इन्द्रियवश्यता ॥५२॥नाभ्यादिदेशे हृत्स्थैर्यं धारणाभीष्टचिन्तया ॥प्रत्ययैकाग्रता तत्र ध्यानं ज्ञेयं तदेव तु ॥५३॥रूपशून्यमिवार्थैकभासमङ्गसमाधिक: ॥संयमस्त्रयमेकत्र प्रज्ञालोकस्तु तज्जयात् ॥५४॥विनियोगस्तस्य भूमिष्वन्तरङ्गमिदं त्रयम् ॥बहिरङ्गं त्वबीजस्य सिद्धिद: क्लेशहृत्स च ॥५५॥इति द्वितीये प्रथम: ॥इति श्रीदत्तपुराणें योगप्रकरणं नाम द्वितीयाष्टके प्रथमोsध्याय: ॥२।१॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP