संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सौंदर्यलहरी| श्लोक ८१ ते ९० सौंदर्यलहरी प्रस्तावना श्लोक १ ते १० श्लोक ११ ते २० श्लोक २१ ते ३० श्लोक ३१ ते ४० श्लोक ४१ ते ५० श्लोक ५१ ते ६० श्लोक ६१ ते ७० श्लोक ७१ ते ८० श्लोक ८१ ते ९० श्लोक ९१ ते १०० सौन्दर्यलहरी - श्लोक ८१ ते ९० आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे. Tags : booksaundaryalaharishankaracharyaपुस्तकशंकराचार्यसंस्कृत श्लोक ८१ ते ९० Translation - भाषांतर ८१गुरुत्वं विस्तारं क्षितिघरपति: पार्वती निजांनितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।अतस्ते विस्तीर्णौ गुरुरयमशेषां वसुमतींनितम्बप्राग्याभार: स्थगयति लघुत्वं नयति च ॥८१॥८२करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली-मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति ।सुवृत्ताभ्यां पत्यु: प्रणतिकठिनाभ्यां गिरिसुतेविजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयामपि ॥८२॥८३पराजेतुं रुद्रं द्विगुणशरगभौं गिरिसुतेनिषङ्गौ जङ्गे ते विषमविशिखो बाढमकृत ।यदग्रे दृश्यन्ते दशशरफला: पादयुगली-नखाग्रछद्मान: सुरमुकुटशाणैकनिशिता: ॥८३॥८४श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मात: शिरसि दयय धेहि चरणम् ।पयो: पाद्यं पाथ: पशुपतिजटाजूटतटिनीययोर्लाक्षालक्ष्मीररुहरिचचूडामणिरुचि: ॥८४॥८५नमोवाकं व्रूमो नयनरमणीयाय पदयो-स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।असूयत्यत्यन्तं यदिभिहननाय स्पृहयतेपशूनामीशान: प्रमदवनकङ्केलितरवे ॥८५॥८६मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं सललाटे भर्तारं चरणकमले ताङ्यति ते ।चिरादन्त: शल्यं दहनकृतमुन्मूलितवतातुलाकोटिक्काणै: किलिकिलितमीशानरिपुणा ॥८६॥८७हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशिस चरमभागे च विशदो ।वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनांसरोज त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥८७॥८८पदं ते कीर्तीणां प्रपदमपदं देवि विपदांकथं नीतं सद्भि: कठिणकमठीखर्मरतुलाम् ।कथंचिद्वाहुभ्यामुपयमनकाले पुरभिदायदादायन्यस्तं दृषदि दयमानेन मनसा ॥८८॥८९नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-स्तरूणां दिव्यानां हसत इव ते चण्डि चरणम ।फलानि स्वस्थेभ्य: किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रिरमनिशमन्हाय ददतौ ॥८९॥९०ददाने दीनेभ्य: श्रियमनिशमाशानुसदृशी-ममन्दं सौंदर्यप्रकरमन्दं विकिरति ।तवास्मिन्मंदारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीव: करणचरण: षट्चरणताम् ॥९०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP