संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सौंदर्यलहरी| श्लोक ११ ते २० सौंदर्यलहरी प्रस्तावना श्लोक १ ते १० श्लोक ११ ते २० श्लोक २१ ते ३० श्लोक ३१ ते ४० श्लोक ४१ ते ५० श्लोक ५१ ते ६० श्लोक ६१ ते ७० श्लोक ७१ ते ८० श्लोक ८१ ते ९० श्लोक ९१ ते १०० सौन्दर्यलहरी - श्लोक ११ ते २० आदि शंकराचार्यांनी भगवान् शंकर आणि भगवती यांच्या आज्ञेनुसार वेदांतील शताक्षरी महाविद्येचे विवरण १०० श्लोकांत केले आहे. Tags : booksaundaryalaharishankaracharyaपुस्तकशंकराचार्यसंस्कृत श्लोक ११ ते २० Translation - भाषांतर ११चतुर्भि: श्रीकंठै: शिवयुवतिभि: पञ्चभिरपिप्रपन्नाभि: शंभोर्नवभिरपि मूलप्रकृतिभि: ।त्रयश्चत्वारिंशत वसुदलकलाश्च त्रिवलय-त्रिरेखाभि: साधं तव शरणकोणा: परिणता: ॥११॥१२त्वदियं सौंदर्य तुहिनगिरिकन्ये तुलयितुं कवींद्रा: कल्पन्ते कथमपि विरिञ्चिप्रभृतय: ।यदालोक्यौत्सुक्यात् अमरललना यान्ति मनसातपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवी ॥१२॥१३नरं वर्षीयांस नयनविरसं नर्मसु जडं तवापाड्गालोके पतितमनुधावन्ति शतश: ।गलद्वेणीबन्धा: कुचकलशविस्त्रस्तसिचयाहठात त्रुट्यत काञ्च्यो विगलितदुकूला युवतय: ॥१३॥१४क्षितो षटपंचाशत् द्विसमधिकपंचाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपंचाशदनिले ।दिवि द्वि: षट त्रिशन्मनसि च चतु:षष्टिरित येमयूरखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥१५ शरजज्योत्स्नां शुभ्राशशियुतजटाजूमुकुटां वरत्रासत्राणस्फटिकघुटिकापुस्तककराम् ।सकृन्नं त्वां नत्वा कथमपि सतां सन्निदधतेमधुक्षीरद्राक्षामधुरिमधुरीणा भणितय: ॥१५॥१६कवीन्द्राणां चेत: कमलवनबालातरुचिंभजन्ते ये सन्त: कतिचिदरुणामेव भवतीम् ।विरिञ्चिप्रेयस्यास्तरुणतरशृड्गालहरी-गभीराभिर्वाग्भिर्विदधति सतां रज्जनममी ॥१६॥१७सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिमि-र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति य: ।स कर्ता काव्यानां भवति महतां भङ्गिसुमगैर्वचोभिर्वाग्देवीवदनकमलामोदमधुरै: ॥१७॥१८तनुच्छायाभिस्ते तरुणतरणी श्रीसरणिभिर्दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति य: ।भवन्त्यस्य त्रस्यद्वनहरिणशालीननयना:सहोर्वश्या वश्या: कति कति न गीर्वाणगणिका: ॥१८॥१९मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषी ते मन्मथकलाम् ।स सद्य: संक्षोमं नयति वनिता इत्यतिलघुत्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥१९॥२०किरन्तीमङ्गेभ्य: किरणनिकुरम्बामृतरसंह्रदि त्वामाधत्ते हिमकरशिलामूर्तिमिव य: ।स सर्पाणां दर्प शमयति शकुन्ताधिप इवज्वरप्लुष्टान दृष्टया सुखयति सुधाधारसितया ॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP